अनन्तशक्तिस्तवः

अनन्तशक्तिस्तवः

प्रसान्तपदतः स्वतः स्फुरति येयमाद्यप्रभा समतगुणगर्भिणी विविधमन्त्रवर्णाम्बिका । निरुत्तरचमत्कृतिप्रसरसारसम्बोधिका जयत्यगमजा त्रिधा त्रिपुरसुन्दरी साव्यया ॥ १॥ इच्छाज्ञानक्रियाख्यं त्रितयमिह परं वाग्भवादिक्रमौघै- र्या देवी निर्विभागा परमशिवपदा स्फारयन्ती नितान्तम् । स्वातन्त्र्योल्लासवृत्तिर्निरवधिविभवा निर्मला निर्णयेता- (निर्णयेदा) वर्णावर्णकारस्फुरित्तनुलता सा ज्यत्याद्यशक्तिः ॥ २॥ वर्गैरष्टभिराकृतिस्तनगतिः शीर्षांसहृत्पृष्ठगै- र्गुह्याङ्घ्रिक्रमनिष्ठितस्तव सदा ज्ञानप्रतानप्रदा । चिद्रूपा परमा विभाति नितरां देव्यक्षगाक्षाश्रया पीठाज्ञानिलया त्रिमूर्तिवसतिः कोलापहा कौळिनी ॥ ३॥ निरुत्तरेच्छोभयसामरस्या- द्या मूर्तिराद्या प्रविभाति दीप्ता । आनन्ददाहार्धकलार्धगर्भा तां नौमि श‍ृङ्गाटवरासनस्थाम् ॥ ४॥ हुतवहरविसोमब्रह्मचक्रान्तराले स्फुरति निरवकाशा शम्भुशक्तिः स्वतन्त्रा । सकलभुवनवर्गं पूरयन्ती स्वभाभिः परमशिवधराद्या भिन्नमूर्तिं नुमस्ताम् ॥ ५॥ (नमस्ताम्) ब्रह्मव्योम्नो विकसितगतिः शक्तिराद्या स्फुरन्ती मायागर्भे समरसतया व्यक्तरूपं विधाय । त्यक्त्वा भूमिं भरितभुवना जन्मसंंज्ञां सुसूक्ष्म- प्राणोद्धातैः शिखिशितमुखा मोहिनी ग्रन्थिसक्ताम् ॥ ६॥ प्रोल्लङ्घ्याशु प्रततहृदयव्योमधामाव्ययाभा स्वैरं प्राप्य क्षपितकलना या महानादवृत्तिः । नित्या देवी निरवधिलसद्वाग्विलासप्रपञ्च- स्फूर्त्युद्दामग्रथितरचनाहेतुभूतां नुमस्ताम् ॥ ७॥ भूयस्ततोऽपि हृदयार्धकलाकृतिर्या शक्तिः परा निरवधि करवा विरौति । प्राणप्रवृत्तिशमतः परभृमिमप्ता वक्त्रातिगा वितततुर्यनमःस्वरूपा ॥ ८॥ (वितततुर्यनभःस्वरूपा) तां नौम्यनन्तविभवां भुवनालिवर्ति- मत्ताङ्गनाहृदयमोहनदक्षलक्षाम् । देवीं परां त्रिपुरसुन्दरिनामधेयां सर्वाभिलाषपरिपूरणकल्पवल्लीम् ॥ ९॥ बिन्दुं विगाह्य परमामृतसारवर्षा वेगाद् विमुच्य परितः कपिलावनिस्थाम् । हार्धाकृतिप्रबलवह्निसहस्रदीप्ता मायाविमोहविल्याच्छिवधामखस्था ॥ १०॥ शक्तिः परा जयति सा परमा विभेद- वृत्त्या जगत्सुखचरं वचसामगम्यम् । आसाद्य सत्सु वितनोति विमुक्तिलक्ष्मीं यस्याः स्मृते च लयमेति विषं त्रिधोत्थम् ॥ ११॥ इत्थं देव्या निरवधि महः सर्वादिक्कं विभाति त्रेधा मान्त्रं सततविततं कामचारक्रमेण । ऋद्धिं सिद्धिं निरुपममहामोक्षकक्ष्यामपीह प्रस्फार्याशु स्वकुळपद्गं यस्य सम्यक् स मुक्तः ॥ १२॥ शाक्तेन बीजेन विकास्य शक्ति- मिच्छात्मिका या विषमत्ति सर्वम् । उन्मीलयन्ती भुवनान्यभेद- रूपाणि गर्भे तु नमाम्यहं ताम् ॥ १३॥ नैरञ्जनं धाम परं नितान्तं विकासयन्ती सदसद्विहीनम् । चक्राश्रयादिक्रमविक्रमौध- संहारिणीं नौमि चितिं स्वतन्त्राम् ॥ १४॥ कामाख्यबीजेन चितिं क्रियाख्यां प्रोल्लास विश्वं वमनात् समग्राम् । करोति नित्यं निजबीजवृत्ति- माहात्म्यतो या ग्रणमाम्यहं ताम् ॥ १५॥ आद्येन बीजेन सदेव देवी (सदैव) ज्ञानाभिधां शक्तिमिहामिताभाम् । विष्फार्य गङ्गाजलवीचिविद्या (वीचिवद्या) तनोति काव्यं रुचिरं नुमस्ताम् ॥ १६॥ ब्राह्मे बिले हृद्भुवि नाभिधाम्नि यद्वर्णभङ्गिर्नितरां विभाति । तां नौमि देवीं परनादशक्तिं प्रोल्लासरूपां त्रिपुरां त्रिमार्गाम् ॥ १७॥ स्फटिकमणिनिभं यच्छक्तिबीजं करन्ध्रे प्रभवति परसंविद्याभिनीनाथरूपम् । अमृतनिकरधारासारमुच्चैर्विमुच्य प्रततकुलकलापव्यापकं तत् प्रपद्ये ॥ १८॥ अभिनवदिननाथप्रस्फुरत्कान्तिवर्णं हृदयगगनधाम्नि भ्राजते यत् सदैव । तदिह कुसुमचापस्फारकं कामराजं भवति निखिलकान्तासन्ततेर्ध्यानयोगात् ॥ १९॥ कुसुमविशिखवर्णैः पञ्चभिः साध्यनाम स्फुरदनुपमनादस्फारमाविश्य सम्यक् । वृतमिह नितरां यत् कामराजोदरस्थं कतिपयदिनपूजाध्यानतः क्षुभ्यते तत् ॥ २०॥ कुळगगनपदान्तर्दिव्यलिङ्गाग्रभागे प्रभवति परबीजं वाग्भवं विद्युदाभम् । यदिह विविधविद्याद्योतकं ध्यानगम्यं जयति निरुपरागं तत् परं विश्वरूपम् ॥ २१॥ वाग्भावाद्यैः स्फुरदमितभाभास्वरैः षट्प्रकारै- र्दिव्यं मान्त्रं वपुरनुपमं तावकं ये विदन्ति । तेषां देवि! त्वमपि परमां सिद्धिमुच्चैर्ददासि स्थूलं सूक्ष्मं परमथ महाध्यानमाश्रित्य मातः ॥ २२॥ इति जननि तवेदं दिव्यमन्त्राक्षराणां निगदितमनुपाधि ध्यानमध्यात्मदृष्ट्या । गुरुवरपरवक्त्रस्फारसत्सम्प्रदायात् प्रभवति निजचित्ते यस्य सम्यक् स सिद्धः ॥ २३॥ इत्थं त्वदिच्छोच्चलिता त्रिधेयं वर्णोज्झितं वार्णमिदं स्वरूपम् । प्रकाशयन्ती परचिद्विकास- प्रोल्लासितं या प्रणमाम्यहं ताम् ॥ २४॥ जयत्रयं गौणमथाविरूपं (जगत्त्रय्ं) धामाभिधं कारणसंज्ञितं च । चक्रादिकं तात्विकमप्यनन्त- ख्याप्येत्थमाशु प्रथिता खतो या ॥ २५॥ त्रिधा त्रिधेदं तु विकास्य विश्वं सर्वादिगानुत्तरचिद् विभाति । सदात्मना प्रच्युतवृत्तिरुच्चैः स्थितेह तां नौमि परां भवानीम् ॥ २६॥ विश्वं सर्वं समरसतया व्यक्तमन्तर्विधत्ते द्विव्योमाङ्काकुलितविभवा याम्बिका सा निरुक्ता । सम्प्रत्येषा शिततरमुखा बीजभावं स्वतन्त्रा शक्तिर्वामा प्रथमहकलाकारमाप्ताङ्कुरत्वम् ॥ २७॥ कौण्डिल्येव प्रभवति शिखाकारमाश्रित्य दीप्ता ज्येष्ठा दण्डाकृतिरिव कला दर्शिता शास्त्रदृष्ट्या । रौद्री रौद्रा त्रिजगदखिलं भासयन्ती त्रिकोणा त्वं देव्येव त्रिदशनभिते भासनन्तैकतैव ॥ २८॥ (भासनन्तैकदैव) आभिः कलाभिरभितो निजरूपमत्र प्रस्फार्य वर्णरचनामवलम्ब्य देवि! । सन्मन्त्रतन्त्रवरविश्वविभागचित्रं संविन्नयस्यखिलमात्मरुचो विभिन्नम् ॥ २९॥ नामरूपकलनाकुलं प्रिये स्वैरतात्र कुलनायिके कुलम् । आश्रितार्थमगुणं कुळक्रमं कौळ्यते कमपि चेष्टितं त्विदम् ॥ ३०॥ प्रकाशधर्मा भगवान् महेशो यया विना भाति न कुत्रचिच्च । यद्वीर्यविज्ञानविकासयोगाद् विश्वोदयाभासनिरासकृत्यै ॥ ३१॥ कर्ता विभुर्भेदविभागमुक्तः सत्तां विगाह्य प्रथते सदैव । तां नौमि शक्तिं त्रिपुराभिधानां महाविमर्शोदयवृत्तिरूपाम् ॥ ३२॥ एका या पञ्चशक्तिक्रमपरहुतभुग्युग्मयुग्मैक्यवृत्तौ शार्वी सन्मण्डलेऽन्तः प्रभवति सततं योनिभिस्त्र्युत्तराभिः । चत्वारिंशद्भिरुच्चैरकृतकरचनाराञ्जिते दिव्यपद्म- द्वन्द्वाङ्के द्वारतुर्यं दिशतु जगति शं चक्रदेवीयुता सा ॥ ३३॥ प्राणो वह्निरिहोच्यते प्रळयकृज्जन्मादिशीर्पान्तगः प्रोन्मेषः क्षितितुर्थमारुतमहाभूतान्तसत्ताश्रयः । शक्तिः शाम्भवधामतस्त्वनवधिः सृष्टिक्रमप्रोदिता कादिक्षान्तगता सदेति गुरुतो ज्ञात्वामरत्वं यजेत् ॥ ३४॥ अग्निरूर्ध्वगतिर्नॄणां वपुः संहर्तुमुद्गतः । शक्तिः सामृतवर्षेण तं विलाप्य ततः सृजेत् ॥ ३५॥ तस्मादकुळतः शक्तिं प्रसृतां भावयेद् बुधः । तद्भावनातः सततं त्रिजगत् स्यादनश्वरम् ॥ ३६॥ अपानधर्मा प्रतिभाति यस्याः पुरःस्थितं पूरकधामनिष्ठः । गणाधिनाथः सकलान् विलाप्य सङ्कल्पविघ्नान् प्रणमाम्यहं ताम् ॥ ३७॥ प्राणप्रवाहप्रचयस्वरूपो द्वाराग्रवर्ती बटुको विभाति । वांह्योन्यवर्गौघनिपानसक्तो (वाह्यो?) यस्या नतोनं त्रिपुरेश्वरीं ताम् ॥ ३८॥ सुधाब्धिमुख्यं प्रविभाति यस्याः षोढासनं चक्रकलात्मिकायाम् । तां विश्वरूपां प्रणमाम्यनल्प- प्रोन्मेषरूपां त्रिपुरां त्रिमार्गाम् ॥ ३९॥ त्र्यश्रमध्यगगनोदरोदिता सर्वचक्रविभवौघनायिका । तुर्यरूपमत्रगाह्य भाति या तां परां त्रिपुरसुन्दरीं नुमः ॥ ४०॥ ओड्डियाणपरपीठसंश्रयं संश्रिता निरवकाशधर्मिणी । निर्विकल्पपरधामचारिणी या कलामयमहं नतोऽस्मि ताम् ॥ ४१॥ सर्वज्ञताद्यानि वराणि भान्ति यस्याः सदाङ्गानि हृदादिकानि । तां नौमि देवीं परिबोधधाम- स्पन्दामरूपामिह वामकेशीम् ॥ ४२॥ इच्छादिशक्तित्रितयं क्रमेण कामेश्वरीमुख्यमिह त्रिकं च । पीठत्रयाकारमये त्रिकोणे चकास्ति यस्याः प्रणमाम्यहं ताम् ॥ ४३॥ रुद्रस्य विष्णोः कमलोद्भवस्य परस्य च ब्रह्मतनोः शिवस्य । एकैव शक्तिः प्रतिभाति नित्यं निजेच्छया जन्मपदे च शुद्धाम् ॥ ४४॥ शब्दादितन्मात्रवपुर्महोग्रं यस्याः पुरोवर्ति महः समिद्धम् । अस्त्राष्टकं चैव परान्तराळे विराजते तां प्रणमामि देवीम् ॥ ४५॥ चक्रं वशिन्यादि पुरं महेश्या वर्गाष्टकाकार मनुस्वरूपम् । चकास्ति यस्याः परितोऽष्टकोणे चक्रेश्वरीं तामिह नौमि नित्याम् ॥ ४६॥ ततो दशारं हुतभुक्कलात्म- सर्वज्ञदेवीप्रमुखं तु चक्रम् । अव्यक्तरूपं प्रविभाति यस्या- स्तां सूक्ष्मनादां गणमामि नित्याम् ॥ ४७॥ द्विपञ्चकोणेऽथ विभाति दीप्तं चक्रं द्वितीये दहनांशुरूपम् । सिद्धिप्रदादिप्रमुखं तु यस्या व्यक्तं पुरस्तात् त्रिपुरां भजे ताम् ॥ ४८॥ चतुर्दशारे कृतसुप्रतिष्टं सङ्क्षोभिणीमुख्यमिहार्क चक्रम् । अन्तर्बहीरूपकलाद्वयेन युक्तं तु यस्याः सततं नुमस्ताम् ॥ ४९॥ पद्मे ऽष्टपत्रे स्थितमष्टधोत्थं चक्रं तु पुर्यष्टकभेदभिन्नम् । उर्व्याद्यहङ्कारमयरत्वनङ्ग- पुष्पादिकं यत्पुरगं नुमस्ताम् ॥ ५०॥ द्विरष्टपत्रे जलजेऽन्तराळे शीतांशुरश्मिप्रविभक्तगात्रम् । कामाभिधामुख्यभिहोदितं तु यस्याश्चितेस्तामिह नौमि नित्याम् ॥ ५१॥ बाह्यनिष्ठचतुरश्रसंस्थिता मातरोऽष्टककलात्मिका इमाः । व्यक्तवर्गतनवो यदङ्गना- स्तां नमामि पररावचारिणी ॥ ५२॥ त्र्यश्रादिचक्रनिवहे प्रथितां सदैवं चक्रेश्वरीचयमये स्वयमेव देवी ॥ निर्धामधामविभत्रा परमेशधाम्नि येयं विराजितवपुः स्वचितिं नुमस्ताम् ॥ ५३॥ मुद्राभिरु च्चैर्दशभिः स्वधाम- रूपाभिराशु प्रविभात्यमेया । त्रिखण्डमुद्रादिमयीभिराद्या येयं चितिस्तां प्रणमामि नित्याम् ॥ ५४॥ मोदयन्ति स्वचित्स्फारैर्द्रावयन्ति मलानि याः । मुदं रान्ति च मुद्राख्याः ख्यातास्ता इह शक्तयः ॥ ५५॥ एकैव या पूजनवैभवेन नानाविचित्रेण बहुप्रकारम् । विष्फार्य रूपं निजमप्रमेयं विराजते तां प्रणतोऽस्मि देवीम् ॥ ५६॥ प्रोद्दामपूजाक्रमभेदभङ्गया या प्रोद्गता व्युत्क्रमतः समन्तात् । निजस्वरूपप्रतिपादनाय तां नौमि देवी गुरुमूर्तिमाप्ताम् ॥ ५७॥ चिद्विमर्शवपुषो निरन्तरा रश्मयस्त्रिपुरसुन्दरीह ये । भान्ति ते परशिवाम्बरप्रभा- मण्डलं तदिह धाम वाचकम् ॥ ५८॥ रेखाक्रमो भाति विचित्रवृत्ति - र्योऽयं स्वशक्तिप्रसरप्रभेदः । एकस्य चिद्व्योमतनोरनेक- स्तथैव सा सद्धृदि पोस्फुरीति ॥ ५९॥ बालभानुसदृशेन मूर्तिम- द्वैभवेन निजमान्तरं महः । दर्शयत्यमितबोधबृंहितं सर्वदिक्कमिह या नतोऽस्मि ताम् ॥ ६०॥ एकेन या वक्त्रवरेण देवी सर्वोदयं सर्वविकल्पमुक्तम् । सत्सूचयन्ती परभक्तिभाजां त्वां शक्तिमानन्दतनुं नमामि ॥ ६१॥ नेत्रत्रयेणेह सदा भवानी या जागरादिप्रभवात्मकेन । ज्ञेयादिरूपं त्रिजगत्प्रपञ्चं संलक्षयन्ती प्रणमाम्यहं ताम् ॥ ६२॥ दोर्दण्डयुग्मद्वयसन्निवेश- क्रमेण या वर्गचतुष्कमुच्चैः । आवेशयन्त्याशु विचित्रमूर्ती- स्तां नौमि नित्यां परमामवाच्याम् ॥ ६३॥ दृगादिवृत्तिप्रचयस्वरूपं शरौ घमुच्चैरिह पञ्चधा या । विभक्ति देवी नितरामनादि- (भिनत्ति देवी) बोधैकमूर्तिः प्रणमाम्यहं ताम् ॥ ६४॥ चैतन्यविष्फारवपुर्बिभर्ति या कार्मुकं बुद्धिगुणेन युक्तम् । तां नौमि देवीं परचित्प्रकाश- रूपेश्वरा भिन्नविमर्शशक्तिम् ॥ ६५॥ आकृष्य पाशेन समस्तदोषान् मोहादिकान् कौण्डलिविग्रहेण । भिनत्ति यास्त्रेण महाङ्कुशाख्य- रूपेण संहारकलामयेन ॥ ६६॥ तां नौमि देवीं कुळशून्यधाम- मध्योदितां कारणपञ्चकं च । जन्मादिभूभ्यन्तरगं समन्ताद् विलापयन्तीमकुळामवाच्याम् ॥ ६७॥ या द्वादशान्तःस्थितशैवधाम- लब्धास्पदा कालकलाविमुक्ता । तां नौमि देवीं परशून्यगर्भे शान्तां प्रशान्तं वपुरुद्वहन्तीम् ॥ ६८॥ स्वातन्त्र्यतन्त्रेण ततोऽपि** विकासवृत्तिं परमां विगाह्य । चान्द्रं महामण्डलमप्रमेयं विद्राव्य तूर्णं कुळमाविशन्तीम् ॥ ६९॥ पीयूषधाराप्रचयेन नित्य- मापूर्य जन्मावधि धाम्नि भूयः । लब्धप्ररोहप्रभवप्रशान्ति- रूपेह तां शक्तिमहं नमामि ॥ ७०॥ आधारमाकुञ्च्य गुरूक्तयुक्त्या प्राणान् निरुयोर्ध्ववहं समस्तम् । प्रज्वाल मध्यस्थित शक्तितेजः- (प्रज्वाल्य?) पुञ्जं समाधिं विभजन्ति धन्याः ॥ ७१॥ इत्थं समाविश्य कुळक्त्रमस्थां मुद्रां महामन्त्रमयीस्वरूपाम् । प्रकाशतां याति निराख्यरूपा येयं परा शक्तिरिह स्तुमस्ताम् ॥ ७२॥ विगाह्य मेढ्रादिनवप्रकार- स्थानौघमुच्चैर्नवभिः समेतम् । शिखाग्निलक्षैर्ज्वलिता ददाति सिद्धिं परां या प्रणमाम्यहं ताम् ॥ ७३॥ अनेन सद्दोशिकसम्प्रदाय क्रमोदयेनाश्ववगम्यते यैः देवी यदेषां परभुक्तिमुक्ती ददाति गर्भे तु नमाम्यहं ताम् ॥ ७४॥ देवीं नुमस्तां परितः स्वसंवि- द्रूपां वरां भक्तिविकासयोगात् । यया मलादित्रितप्रपञ्चः प्रक्षालितो बोधजलप्रपूरैः ॥ ७५॥ पुष्पादिबाह्यप्रततोपचारै- र्देव्यर्च्यते भक्तजनैः सदैव । आभ्यन्तरा काप्यमितात्र पूजा यस्याः स्वरूपानुगुणस्थितायाः ॥ ७६॥ तामेव वक्ष्ये गुरुवक्त्रयुक्त्याः सङ्क्षेपतः साधुविबोधनाय । सूक्ष्मां परां च स्वचितिस्वरूपां सम्यक् समाविश्य निजप्रबोधम् ॥ ७७॥ पितामहरमाधिपप्रभृतिपञ्चकं हेलया विलापयति एन्महः प्रथमनादवृत्त्युद्गमात् । (सन्मह?) तदेव विततप्रथं स्वकुळमध्यगं देवि ते स्थितं स्वरसतः सतां विततमध्यगं निर्मलम् ॥ ७८॥ तासां महत् कञ्चुकपञ्चके(?)यत् तदेव यस्यार्घ्यमनर्गळस्य । समर्च्यते तत् प्रणमामि भक्त्त्या देवीस्वरूपं विततप्रकाशम् ॥ ७९॥ पञ्चप्रवाहोदितशक्तिचक्र- क्रमोद्धृतैर्भावविभागपुष्पैः । याहर्निशं देव्यनुरोधतस्त्वं समते सद्भिरभिष्टुमस्ताम् ॥ ८०॥ ब्राह्माद् बिलादूर्ध्वगमोदितालं शक्तिप्रभा धूपशिखेव भाति । यदग्रगां नौमि समस्तभाव- संहारिणीं तां निजचिद्विभूतिम् ॥ ८१॥ प्राणप्रवाहौघनिघट्टनेन यज्ज्योतिराग्नेयमनल्पवीर्यम् । उदैत्यसौ दीपवरः प्रदीप्तो यदग्रगस्तां प्रणमामि देवीम् ॥ ८२॥ अखण्डितस्वात्ममहावभास- चित्कुङ्कुमौघः प्रततप्रमोदः । सदाङ्गरागः प्रविभाति यस्या- स्तां नौमि देवीं रमणीयवृत्तिम् ॥ ८३॥ अक्षवर्गगमनिष्ठितं परं चित्तभैरववपुर्निवेदनम् । यत्प्रियं निरवधिं नमामि तां सुन्दरीमपरबोधबृंहिताम् ॥ ८४॥ चिन्मृगाङ्कवपुपश्च्युतामृत- स्रावसम्भृतमहार्घ्यपात्रतः । तर्पणं विततमास्थितं सदा यत्तनोः सततमस्मि तो नतः ॥ ८५॥ जन्मकुण्डगगनोदरोद्गतश्चित्रभानुरिह भाभिरुत्कटः । अक्षपक्षविषयाहुतीः सदा भक्षयन् निरवधिक्रमाक्रमैः ॥ ८६॥ जाज्वलीति करणेशसप्तकप्राज्यघस्मरशिखाविराजितः । चित्तत्रिभ्रममयेन्धनैः सदा वह्निकर्म तव देव्यवरिथतम् ॥ ८७॥ इत्थं सदा सद्भिरनान्दिवोधधामा निकेतं गुरुवक्त्रगम्यम् । सम्यक् समाविश्य समर्च्यते या तां नौमि काञ्चिच्चितिम प्रमेयाम् ॥ ८८॥ इयं परस्मादविभिन्नरूपा शिवस्वतन्त्रा क्रमतोऽक्रमेण । आदौ परेणाथ परावराख्यभेदेनं पश्चादपरेण देवी ॥ ८९॥ निजस्वरूपं तु विभज्य नित्यं जहाति नैवाप्रतिमप्रभावम् । शैवं महः सर्वविभेदमुक्तं निरुत्तरं या ग्रणमाभ्यहं ताम् ॥ ९०॥ चिदङ्कुरं काम कलास्वरूपं बिन्दुं विचिन्त्यामृततेजसेद्धम् । अनाहतोन्मेषनिनादशक्तिवक्त्रे स्थितं व्योमबिलान्तराळे ॥ ९१॥ तस्याधरस्थं शशिसूर्यरूपं बिन्दुद्वयं पार्श्वयुगप्रवाहम् । तस्याप्यधो वह्निशिखास्वरूपरेखाकृतिं च प्रविलाप्य सम्यक् ॥ ९२॥ एतं क्रमं ध्यानपरं सदैव त्यक्त्वा क्त्रमं सर्वाविकल्पमुक्तम् । ध्यायेन्महासाधकपुङ्गवो यो लभेत् स सिद्धि परम शिवोत्तमम् ॥ ९३॥ मायाकामासनस्थं हृदयपदातं कामराजस्य साध्यं (हृदयपदमतं?) ध्यात्वा तद्वाह्यकोष्टं पुटितमनुपमं वाग्भवं तद्बहिश्च । ब्रूङ्कारं कोणषट्के बहिरपि च ततस्त्रिस्थिता तुम्बुरुर्ध्वं कृत्वा क्लीम्बीजकं यत् स्मरति स भुवनं क्षोभयेद् देवि सम्यक् ॥ ९४॥ इदं यन्त्रं समाधिस्थो दृग्गोळो केळियोगतः (?) । महाकामकलां ध्यात्वा पूजयेद् यः स सिद्धिभाक् ॥ ९५॥ विद्याधरी सुरवधूरपि सिद्धपत्नी गन्धर्वदिव्यललनोरगनायिकापि । यक्षेश्वरप्रियतमा नरधुर्यरामा त्वत्सेवकस्य भवेतीह वशा सदैव ॥ ९६॥ एकैकाक्षरसाधनं विधिवरैस्त्वन्मूर्तिमाद्यां परां ध्यात्वा ये भवपत्नि! साधकवराः कुर्वन्ति तेषां सदा । त्वद्दृक्पातपवित्रितैकमनसामत्यद्भुता जायते सिद्धिर्यद्वशतः सुराधिपमुखा दास्यं स्पृशन्त्यादरात् ॥ ९७॥ यो लक्षाणि वराङ्गजन्महृदयब्रह्माख्यरन्ध्रात्मना ख्यातान्यत्र कुळागमे गुरुवरैर्यान्याद्यसिद्धेश्वरैः । तद्ध्यानं परितो विधाय निपुणैर्लक्षत्रयं जप्यते शक्तयुद्दीपनपूर्वकं तु परमा सिद्धिस्ततो जायते ॥ ९८॥ वश्याकर्षणवाग्भवादिपृतनास्तम्भादिकार्यक्रम- श्चक्रध्यानसमर्चनादिविधिना सिद्ध्यत्यवश्यं नृणाम् । कारुण्यात् तव देवि! निर्मलधियां मोहाभिधानक्षया- न्मोक्षप्रत्ययदर्शनाय सततं मुख्यानुभावोऽत्र नः ॥ ९९॥ चतुर्थशक्तिप्रथितं विलाप्य मोहप्ररोहं भवभेददं या । विकास्य निर्द्वन्द्वचितिप्रकाशप्रकाशितां शक्तिमनुग्रहाख्याम् ॥ १००॥ विभाति तां नौमि भवाब्धिमध्ये प्रोन्मग्नजन्तूद्धरणैकदीक्षाम् । निर्धामधामक्रम विष्फुलिङ्ग- प्रपूरिताशेषदिगन्तराळाम् ॥ १०१॥ अकृतकपरभक्तिव्यक्तिसंसक्तचित्त- प्रथितवितरबोधस्फारसम्प्रेरणेन । कृतमिदमनिकेतध्यानसाध्यैक मूर्ते- र्निरुपमनिजसंविद्देवतामाययोच्चैः ॥ १०२॥ गुरुवरवदनोत्थप्राज्यसत्सम्प्रदाय - क्रमपरमरहस्यैर्बृंहितैर्वाग्विलासैः । त्रिपुरमथनकान्ताभक्तिसक्तेन यत्तत् स्तबकममलचित्ता हन्त श‍ृण्वन्तु सन्तः ॥ १०३॥ अनन्तशक्ति कृच्चेदं स्तोत्रं तव महेश्वरि ! । यत् तेन देवि! भक्तानां भुक्तिमुक्तिमहाफलम् ॥ १०४॥ (अनन्तशक्तिस्तवनामकमिदं त्रिपुरसुन्दरीस्तोत्रम् । कुळयोगानुसारं विविध-मूलमालसम्पुटितैः परश्शतैरनवद्यैः पद्यैः सङ्गुम्फितमिदं साधकानामनन्तशक्तिप्रदम् । देव्यां त्रिपुराम्बिकायां अकृतक-भक्तिमता विततबोधेन गुरूपदेशद्वारा कौळ-सम्प्रदायरहस्यवेदिना केनापि साधकवरेण विरचितमिदं स्तवरत्नमित्येतस्यान्तिमश्लोकाभ्यामवगम्यते ॥ ) (This stotra is much tantric in content and many of the mysterious formulae (bIjamantra) employed by tantrics are incorporated in it. The authot himself makes it clear that he has followed the kaula system of tantra in composing the work.) इति अनन्तशक्तिस्तवः समाप्तः । Proofread by Mohan Chettoor
% Text title            : Anantashakti Stava
% File name             : anantashaktistavaH.itx
% itxtitle              : anantashaktistavaH
% engtitle              : anantashaktistavaH
% Category              : devii, devI, tantra
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mohan Chettoor
% Description/comments  : From Stotras Samahara Part 1 (ed. K.Raghavan Pillai)
% Indexextra            : (Scan)
% Latest update         : September 4, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org