अनुग्रहे नवश्लोकाः
१. ॐ विश्वेश्वरी जगद्धात्रीं स्थितिसंहारकारिणीं
करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः ।
२. ॐ स्तुता सुरैः पूर्वमभीष्ट संश्रयात् तथा सुरेन्द्रेण दिनेषु सेविता । करोतु०
३. ॐ या साम्प्रतं चोद्धत दैत्यतापितैः अस्माभिरीशा च सुरैर्नमस्यते । करोतु०
४. ॐ या च स्मृता तत्क्षणमेव हन्ति नः सर्वापदो भक्ति विनम्रमूर्तिभिः । करोतु०
५. ॐ सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि । करोतु०
६. ॐ सर्वमङ्गल माङ्गल्ये शिवे सर्वार्थ साधिके । करोतु०
७. ॐ सृष्टि स्थिति विनाशानां शक्तिभूते सनातनि । करोतु०
८. ॐ शरणागतदीनार्त परित्राण परायणे । करोतु०
९. ॐ सर्वस्वरूपे सर्वेशे सर्वशक्ति समन्विते ।
करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः ॥
इति अनुग्रहे नवश्लोकाः समाप्ता ।
Encoded and proofread by Aruna Narayanan