अवस्था-निवेदनम्
अयं दाता तुष्येदयमपि धरित्री-परिवृढः
प्रसीदेदित्याशा जगति बहु तावद् भ्रमयति ।
शिवे ! यावद्युष्मच्चरण-युगले नम्र-कमले
व्यपेतान्यासक्तिर्नहि भवति भक्तिः शिखरिणी ॥ १॥
दिवा तत्तत्कार्य-व्यतिकर-परीतेन मनसा
निशायामप्यारान्मुहुरुपचित-स्वप्नमहसा ।
पराक्रान्तो दूये जननि ! जगतामेकशरणे !
कथं वीज्ञोपेक्षा-सरणिमनुसर्तुं प्रभवसि ॥ २॥
बहु भ्रान्तं मातर्दिशि दिशि दुराशा-हतधिया
परां काष्ठां नीतं मलिनमपि भूपालचरितम् ।
इतिप्रायैः कृत्यैः परिकलित-काये मयि दया-
सुधा-धारासारैः शिशिरित-दृशं पातय मनाक् ॥ ३॥
परित्यक्तो मित्रैरपि बहु विचित्रैरहरहः
कथैवान्येषां का प्रतिपद-निजार्थार्पितधियाम् ।
दुराधि-व्याधिभ्यां व्यथित इह वर्ते त्रिजगतां
शरण्ये ! कर्णे किं गमयसि न मे क्रन्दितमिदम् ॥ ४॥
धृताप्युच्चैर्वाणी व्रजति बहुधा संशयपथं
कथं तिष्ठेत् पद्मा कमल-शित-नाल-क्षतपदा ।
इदानीं कारुण्यं जननि ! यदि चित्ते न कुरुषे
तदार्ति-व्यस्तस्य प्रकथय कथङ्कारमवनम् ॥ ५॥
त्वयाचार्याकृत्या कथितमपि पथ्यं न कलितं
न तथ्यं त्वत्सेवा-सरणिषु ममाद्यापि करणम् ।
अहो ध्यातुं वाञ्छन्नपि चटुल-चित्तेन भुवनं
विहर्तुं जङ्घालः कथमिव भजाम्यम्ब ! भवतीम् ॥ ६॥
न सक्तिस्त्वत्पूजा-विधिषु न च भक्तिस्तव पदे
क्व वा शक्तिर्ध्याने भवतु तरलानामविषये ई
इति क्लेश-क्लिष्टे मयि यदि न ते मातरधुना
दयायोगो योगो भवति जनुषो निष्फल इह ॥ ७॥
सुधाधाराकारां मयि वितर दृष्टिं सकरुणा-
मये ! मातस्त्वत्तो गतिरिह ममान्या न भुवने ई
प्रसूपार्श्वं त्यक्त्वा कथय कथमन्यं शिशुरिया-
द्दया वा दएडो वा भवतु पुनरौदास्यमतुले ॥ ८॥
संसार-पङ्क-निर्मग्न-समुद्धरण-पण्डिता ।
मण्डिता सकलैश्वर्यैः सा परा संप्रसीदतु ॥ ९॥
इत्यवस्था-निवेदनं सम्पूर्णम् ॥
Encoded by Kamini Viswanathan
Proofread by Kamini Viswanathan, Rajani Arjun Shankar