श्रीबाला आवाहनम्
ऋषिच्छन्दो देवतान्यासादिकं मूलमन्त्रवत् ।
ललितातनयां देवीं बालार्ककिरणप्रभाम् ।
चतुर्हस्तां त्रिणयनां पीतवस्त्रां शुचिस्मिताम् ।
सर्वालङ्कारशोभाढ्यां सर्वदेवैः समावृताम् ।
सर्वसिद्धिमयीं गौरीं सर्वमन्त्राधिदेवताम् ।
सर्वज्ञानप्रदां नित्यां सर्वैश्वर्यफलप्रदाम् ।
सर्वशृङ्गारवेषाढ्यां सर्वलोकनिवासिनीम् ।
साम्राज्यदायिनीं सत्यप्रियां चिन्मातृविग्रहाम् ।
सच्चिदानन्दरूपाढ्यां सदाशिवसुतां पराम् ।
सच्चिन्मयीं सुखाराध्यां सर्वलोकस्वरूपिणीम् ।
सर्वव्याधिप्रशमनीं सर्वमृत्युनिवारिणीम् ।
सर्वमृत्युहरां वन्दे सर्वापदविमोचिनीम् ।
साक्षद्ब्रह्ममयीं बालां कन्यामावाहयाम्यहम् ।
अं कं खं घं चं ठं यं यरलवशषसहों
आं ह्रीं क्रों ऐं क्लीं सौः ह्रां ह्रीं ह्रूं ह्रैं ह्रौः ह्रः
श्रां श्रीं श्रूं श्रैं श्रौं श्रः एह्येहि भगवति आगच्छागच्छ,
क्लां क्लीं क्लूं क्लैं क्लौं क्लः श्रीबालाम्बिके मम हृदये आवेशय आवेशय,
चिरं तिष्ठ तिष्ठ, वरदा भव, प्रसन्ना भव, सुखासीना भव,
चिरं तिष्ठ तिष्ठ,
(मम वश्याकर्षणस्तम्भनोचाटनमोहनजृम्भणद्रावणविद्रावणशोषण-
प्लावनादि सर्वकर्माणि दापय दापय, सर्वशत्रून्विद्रावय विद्रावय,
ज्वल ज्वल, प्रज्वल प्रज्वल, शत्रुनेत्राणि अन्धीकुरु कुरु अन्धीकुरु कुरु,
शत्रुहृदयं भेदय भेदय, शत्रुगतिं निरोधय निरोधय,
शत्रुमनः स्तम्भय स्तम्भय,
शत्रुपुत्रमित्रकलत्रान् नाशय नाशय, शत्रुप्राणान्भ्रामय भ्रामय,
शत्रुगृहाणि दाहय दाहय, शत्रुवित्तानि क्षपय क्षपय)
मम पुत्रमित्रकलत्राणि पालय पालय, ममैश्वर्यवृद्धिं कुरु कुरु,
मम सर्वविद्यां देहि देहि, मम सर्वसुखानि दापय दापय स्वाहा ।
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः श्रीं ह्रीं क्लीं जय जय स्वाहा ।
इति श्रीबाला आवाहनं सम्पूर्णम् ।
Proofread by PSA Easwaran