श्रीबालागीतम्
(मुत्तुस्वामिदीक्षित कृतम् ।)
(कल्याणी रागे - मिश्रचापुताले)
भज रे रे चित्त बालाम्बिकां
भक्तकल्पलतिकां - भज रे
अनुः - निजरूपदानदक्षचरणामरुणां नित्यां
कल्याणीं शर्वाणीं - भज रे
चरणं - श्रीमद्वाग्भवकूटचतुर्वेदस्वरूपिणीं
शृङ्गारकामराजोद्भवसकलविश्वव्यापिनीं
देवीं शक्तिबीजोद्भवमातृकार्णशरीरिणीं
देवनुतभवरोगहरवैद्यपतिहृदयविहारिणीं
भावरागतालमोदिनीं भक्ताभीष्टप्रदायिनीं
सेवकजनपालन गुरुगुहरूपमुत्तुकुमारजननीं - भज रे
इति श्रीमुत्तुस्वामिदीक्षितकृतम् बालागीतं सम्पूर्णम् ।
Proofread by PSA Easwaran