श्रीबालाहृदयम् १
श्रीपार्वयुत्युवाच-
महादेव नमस्तुभ्यं विरूपाक्षाय ते नमः ।
बालाया हृदयं मन्त्रं गोप्याद्गोप्यतरं तथा ॥ १॥
यस्य श्रवणमात्रेण मन्त्रसिद्धिमवाप्नुयात् ।
बालाया हृदयं मन्त्रं ब्रह्मादीनां च दुर्लभम् ॥ २॥
सकृच्छ्रवणमात्रेण वाञ्छितं फलमाप्नुयात् ।
सञ्चारवान् भवेत्पङ्गुः मूको वाग्मी तु यो भवेत् ॥ ३॥
अस्य श्रीबालात्रिपुरसुन्दरी हृदयमहामन्त्रस्य दक्षिणामूर्तिःऋषिः ।
पङ्क्तिश्छन्दः । श्रीबालात्रिपुरसुन्दरी देवता ।
ऐं बीजम् । सौः शक्तिः । क्लीं कीलकम् ।
श्रीबालात्रिपुरसुन्दरीप्रसादसिद्ध्यर्थे
श्रीबालात्रिपुरसुन्दरी हृदय महामन्त्र जपे विनियोगः ।
मूलेन द्विरावृत्त्या
कर हृदयन्यासः ।
ध्यानम् -
अरुणकिरणजालैरञ्जिता सावकाशा,
विधृतजपवटीकापुस्तकाभीतिहस्ता ।
इतरकरवराढया फुल्लकल्हारसंस्था
निवसतु ह्यदी बाला नित्यकल्याणशीला ॥
लमित्यादि पञ्चपूजा
मनुः -आं ह्रीं क्रों ऐं क्लीं सौः ह्रीं श्रीं बालापरमेश्वरि आवेशय
आवेशय आं ह्सौं मम हृदये चिरं तिष्ठ तिष्ठ हुं फट् स्वाहा ।
इति जपेत् ।
बालाया हृदयेनैव त्रिकालं सप्तमन्त्रितम् ।
पयः पिबति या वन्ध्या सा च पुत्रवती भवेत् ॥
नित्यमष्टोत्तरशतं बालाया हृदयं जपन् ।
चिन्तितं च लभेद्देवि ! नात्र कार्या विचारणा ॥
इति श्रीबालाहृदयं सम्पूर्णम् ।
Proofread by PSA Easwaran