श्रीबालाहृदयम् ३
अस्य श्रीबालात्रिपुरसुन्दरीमालामन्त्रस्य । दक्षिणामूर्तिः ऋषिः ।
पङ्क्तिश्छन्दः । बालात्रिपुरसुन्दरी देवता ।
ऐं बीजं क्लीं शक्तिः सौः कीलकम् । बालाप्रीत्यर्थे विनियोगः ।
मूलेन कराङ्गन्यासौ ।
ध्यानम् -
आरक्तां शशिखण्डमण्डितजटाजूटानुबद्धस्रजं
बन्धूकप्रसवारुणां बरधरां रक्ताम्बुजाध्यासिनीम् ।
त्वां ध्यायामि चतुर्भुजां त्रिणयनामापीनरम्यस्तनीं
मध्ये निम्नवलित्रयाङ्किततनुं त्वद्रूपसम्पत्तये ॥
लमित्यादि पञ्च पूजा ।
आं ह्रीं क्रों ऐं क्लीं सौः श्रीं ह्रीं बाले परमेश्वरि आवेशय आवेशय,
आं ह्रीं क्रों हृदये चिरं तिष्ठ तिष्ठ, हुं फट् स्वाहा ।
हृन्मन्त्रं जपतोऽनेन वाञ्छितं फलति ध्रुवम् ।
बालाया हृदयं ह्येतत्सर्वपापौघनाशनम् ॥
सर्वपीडापहरणं सर्वसिद्धिप्रदायकम् ॥
इति श्रीबालाहृदयं (३) सम्पूर्णम् ।
Proofread by PSA Easwaran