श्रीबालाकवचम् ३

श्रीबालाकवचम् ३

अस्य श्रीबालात्रिपुरसुन्दरीकवचस्तोत्रमहामन्त्रस्य दक्षिणामूर्तिः ऋषिः । पङ्क्तिश्छन्दः । बालात्रिपुरसुन्दरी देवता । ऐं बीजम् । क्लीं शक्तिः सौः कीलकम् । जपे विनियोगः । मूलेन कराङ्ग न्यासौ । दिग्बन्धः ध्यानं - ऐङ्कारासन इत्यादि सञ्चारिणीम् ॥ लमित्यादि । मन्दिरे सुखमासीनं भैरवं चन्द्रशेखरम् । बद्धाञ्जलिर्नमस्कृत्य परिपप्रच्छ पार्वती ॥ १॥ यदि प्रसन्नो देवेश यदिवाऽनुग्रहो मयि । बालायाः कवचं ब्रूहि सदा कल्याणसौख्यदम् ॥ २॥ शिव उवाच - साधु साधु महेशानि सम्यक्सम्यक्च पृच्छसि । यत्प्रसादान्महेशानि लसत्त्रैलोक्यमुत्तमम् ॥ ३॥ ततश्चराचरं विश्वं यतो ब्रह्मादयोऽमराः । यद्भ्रूविलासवत्प्रीत्या सिद्धयस्त्वणिमादयः ॥ ४॥ तद्बालापरमेश्वर्याः कवचं सर्वसिद्धिदम् ॥ कथयिष्ये श‍ृणुष्व त्वं सर्वसौभाग्यकारकम् ॥ ५॥ शिरो रक्षतु मे बाला ललाटे पातु सुन्दरी । कर्णौ श्रीः सर्वदा पातु नेत्रे कमलवासिनी ॥ ६॥ ओष्ठमध्ये विशालाक्षी जिह्वां पातु सरस्वती । मुखं मनोरमा पातु चिबुकं मे त्वचञ्चला ॥ ७॥ कण्ठं श्रीकालिका पातु बाहू रक्षतु चण्डिका । करौ षडक्षरी पातु हृदयं हरिवल्लभा ॥ ८॥ मातङ्गी पातु मे मध्यं भवानी जठरं मम । नाभिं श्रीभैरवी पातु गुह्यं कामेश्वरी तथा ॥ ९॥ कटिं पायात्कामधात्री जानुनी जगदीश्वरी । जङ्घे मे त्वरिता पातु जङ्घपाश्वेऽश्ववाहिनी ॥ १०॥ पर्वतस्था पातु पादौ अङ्गुली भूमिवासिनी । अग्रतस्त्रिपुरा पातु पृष्ठतो मम भैरवी ॥ ११॥ दक्षिणे सुन्दरी पातु वामे मङ्गलदायिनी । ऊर्ध्वं ज्योतिष्मती शक्तिः अधोऽनन्तस्वरूपिणी ॥ १२॥ सर्वशत्रुहरा दुर्गा पातु मे विजया रणे । गृहं रक्षेद्भद्रकाली वाचं वाग्वादिनी मम ॥ १३॥ ओष्ठौ मे मातृकाः सर्वाः सर्वकार्येषु सर्वदा । इत्येतत्कवचं प्रोक्तं यः पठेत्सुसमाहितः ॥ १४॥ दिवा वा यदि वा रात्रौ त्रिसन्ध्यं भक्तिमान्नरः । ज्ञात्वैतत्कवचं पुण्यं सर्वान्कामानवाप्नुयात् ॥ १५॥ इति श्रीबालाकवचं (३) सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : Shri Bala Kavacham  3
% File name             : bAlAkavacham3.itx
% itxtitle              : bAlAkavacham 3 (mandire sukhamAsInaM)
% engtitle              : bAlAkavacham 3
% Category              : devii, dashamahAvidyA, devI, kavacha
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : bAlAsaparyA saparyAkrama-nAmAvalI-stotrAdisaNgrahaH
% Indexextra            : (Scan)
% Latest update         : March 21, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org