श्रीबालामहामालामन्त्रस्तवः

श्रीबालामहामालामन्त्रस्तवः

अस्य श्रीबालात्रिपुरसुन्दरीमहामालामन्त्रस्य दक्षिणामूर्तिः ऋषिः । पङ्क्तिश्छन्दः । श्रीबालात्रिपुरसुन्दरी देवता । ऐं बीजम् । सौः शक्तिः । क्लीं कीलकम् । श्रीबालात्रिपुरसुन्दरीप्रीत्यर्थे महामालामन्त्रपारायणे विनियोगः । मूलविद्याद्विरावृत्त्या कर हृदयन्यासः - ध्यानम्- रक्ताम्बरां चन्द्रकलावतंसां समुद्यदादित्यनिभां त्रिनेत्राम् । विद्याक्षमालाभयदानहस्तां ध्यायामि बालामरुणाम्बुजस्थाम् ॥ १॥ विद्याक्षमालासुकपालमुद्राराजत्करां कुन्दसमानकान्तिम् । मुक्ताफलालङ्कृतशोभिताङ्गीं बालां भजे वाङ्मयसिद्धिहेतोः ॥ २॥ भजे कल्पवृक्षाध उद्दीप्तरत्नासने सन्निषण्णां मदाधूर्णिताक्षीम् । करैर्बीजपूरं कपालेषु चापं सपाशाङ्कुशं रक्तवर्णं दधानाम् ॥ ३॥ व्याख्यानमुद्रामृतकुम्भविद्यामक्षस्रजं सन्दधती कराग्रैः । चिद्रूपिणीं शारद चन्द्रकान्तिं बालां भजे मौक्तिकभूषिताङ्गीम् ॥ लमित्यादि पञ्चपूजां कुर्यात् वं वं वषट् वौषट् श्रौषट् आं ह्रीं क्रों ऐं क्लीं सौः आं ऐं ह्रीं क्लीं सौः । आं ह्रीं क्रों ऐं क्लीं सौः श्रीं ह्सौः नमो भगवति बाला परमेश्वरि । ऐं ह्रीं श्रीं ह्सौः शौः सहक्षमलवरय ईं हसक्षमलवरय ऊं श्रीगुरु परमगुरु परमेष्ठिगुरु परापरगुरुस्वरूपे । ऐं क्लीं सौः सकलजगदुत्पत्ति मातृके । अकारादि क्षकारान्त मातृकावर्णस्वरूपिणि । इच्छा ज्ञान क्रिया शक्त्यात्मिके । ऐं क्लीं सौः बीजत्रयात्मिके । बिन्दुत्रयात्मिके । त्रिकूटात्मके । त्रिगुणात्मके । त्रिखण्डात्मके । त्रिचक्रात्मके । त्रिकोणात्मके । त्र्यक्षरे । त्रिपुरे । ऐं क्लीं सौः पञ्चभूतात्मके । त्रिशक्त्यात्मके । पञ्चकृत्यपरायणे । सृष्टिस्थितिसंहारतिरोधानानुग्रहकारिके । पञ्चप्रेतमञ्चाधिशायिनि । ऐं क्लीं सौः अतलवितलसुतल- तलातलरसातलमहातलपाताल-भूर्लोकभुवर्लोकसुवर्लोक- महोलोकजनोलोकतपोलोकसत्यलोकभुवनैकवीरमात्रे । समुद्यदादित्यसहस्राभे । सोमसूर्याग्निलोचनत्रयराजिते । चन्द्रकलावतंसे । रक्ताम्बरधारिणि । पुस्तकाक्षमालावराभयकरविभूषिते । कनकवज्रवैडूर्यमुक्तालङ्कारभूषिते । ऐं ऐं सौः क्लीं क्लीं ऐं सौः सौः क्लीं नवाक्षरात्मके । नवकोणपुरावासे । नववर्षवयोविशिष्टाङ्गि । बालात्रिपुरे । ब्राह्म्याद्यष्टमातृकापरिसेविते । अणिमाद्यष्टैश्वर्यप्रदे । बालाम्बिके । एह्येहि आगच्छागच्छ । मम शरीरे प्रवेशय प्रवेशय । मम सकलकार्याणि साधय साधय । दुर्गतिं मोचय मोचय । श्रियं प्रापय । प्रापय । आं ऐं ह्रीं क्लीं क्रों सौः आं ह्रीं क्रों ऐं क्लीं सौः । ऐं ऐं नमो बलावागीश्वरि । ऐं ऐं कर्पूरधवलाकारप्रभे । ऐं ऐं व्रजमौक्तिकमुक्तालङ्कारभूषिते । ऐं ऐं मुक्ताक्षमालापुस्तकवराभयकर विभूषिते । ऐं ऐं शुभ्राम्बरधारिणि । ओं ह्रीं ह्स्रैं ह्रीं ओं ऐं धीं क्लीं सौः महासरस्वत्यात्मके । ऐं ऐं महासारस्वतप्रदे । ऐं ऐं वेदवेदाङ्गन्यायमीमांसापुराणधर्मशास्त्रात्मके । मम निखिलभाषासु अनवद्यगद्यपद्यरचनाचातुर्यं दापय दापय । विविधतर्कविगाहितसमस्तशास्त्रसागरगरीयःप्रतिभां प्रापय प्रापय । ऐं ऐं वद वद वाग्वादिनि । ऐं ऐं गङ्गातरङ्गकल्लोलवाक्पटुत्वप्रदे मम सकलभाषासु मृदुमधुररसभावभासुरवाग्जालं देहि देहि । आं ऐं ह्रीं क्लीं क्रों सौः आं ह्रीं क्रों ऐं क्लीं सौः । क्लीं क्लीं नमो भगवति बाला कामेश्वरि । इच्छाकामफलप्रदे । क्लीं क्लीं रक्तगन्धानुलेपने । क्लीं क्लीं बन्धूककुसुमाकारकान्तिभूषण भूषिते । क्लीं क्लीं रक्तालङ्कारभूषिते । क्लीं क्लीं रक्तमाल्याम्बरधारिणि । क्लीं क्लीं इक्षुकोदण्डपुष्पेषुपाशाङ्कुशकरभूषिते । क्लीं क्लीं सर्वसत्त्ववशङ्करि । क्लीं क्लीं सर्वलोकाकर्षिणि । क्लीं क्लीं सकलकामप्रपूरणि । क्लीं क्लीं असाध्यसाधिनि । मम दृष्टादृष्टानां सर्वेषां स्त्रीपुरुषाणां जनानां गतिमति- हृदयचित्तादिकमाकर्षयाकर्षय । वशमानय वशमानय । सम्मोहय सम्मोहय । आं ऐं ह्रीं क्लीं क्रों सौः । आं ह्रीं क्रों ऐं क्लीं सौः । सौः सौः नमो बाला सौभाग्येश्वरि । सौः सौः हेमप्रभाभासमाने । सौः सौः विद्युन्निकरनमत्प्रभे । सौः सौः स्फुरचन्द्रकलापूर्णे । कलशवरदाभयज्ञानमुद्राकरविभूषिते । सौः सौः स्रवत्पीयूषधाराभिवर्षिणि । महासौन्दर्य सुभगे । सौः सौः महामृत्युविनाशिनि । सौः सौः सर्वशत्रुसंक्षोभिणि । मम शत्रुभिः कृत-क्रियमाण-करिष्यमाण निखिलमन्त्रयन्त्रतन्त्रप्रयोगान् उच्चाटय उच्चाटय । विविध प्रयोगान् नाशय नाशय । सौः सौः सर्वशत्रुभयङ्करि । मम शत्रूणां वाक्चित्तचक्षुर्जिह्वागलचेष्टादिकान् स्तम्भय स्तम्भय । आं ऐं ह्रीं क्लीं क्रों सौः आं ह्रीं क्रों ऐं क्लीं सौः नमो बाला त्रिपुरसुन्दरि । ऐं क्लीं सौः सर्वोपद्रवनाशिनि । राजचोरसर्पसिंहवृश्चिकव्याघ्राग्निजलविषादिकोत्पन्नान् सर्वोपद्रवान् नाशय नाशय । ऐं क्लीं सौः सर्वव्याधिविनाशिनि । सर्वरोगान्नाशय नाशय । आरोग्यं दापय दापय । ऐं क्लीं सौः महासाम्राज्यदायिनि । ऐं क्लीं सौः सर्वसम्पत्प्रपूरणि । सर्वसौभाग्यप्रदे । महासम्पत्प्रदे मम सकलैश्वर्यं दापय दापय । ऐं क्लीं सौः जये विजये जिते अपराजिते सकललोकजयप्रदे मम सर्वत्र सर्वदा यशोविजयादिकं देहि देहि । सकुटुम्बं सपरिवारं मां रक्ष रक्ष आं ऐं ह्रीं क्लीं क्रों सौः आं ह्रीं क्रों ऐं क्लीं सौः सकलजगन्नुतायै श्रीबालात्रिपुरसुन्दर्यै ह्रीं हुं फट् स्वाहा । अनेन मया कृतेन श्रीबालात्रिपुरसुन्दरीमहामालामन्त्रजपेन भगवती सर्वात्मिका श्रीबालात्रिपुरसुन्दरी सुप्रीता सुप्रसन्ना वरदा भवतु ! श्रीबालात्रिपुरसुन्दरीचरणसमर्पितोऽस्तु ! इति श्रीबालामहामालामन्त्रस्तवः सम्पूर्णः । Proofread by PSA Easwaran
% Text title            : Shri Bala Mahamalamantra Stava
% File name             : bAlAmahAmAlAmantrastavaH.itx
% itxtitle              : bAlAmahAmAlAmantrastavaH
% engtitle              : bAlAmahAmAlAmantrastavaH
% Category              : devii, dashamahAvidyA, devI, mAlAmantra, mantra
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : bAlAsaparyA saparyAkrama-nAmAvalI-stotrAdisaNgrahaH print page 269
% Indexextra            : (Scan)
% Latest update         : August 13, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org