श्रीबाला नित्यपूजाविधानम्

श्रीबाला नित्यपूजाविधानम्

शुक्लाम्बरधरं ..... इत्यादि ..... शान्तये । (प्राणायम्य) ममोपात्तदुरतिक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं शुभे शोभने श्रीबालात्रिपुरसुन्दरीप्रीत्यर्थं यथाशक्तिध्यानावाहनादिषोडशोपचारपूजां करिष्ये । तदङ्गं कलशपूजां करिष्ये । कलशस्य मुखे विष्णुः कण्ठे रुद्रस्समाश्रितः । मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणास्स्मृताः ॥ कुक्षौ तु सागरास्सर्वे सप्तद्वीपा वसुन्धरा । ऋग्वेदोऽथ यजुर्वेदस्सामवेदो ह्यथर्वणः ॥ अङ्गैश्च सहिताः सर्वे कलशाम्बु समाश्रिताः । आयान्तु बालापूजार्थं दुरितक्षयकारकाः ॥ गङ्गे च यमुने चैव गोदावरी सरस्वति । नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥ कलशोदकेन देवीं आत्मानं पूजाद्रव्याणि संप्रोक्ष्य - अथ ध्यानम्- ऐङ्कारासनगर्भितानलशिखां सौःक्लीं कला बिभ्रतीं सौवर्णाम्बरधारिणीं वरसुधाधौताङ्गरङ्गोज्ज्वलाम् । वन्दे पुस्तकपाशसाङ्कुशजपस्रग्भासुरोद्यत्करां तां बालां त्रिपुरां परात्परकलां षट्चक्रसञ्चारिणीम् ॥ श्रीबालात्रिपुरसुन्दर्यै नमः ध्यायामि श्रीबालात्रिपुरसुन्दरि अस्मिन् बिम्बे स्थिरा भाव । वरदा भव । सुमुखी भव । सुप्रसन्ना भव । सर्वमङ्गलमाङ्गल्ये ! भक्ताभीष्टप्रदायिनि ! । आवाहयामि देवि ! त्वां सुप्रीता भव सर्वदा ॥ श्रीबालात्रिपुरसुन्दरीं आवाहयामि । स्थापयामि । पूजयामि । बालाम्बिके ! महादेवि ! पूर्णचन्द्रनिभानने! । सिंहासनमिदं देवि ! गृहाण सुरवन्दिते ! । श्रीबालात्रिपुरसुन्दर्यै नमः । रत्नसिंहासनं समर्पयामि । सूर्यायुतनिभस्फूर्ते ! स्फुरद्रत्नविभूषिते । पाद्यं गृहाण देवेशि ! सर्वकल्याणकारिणि श्रीबालात्रिपुरसुन्दर्यै नमः । पादयोः पाद्यं समर्पयामि । सुवासितजलं रम्यं कस्तूरीपङ्कमिश्रितम् । गन्धपुष्पाक्षतैर्युक्तं अर्ध्यं दास्यामि सुन्दरि । श्रीबालात्रिपुरसुन्दर्यै नमः । मुखे आचमनीयं समर्पयामि । गङ्गाजलं मयानीतं महादेवशिरस्स्थितम् । शुद्धोदकस्नानमिदं गृहाण परमेश्वरि ! श्रीबालात्रिपुरसुन्दर्यै नमः शुद्धोदकस्नानं समर्पयामि । मध्वाज्यदधिसंयुक्तं शर्कराक्षीरमिश्रितम् । पञ्चामृतस्नानमिदं गृहाण परमेश्वरि । श्रीबालात्रिपुरसुन्दर्यै नमः पञ्चामृतस्नानं समर्पयामि । सुरार्चिताङ्घ्रियुगले ! दुकूलवसनप्रिये ! वस्त्रयुग्मं प्रदास्यामि गृहाण त्रिपुरेश्वरि ! श्रीबालात्रिपुरसुन्दर्यै नमः वस्त्रद्वयं समर्पयामि । स्वर्णतन्तु समुद्भूतं रक्तवर्णेन शोभितम् । भक्त्या दत्तं मया देवि ! कञ्चुकं परिगृह्यताम् । श्रीबालात्रिपुरसुन्दर्यै नमः वस्त्रद्वयं समर्पयामि । कर्पूरागरुकस्तूरीरोचनादिसुसंयुतम् । अष्टगन्धं प्रदस्यामि स्वीकुरुष्व शुभप्रदे ! श्रीबालात्रिपुरसुन्दर्यै नमः गन्धं समर्पयामि । शुद्धस्वर्णकृतं देवि ! माङ्गल्यं मङ्गलप्रदम् । सर्वमङ्गलमाङ्गल्यं गृहाण त्रिपुरेश्वरि ! श्रीबालात्रिपुरसुन्दर्यै नमः मङ्गलसूत्रं समर्पयामि । हरिद्रा शुभदा चैव स्त्रीणां सौभाग्यदायिनी । कुङ्कुमं च मया दत्तं गृहाण सुरवन्दिते ! श्रीबालात्रिपुरसुन्दर्यै नमः हरिद्राकुङ्कुमं समर्पयामि । मल्लिकाजातिकुसुमैश्चम्पकैर्वकुलैरपि । शतपत्रैश्च कल्हारैः पूजयामि वरप्रदे ! श्रीबालात्रिपुरसुन्दर्यै नमः पुष्पाणि समर्पयामि । दशाङ्गं गुग्गुलोपेतं सुगन्धं च मनोहरम् । धूपं दास्यामि देवेशि ! गृहाण त्रिपुरेश्वरि ! श्रीबालात्रिपुरसुन्दर्यै नमः धूपं समर्पयामि । आचमनीयं समर्पयामि । घृतवर्तिसमायुक्तं अन्धकारविनाशकम् । दीपं दास्यामि वरदे ! गृहाण मुदिता भव ॥ श्रीबालात्रिपुरसुन्दर्यै नमः दीपं दर्शयामि । आचयनीयं समर्पयामि । नैवेद्यं षड्रसोपेतं दधिमध्वाज्यसंयुतम् । नानाभाक्ष्यफलोपेतं गृहाण त्रिपुरेश्वरि ! श्रीबालात्रिपुरसुन्दर्यै नमः नैवेद्यं समर्पयामि । पूगीफलसमायुक्तं नानावल्ली दुलैर्युतम् । एलालवङ्ग संयुक्तं ताम्बूलं प्रतिगृह्यताम् । श्रीबालात्रिपुरसुन्दर्यै नमः ताम्बूलं समर्पयामि ॥ नीराजनं मयाऽऽनीतं कर्पूरेण समन्वितम् । तुभ्यं दास्याम्यहं देवि ! गृह्यतां त्रिपुरेश्वरि ! श्रीबालात्रिपुरसुन्दर्यै नमः कर्पूरनीराजनं समर्पयामि । आचमनीयं समर्पयामि । वाग्देवि ! वरदे ! देवि ! चन्द्ररेखासमन्विते ! मन्त्रपुष्पमिदं भक्त्या स्वीकुरुष्व मयार्पितम् ॥ श्रीबालात्रिपुरसुन्दर्यै नमः मन्त्रपुष्पं समर्पयामि । यानि कानि च पापानि जन्मान्तरकृतानि च । तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ॥ अन्यथा शरणं नास्ति त्वमेव शरणं मम । तस्मात्कारुण्य भावेन रक्ष रक्ष दयामयि ! श्रीबालात्रिपुरसुन्दर्यै नमः । प्रदक्षिणनमस्कारान् समर्पयामि । श्रीबालात्रिपुरसुन्दर्यै नमः । छत्रं समर्पयामि । श्रीबालात्रिपुरसुन्दर्यै नमः । चामरं वीजयामि । श्रीबालात्रिपुरसुन्दर्यै नमः । दर्पणं समर्पयामि । श्रीबालात्रिपुरसुन्दर्यै नमः । आन्दोलिकादि समस्त राजोपचारान् समर्पयामि । अनया पूजया भगवती सर्वात्मिका श्रीबालात्रिपुरसुन्दरी सुप्रीता सुप्रसन्ना वरदा भवतु । इति श्रीबाला नित्यपूजाविधानं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : Shri Bala Nitya Puja Vidhanam
% File name             : bAlAnityapUjAvidhAnam.itx
% itxtitle              : bAlAnityapUjAvidhAnam
% engtitle              : bAlAnityapUjAvidhAnam
% Category              : devii, dashamahAvidyA, devI, pUjA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description/comments  : bAlAsaparyA saparyAkrama-nAmAvalI-stotrAdisaNgrahaH
% Indexextra            : (Scan)
% Latest update         : March 21, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org