श्रीबालापञ्चाङ्गम्

श्रीबालापञ्चाङ्गम्

श्रीभैरव उवाच- अधुना देवि वक्ष्यामि रहस्यं स्तोत्ररूपकम् । येन साधक ईशानि साक्षात् श्रीभैरवायते ॥ १॥ अङ्गं त्रिपुरसुन्दर्याः पञ्चमाख्यां महेश्वरि । पञ्चमीरूपमानन्दरूपमानन्दवर्धनम् ॥ २॥ तत्त्वं श्रीत्रिपुरादेव्याः श्यामायाश्च रहस्यकम् । स्तोत्रराजः परादेव्याः परमानन्दकारणम् ॥ ३॥ स्तोत्रस्यास्य महादेवि ऋषिः प्रोक्तः सदाशिवः । पङ्क्तिश्छन्दः समाख्यातं देवता त्रिपुरा स्मृता ॥ ४॥ धर्मार्थकाममोक्षार्थे विनियोगः प्रकीर्तितः । ध्यानम्- सूर्यकोटिसमानाभां चतुर्बाहुं त्रिलोचनाम् । रक्तपद्मसमासीनां रक्तवस्त्राद्यलङ्कृताम् ॥ पुस्तकं चाक्षमालां च वरं चाभयमेवच । दधतीं च हृदम्भोजे श्रीबालात्रिपुरां भजे ॥ वाग्भवं भवमहार्णवप्रोक्तं यो जपेन्मनसि मानवतीनाम् । कामेकेलिषु भवेत्स साधकः कामदेव इव वैरिबाधकः ॥ १॥ मदनं मदनाक्षरं जपेद्यो वदनाच्छादनबद्धमौनमुद्रः । स भावेद्भवसागरैकपोतो भवरूपो भुवनत्रयेश्वरः स्यात् ॥ २॥ शक्तिबीजमनघं सुधाकरं साधको यदि जपेत् हृदि भक्त्या । तस्य देववनिता चरणाब्जौ रञ्जयन्ति मुकुटैर्मणियुक्तैः ॥ ३॥ बिन्दुत्रिकोणवसुनागदलाढ्य वेद गेहान्विते परमयन्त्रवरे निषण्णाम् । ध्यायन्ति ये परिकरेण समन्वितां त्वां संप्राप्नुवन्ति तव देवि परं पदं तत् ॥ ४॥ इतीदं परमं गुह्यमङ्गभूतं हि पञ्चमम् । देवि त्रिपुरसुन्दर्याः श्रीबालायाः स्तवोत्तमम् ॥ ५॥ रहस्यमेतदखिलं न कस्य कथितं मया । तव भक्त्या मया ख्यातं न प्रकाश्यं महेश्वरि ॥ ६॥ इदं पञ्चाङ्गमनिशं बालायाः सारमुत्तमम् । गोप्यं गुह्यतरं गुह्यं गोपनीयं प्रयत्नतः ॥ ७॥ इति श्रीरुद्रयामले श्रीबालापञ्चाङ्गं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : Shri Bala Panchangam
% File name             : bAlApanchAngam.itx
% itxtitle              : bAlApanchANgam (rudrayAmalAntargatam)
% engtitle              : bAlApanchAngam
% Category              : devii, dashamahAvidyA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description/comments  : bAlAsaparyA saparyAkrama-nAmAvalI-stotrAdisaNgrahaH, Rudrayamala
% Indexextra            : (Scan)
% Latest update         : March 21, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org