बालासपर्यापूजा

बालासपर्यापूजा

॥ श्रीः ॥ श्रीगुरुभ्यो नमः । श्रीगुरुवन्दनम् - गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुः साक्षात्परं ब्रह्म तस्मै श्रीगुरवे नमः ॥ १॥ ध्यानमूलं गुरोर्मूर्तिः पूजामूलं गुरोः पदम् । मन्त्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा ॥ २॥ नित्यानन्दं परमसुखदं केवलं ज्ञानमूर्तिं भावातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् । एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं विश्वातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥ ३॥ अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ ४॥ चैतन्यं शाश्वतं शान्तं व्योमातीतं निरञ्जनम् । नादबिन्दुकलातीतं तस्मै श्रीगुरवे नमः ॥ ५॥ अखण्डमण्डलाकारं व्याप्तं येन चराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ६॥ स्थावरं जङ्गमं व्याप्तं यत्किञ्चित्सचराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ७॥ चिन्मयं व्यापितं सर्वं त्रैलोक्यं सचराचरम् । असित्वं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ८॥ सच्चिदानन्दरूपाय व्यापिने परमात्मने । नमः श्रीगुरुनाथाय प्रकाशानन्दमूर्तये ॥ ९॥ ज्ञानशक्तिं समारुह्य तत्त्वमालाविभूषिणे । भुक्तिमुक्तिप्रदात्रे च तस्मै श्रीगुरवे नमः ॥ १०॥ अनेकजन्मसंप्राप्तकर्मधर्मविदाहिने । ज्ञानानल्पप्रभावेन तस्मै श्रीगुरवे नमः ॥ ११॥ मन्नाथः श्रीजगन्नाथो मद्गुरुः श्रीजगद्गुरुः । स्वात्मैव सर्वभूतात्मा तस्मै श्रीगुरवे नमः ॥ १२॥ गुरुः शिवो गुरुर्देवो गुरुर्बन्धुः शरीरिणाम् । गुरुरात्मा गुरुर्जीवो गुरोरन्यन्न विद्यते ॥ १३॥ ब्रह्मानन्दं परमसुखदं योगिनामप्यगम्यं द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् । एकं नित्यं विमलमचलं सर्वधीसाक्षीभूतं विश्वातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥ १४॥ श्रुतिस्मृतिपुराणानामालयं करुणालयम् । नमामि भगवत्पादशङ्करं लोकशङ्करम् ॥ १५॥ गुरुर्धाम्ना महिम्ना च शङ्करो यो विराजते । तत्पदाम्भोरुहरजःकणायास्तु नमो मम ॥ १६॥ गुरवे सर्वलोकानां भिषजे भवरोगिणाम् । निधये सर्वविद्यानां दक्षिणामूर्तये नमः ॥ १७॥ वन्दे गुरुपदद्वन्द्वं अवाङ्मनसगोचरम् । रक्तशुक्लप्रभामिश्रं अतर्क्यं त्रैपुरं महः ॥ १८॥ इति श्रीगुरुवन्दनं सम्पूर्णम् । श्रीबालादिव्यमङ्गलाध्यानम् - अनेककोटिब्रह्माण्डकोटीनां बहिरूर्ध्वतः । सहस्रकोटिविस्तीर्णसुधासिन्धोस्तु मध्यमे ॥ १॥ रत्नद्वीपे जगद्दीपे शतकोटिप्रविस्तरे । त्रिलक्षयोजनायाममहापद्मवनावृते ॥ २॥ सहस्रयोजनायामचिन्तामणिगृहान्तरे । पञ्चब्रह्मात्मके मञ्चे सर्वतत्त्वमये शुभे ॥ ३॥ कोटिकन्दर्पलावण्यशिववामाङ्कवासिनीम् । पाशाङ्कुशेक्षुकोदण्डपञ्चबाणलसत्कराम् ॥ ४॥ षड्वक्त्रगजवक्त्राभ्यां पार्श्वयोरूपशोभिताम् । कल्याणगुणसम्पन्नां नतकल्याणदायिनीम् ॥ ५॥ इच्छाज्ञानक्रियारूपां इच्छाकलितविग्रहाम् । राजराजेश्वराङ्कस्थां राजराजेश्वरेश्वरीम् ॥ ६॥ भजे तदङ्कमध्यस्थां तरुणारुणसन्निभाम् । अक्षस्रक्पुस्तकाभीतिवरदानलसत्कराम् ॥ ७॥ फुल्लकल्हारमध्यस्थां मन्दस्मितमुखीं शिवाम् । कौसुम्भाम्बरसञ्छन्नपूगस्तनमनोहराम् ॥ ८॥ काश्मीरकर्दमालिप्ततनुच्छायाविराजिताम् । देवीसमानाकृतिकां दिव्याभरणभूषिताम् ॥ ९॥ बिन्दुत्रिकोणषट्कोणवृत्ताष्टदलयुग्मके । यन्त्रे ध्यायामि तां बालां नित्यकल्याणरूपिणीम् ॥ १०॥ इति श्रीबालादिव्यमङ्गलाध्यानं सम्पूर्णम् । रश्मिमालाध्यानम् । असङ्ख्यातमहःपुञ्जपिञ्जरीकृतविग्रहाम् । रश्मिमालामहं वन्दे बालात्रिपुरसुन्दरीम् ॥ ॐ भूर्भुवस्सुवः । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् । (मूलाधारे) ॐ स्वस्तिदा विशस्पतिर्वृत्रहा विमृधो वशी । वृषेन्द्रः पुर एतु नः स्वस्तिदा अभयङ्करः ॥ (हृदये) ॐ घृणिः सूर्य आदित्य ॐ । (फाले) ॐ (ब्रह्मरन्ध्रे) परोरजसे सावदोम् । (द्वादशान्ते) ॐ सूर्याक्षितेजसे नमः । खेचराय नमः । असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्माऽमृतं गमय । उष्णो भगवान् शुचिरूपः । हंसो भगवान् शुचिरप्रतिरूपः । विश्वरूपं घृणिनं जातवेदसं हिरण्मयं ज्योतिरेकं तपन्तम् । सहस्ररश्मिः शतधाऽऽवर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥ ॐ नमो भगवते सूर्यायाहोवाहिनि वाहिन्यहोवाहिनि वाहिनि स्वाहा । वयः सुपर्णा उपसेदुरिन्द्रं प्रियमेधा ऋषयो नाथमानाः । अपध्वान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान् ॥ पुण्डरीकाक्षाय नमः । पुष्करेक्षणाय नमः । अमलेक्षणाय नमः । कमलेक्षणाय नमः । विश्वरूपाय नमः । श्रीमहाविष्णवे नमः । (मूलाधारे) ॐ नमो रुद्राय पथिषदे स्वस्ति मा सम्पारय । (फाले) ॐ तारे तुत्तारे तुरे स्वाहा । (ब्रह्मरन्ध्रे) ॐ अच्युताय नमः । अनन्ताय नमः । गोविन्दाय नमः । (द्वादशान्ते) ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । (मूलाधारे) ॐ ह्रीं नमः शिवायै । ॐ ह्रीं नमः शिवाय । (हृदये) ॐ जुं सः मां पालय पालय । (फाले) ॐ नमो ब्रह्मणे धारणं मे अस्त्वनिराकरणं धारयिता भूयासं कर्णयोः श्रुतं मा च्योढ्वं ममामुष्य ॐ । ब्रह्मरन्ध्रे) ॐ अं आं इं ईं उं ऊं ऋं ॠं लृं लॄं एं ऐं ॐ औं अं अः कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं णं तं थं दं धं नं पं फं बं भं मं यं रं लं वंशं षं सं हं लं क्षं (द्वादशान्ते) ॐ ऐं क्लीं सौः (मूलधारे) ॐ ॐ उच्छिष्टचाण्डालि मातङ्गि क्लीं (सर्ववशङ्करि) स्वाहा ।(हृदि) ॐ ऐं क्लीं सौः ह्स्ख्फ्रें हसक्षमलवरयूं सहक्षमलवरयीं शौः श्रीगुरवे नमः । (भ्रूमध्ये) ॐ ऐं ह्रीं श्रीं । ऐं क्लीं सौः । ॐ नमो भगवति राजमातङ्गीश्वरि सर्वजनमनोहरि सर्वमुखरञ्जनि क्लीं ह्रीं श्रीं सर्वराजवशङ्करि सर्वस्त्रीपुरुषवशङ्करि सर्वदुष्टमृगवशङ्करि सर्वसत्त्ववशङ्करि सर्वलोकवशङ्करि त्रैलोक्यं मे वशमानय स्वाहा । सौः क्लीं ऐं । श्रीं ह्रीं ऐम् । (हृदि) ॐ ऐं ह्रीं श्रीं । ऐं ग्लौं ऐं । ॐ नमो भगवति वार्तालि वार्तालि वाराहि वाराहि वराहमुखि वराहमुखि । अन्धे अन्धिनि नमः । रुन्धे रुन्धिनि नमः । जम्भे जम्भिनि नमः । मोहे मोहिनि नमः । स्तम्भे स्तम्भिनि नमः । सर्वदुष्टप्रदुष्टानां सर्वेषां कुरु कुरु शीघ्रं वश्यं ऐं ग्लौं ऐं । ठः ठः ठः ठः हुं फट् स्वाहा ।(आज्ञायां) ॐ क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं श्रीं (नादान्ते) ॐ ऐं क्लीं सौः सौः क्लीं ऐं (ब्रह्मरन्ध्रे) ॐ ह्रीं श्रीं ऐं क्लीं सौः ह्रीं । ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं ग्लौं हंसः शिवः सोऽहम् । ह्स्ख्फ्रें हसक्षमलवरयूं सहक्षमलवरयीं ह्सौः शौः हंसः शिवः सोऽहं श्रीगुरवे नमः (द्वादशान्ते) ---- अजपामननं हंसहंसाय विद्महे परमहंसाय धीमहि । तन्नो हंसः प्रचोदयात् । (३) हंसो गणेशो विधिरेष हंसो हंसो हरिः शम्भुमयोऽपि हंसः । जीवोऽपु हंसो गुरुरेव हंसश्चात्मापि हंसः परमात्महंसः ॥ हंसः सोऽहम् (२१) ---- नित्याह्निकं कृतशौचक्रियः । दन्तशोधनं कृत्वा । ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टनि ते रवे । तेन सत्येन मे देव तीर्थं देहि दिवाकर ॥ इति सूर्यमभ्यर्थ्य स्नानीये तीर्थे गङ्गादिनदीरावाह्य वं इति अमृतबीजेन सप्तवारं अभिमन्त्र्य । मूलेन मूर्धनि त्रीनुदकाञ्जलीन् दत्वा त्रिराचम्य स्नायात् । धौतवाससी परिधाय पुण्ड्रधारणं कुर्यात् ॥ ---- विभूतिधारणं (The vedic symbols have been changed as per the book.) मानस्तो॒के तन॑ये॒ मान॒ आयु॑षि॒ मानो॒ गोषु॒ मानो॒ अश्वे॑षु रीरिषः । वी॒रान्मा नो॑ रुद्र भामि॒तो व॑धीर् ह॒विष्म॑न्तो॒ नम॑सा विधेम ते ॥ इति जलेन मर्दयित्वा अनामिक्या त्र्यक्षरीं विलिख्य त्र्यक्षर्या अभिमन्त्र्य भ्रूमध्ये भस्मना तिलकं कुर्यात् । शिरसि - त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्धनम् । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ मामृता॑त् ॥ इति त्र्यम्बकेन त्र्यक्षर्या च । ललाटे - त्र्यायु॒षं ज॒मद॑ग्नेः क॒श्यपस्य॑ त्र्यायु॒'षं यद्दे॒वानां त्र्यायु॒षं तन्मे॑ अस्तु त्र्यायु॒षम् । इति कण्ठे -ऐं वद वद वाग्वादिनि ऐं क्लीं क्लिन्ने क्लेदिनि क्लेदय क्लेदय । क्षोभिणि क्षोभय । ऐं क्लीं सौः वैखरीं वर्धय वर्धय । इति हृदये -ओं नमो भगवति ज्वालामालिनि देवदेवि सर्वभूतसंहार - कारिके जातवेदसि ज्वलन्ति ज्वल ज्वल प्रज्वल प्रज्वल ह्रां ह्रीं ह्रूं र र र र र र र ज्वालामालिनि हुं फट् स्वाहा इति नाभौ -ओं ह्रीं वह्निवासिन्यै नमः इति बाह्ये सर्वाङ्गेषु । - उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् । नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥ इति च भस्म धारयेत् । वैदिकं सन्ध्यावन्दनं आचरेत् । प्रोक्षणादि -आदित्यादि तर्पणान्तं वन्दनमन्त्रजपं कुर्यात् । ---- वन्दनक्रमः शुक्लाम्बरधरं इत्यादि शान्तये । प्राणानायम्य । ममोपात्त इत्यादि प्रीत्यर्थं वन्दनमन्त्रजपं करिष्ये । (अप उपस्पृश्य) अस्य श्रीवन्दनमहामन्त्रस्य सान्दीपनिः ऋषिः । अनुष्टुप् छन्दः । श्रीसन्ध्यास्वरूपिणी बाला देवता । अं ऐं बीजम् । उं क्लीं शक्तिः । मं सौः कीलकम् । श्रीसन्ध्यास्वरूपिणीबालप्रीत्यर्थे जपे विनियोगः । अङ्गन्यासः - अं ऐं अङ्गुष्ठाभ्यां नमः । उं क्लीं तर्जनीभ्यां नमः । मं सौः मध्यमाभ्यां नमः । मं सौः अनामिकाभ्यां नमः । उं क्लीं कनिष्ठिकाभ्यां नमः । अं ऐं करतलकरपृष्ठाभ्यां नमः । हृदयादिन्यासः -अं ऐं हृदयाय नमः । उं क्लीं शिरसे स्वाहा । मं सौः शिखायै वषट् । मं सौः कवचाय हुम् । उं क्लीं नेत्रत्रयाय वौषट् । मं सौः कवचाय हुम् । उं क्लीं नेत्रत्रयाय वौषट् । अं ऐं अस्त्राय फट् । (करन्यासाङ्गन्यासौ - अं ऐं । उं क्लीं । मं सौः । अं ऐं । उं क्लीं । मं सौः इत्यपि कुर्वन्ति ।) भूर्भुवस्सुवरों (दिग्बन्धः) । ध्यानं- हृदयकुहरदेशे भाति सच्चित्स्वरूपं सकलभुवनबीजं कारणं ब्रह्मतत्त्वम् । प्रणवमयमचिन्त्यं प्राणिनां प्राणसंस्थं प्रकृतिविलयरूपं देवदेवं नमामि ॥ अं ऐं उं क्लीं सौः इति जयेत् (१०८-१०८) हृदयादिन्यासः । भूर्भुवस्सुवरों (दिग्विमोकः) । ध्यानं पूर्ववत् । पुनर्ध्यानं या सन्ध्या सा जगद्रूपा मायातीता सुनिश्चला । ईश्वरी केवला शक्तिः तत्त्वत्रयसमन्विता ॥ अहो महाब्रह्मरूपे दिव्ये सन्ध्ये सरस्वति । अजरे अमरे देवि ब्रह्मयोने नमोऽस्तुते । लमित्यादि पञ्चपूजा - लं पृथिव्यात्मिकायै गन्धं समर्पयामि । हं आकाशात्मिकायै पुष्पाणि समर्पयामि । यं वाय्वात्मिकायै धूपमाघ्रापयामि । रं अग्न्यात्मिकायै दीपं दर्शयामि । वं अमृतात्मिकायै अमृतोपहारं निवेदयामि । ज्योतिर्मण्डल -नाराच - लिङ्ग -पद्म -योनि -धेनु -चिन्मुद्राभिः योनिमुद्रया वा सन्ध्यां प्रणमेत् ॥ ततो गायत्रीजपः । उपस्थानमित्यादि कुर्यात् । ---- महद्वन्दनं आब्रह्मलोकादाशेषादालोकालोकपर्वतात् । ये वसन्ति द्विजा देवास्तेभ्यो नित्यं नमो नमः ॥ ॐ नमो ब्रह्मादिभ्यो ब्रह्मविद्यासंप्रदायकर्तृभ्यो वंशर्षिभ्यो नमो गुरुभ्यः । ब्रह्माद्यशेषगुरुपारम्पर्यक्रमेण स्वगुरुपादाम्बुजं यावत्प्रणमामि । गुं गुरुभ्यो नमः (दक्षबाहौ) । गं गणपतये नमः (वामबाहौ) । दुं दुर्गायै नमः । क्षं क्षेत्रपालकाय नमः । अं अभयङ्कराय नमः । वां वास्तुपुरुषाय नमः । यं योगिनीभ्यो नमः ह्रीं श्रीं फट् फं फां फीं भैरवेभ्यो नमः । सं सरस्वत्यै नमः । पं परमात्मने नमः । शिवाय गुरवे नमः । कुलदेवताभ्यो नमः । ग्रामनगरदेवताभ्यो नमः । पूजागृहद्वारदेवताभ्यो नमः । इति अञ्जलिं कुर्यात् । ---- देहरक्षा ॐ नमो भगवति तिरस्करिणि महामाये महानिद्रे सकलपशुजनमहश्चक्षुः -श्रोत्रतिरस्करणं कुरु कुरु स्वाहा । भूर्भुवस्सुवरोम् । ॐ ऐं ह्रः अस्त्राय फट् -(अङ्गुष्ठादि कनिष्ठिकान्तं करतलयोः कूर्परयोः देहे च व्यापकं कुर्यात्) पूजानुज्ञा श्रीगुरो दक्षिणामूर्ते भक्तानुग्रहकारक । अनुज्ञां देहि भगवन् श्रीबालायजनाय मे ॥ अतिक्रूर महाकाय कल्पान्तदहनोपम । भैरवाय नमस्तुभ्यं अनुज्ञां दातुमर्हसि ॥ सिन्दूरारुणगात्रं च शर्वमन्युविनिर्मितम् । मकुटाग्र्यधरं देवं भैरवं प्रणमाम्यहम् ॥ भूतोत्सारणं अपसर्पन्तु ये भूताः आकाशे भुवि संस्थिताः । पूजायां विघ्नकर्तारस्ते गच्छन्तु शिवाज्ञया ॥ (इति पुष्पं विकीर्य) अपक्रामत भूताद्याः सर्वे ये भूमिधारकाः । युष्माकमविरोधेन ब्रह्मकर्म समारभे ॥ (वामपादेन भूमौ घातत्रयं कुर्यात्) ---- भूमिवन्दनं-आसनशुद्धिः (आसनमन्त्रस्य । मेरुपृष्ठ ऋषिः । अतलं छन्दः । कूर्मे नारायणो देवता । आसने विनियोगः । योगासनाय नमः । अनन्तासनाय नमः । कूर्मासनाय नमः । नागासनाय नमः । मत्स्यासनाय नमः । पद्मासनाय नमः । सुखासनाय नमः ।) समुद्रवसने देवि पर्वतस्तनमण्डिते । विष्णुशक्ते नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥ अशेषजगदाधारं अनन्तं कूर्मरूपिणम् । आसनस्य प्रसिद्ध्यर्थं आत्मानन्दं भजे हरिम् ॥ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं चासनं कुरु ॥ ॐ ऐं ह्रीं श्रीं आधारशक्तिकमलासनाय नमः । इति पुष्पाक्षतैः आसनमभ्यर्च्य उपविशेत् । आचामेत् । नामाचमनं -अच्युताय नमः । अनन्ताय नमः । गोविन्दाय नमः । इति त्रिरपः पीत्वा । केशव । नारायण (कपोलौ दक्षिणाङ्गुष्ठेन स्पृशन्) माधव । गोविन्द । (चक्षुषी अङ्गुष्ठानामिकाभ्यां) विष्णो । मधुसूदन । (नासिके अङ्गुष्ठतर्जनीभ्यां) त्रिविक्रम । वामन (कर्णौ अङ्गुष्ठकनिष्ठिकाभ्यां) श्रीधर । हृषीकेश (अंसौ अङ्गुष्ठमध्यमाभ्यां) पद्मनाभ (नाभिं सर्वाभिरङ्गुलीभिः) दामोदर (शिरः सर्वाभिः स्पृशेत् ।) (अप उपस्पृश्य) तत्त्वाचमनं -ओं ऐं ह्रीं श्रीं ऐं आत्मतत्त्वं शोधयामि स्वाहा । क्लीं विद्यातत्त्वं शोधयामि स्वाहा । सौः शिवतत्त्वं शोधयामि स्वाहा । ऐं क्लीं सौः सर्वतत्त्वं शोधयामि स्वाहा । इत्याचामेत् । ॐ ऐं ह्रीं श्रीं ---- श्रीगुरुध्यानं गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुः साक्षात्परं ब्रह्म तस्मै श्रीगुरवे नमः ॥ अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरुवे नमः ॥ गुरवे सर्वलोकानां भिषजे भवरोगिणाम् । निधये सर्वविद्यानां दक्षिणामूर्तये नमः ॥ वन्दे गुरुपदद्वन्द्वं अवाङ्मनसगोचरम् । रक्तशुक्लप्रभामिश्रं अतर्क्यं त्रैपुरं महः ॥ मद्ब्रह्मरन्ध्रगाम्भोजकर्णिकापीठवासिनम् । शिवरूपं मदीयाघगणनाशनत्परम् ॥ दयार्द्रदृष्टिं स्मेरास्यं वराभयकराम्बुजम् । देवीसपर्यारसिकं सद्गुरुं प्रणमाम्यहम् ॥ तव तत्त्वं न जानामि तदमेयं धिया मम । अनीदृशस्त्वं प्रथितस्तादृशे ते गुरो नमः ॥ दयमादीर्घनयना देशिकताऽभीतिभव्यदक्षकरा । वामकरनिहितदण्डा भाति पुरः सा गुरोर्मूर्तिः ॥ मौनव्याख्याप्रकटितपरब्रह्मतत्त्वं युवानं वर्षिष्ठान्तेवसदृषिगणैरावृतं ब्रह्मनिष्ठैः । आचायेन्द्रं करकलितचिन्मुद्रमानन्दमूर्तिं स्वात्मारामं मुदितवदनं दक्षिणामूर्तिमीडे ॥ नारायणं पद्मभुवं वसिष्ठं शक्तिं च तत्पुत्रपराशरं च । व्यासं शुकं गौडपदं महान्तं गोविन्दयोगीन्द्रमथास्य शिष्यम् ॥ श्रीशङ्कराचार्यमथास्य पद्मपादं च हस्तामलकं च शिष्यम् । तं तोटकं वार्तिककारमन्यानस्मद्गुरून्सन्ततमानतोऽस्मि ॥ सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम् । अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥ श्रीनाथादिगुरुत्रयं गणपतिं पीठत्रयं भैरवं सिद्धौघं वटुकत्रयं पदयुगं दूतीक्रमं मण्डलम् । वीरान्द्व्यष्टचतुष्कषष्टि नवकं वीरावलीपञ्चकं श्रीमन्मालिनिमन्त्रराजसहितं वन्दे गुरोर्मण्डलम् ॥ ब्रह्मरन्ध्रसरसीरुहोदरे नित्यलग्नमवदातमद्भुतम् । कुण्डलीकनककाण्डशोभितं द्वादशान्त सरसीरुहं भजे ॥ एकोनविंशति दलावरणान्तरालकोणत्रयान्तरुदितारुणबिन्दुपीठे । श्रीद्वादशान्तकमले शिववामभागसंस्थदेव्यङ्घ्रिपद्ममरुणं शरणं प्रपद्ये ॥ (मृगीमुद्रया शिरसि प्रणमेत् ।) ---- श्रीगुरुपादुकावन्दनक्रमः (१) लघुतमः । ॐ ऐं ह्रीं श्रीं हंसः शिवः सोऽहं स्वरूपनिरूपणहेतवे श्रीगुरवे नमः । ४. सोऽहं हंसः शिवः स्वच्छप्रकाशविमर्शहेतवे श्रीपरमगुरवे नमः । ४. हंसः शिवः सोऽहं हंसः स्वात्मानन्दपञ्जरविलीनतेजसे श्री परमेष्ठिगुरवे नमः । ४. हंसः सोऽहं नित्यशुद्धबुद्धमुक्तब्रह्मतेजसे श्रीपरापरगुरवे नमः ।) (२) लघुतुरः -ओं ऐं ह्रीं श्रीं ऐं क्लीं सौः हंसः शिवः सोऽहं ह् स् ख् फ्रें हसक्षमलवरयूं ह्सौः सहक्षमलवरयीं शौः हंसः शिवः सोऽहं स्वरूपनिरूपणहेतवे श्रीगुरवे नमः । नाथ श्रीपादुकां पूजयामि नमः । (ओं ऐं ह्रीं श्रीं ऐं क्लीं सौः - ७) ७. सोऽहं हंसः शिवः ह् स् ख् फ्रें हसक्षमलवरयूं ह्सौः सहक्षमलवरयीं शौः सोऽहं हंसः शिवः स्वच्छप्रकाशविमर्शहेतवे श्रीपरमगुरवे नमः । नाथ श्रीपादुकां पूजयामि नमः । ७. हंसः शिवः सोऽहं हंसः ह्स्ख्फ्रें हसक्षमलवरयूं ह्सौः सहक्षमलवरयीं शौः हंसः शिवः सोऽहं हंसः स्वात्मरामपञ्जर विलीनतेजसे श्रीपरमेष्ठिगुरवे नमः । नाथ श्रीपादुकां पूजयामि नमः । ७. हंसः सोऽहं ह्स्ख्फ्रें हसक्षमलवरयूं ह्सौः सहक्षमलवरयीं शौः हंसः सोऽहं नित्यशुद्धबुद्धमुक्तब्रह्मतेजसे परापरगुरवे नमः । नाथ श्रीपादुकां पूजयामि नमः ।) (३) लघुः ॐ ह्रीं श्रीं ऐं क्लीं सौः ह्रीम् । ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं ग्लौम् । हंसः शिवः सोऽहं ह् स् ख् फ्रें हसक्षमलवरयूं ह्सौः सहक्षमलवरयीं शौः हंसः शिवः सोऽहं स्वरूपनिरूपणहेतवे श्रीगुरवे नमः । ॐ नमः ह्रीं ॐ । ..... नाथ श्रीगुरु श्रीपादुकां पूजयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः ह्रीम् । ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं ग्लौः । सोऽहं हंसः शिवः ह् स् ख् फ्रें हसक्षमलवरयूं ह्सौः सहक्षमलवरयीं ह्सौः । सोऽहं हंसः शिवः । स्वच्छप्रकाशविमर्शहेतवे श्रीपरमगुरवे नमः । ॐ नमः ह्रीं ॐ । ..... नाथ श्रीपरमगुरु श्री पादुकां पूजयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः ह्रीम् । ॐ ऐं ह्रीं श्रीं ऐं क्लिं सौः ऐं ग्लौं । हं सः शिवः सोऽहं हंसः शिवः ह् स् ख् फ्रें हसक्षमलवरयूं ह्सौः सहक्षमलवरयीं ह्सौः हंसः शिवः सोऽहं हंसः स्वात्मानन्दपञ्जरविलीनतेजसे श्रीपरमेष्ठिगुरवे नमः । ॐ नमः ह्रीं ॐ । .. नाथश्रीपरमेष्ठिगुरु श्रीपादुकां पूजयामि नमः । ॐ ह्रीं श्रीं ऐं क्लीं सौः ह्रीम् । ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं ग्लौः । हंसः सोऽहं हंसः । ह् स् ख् फ्रें हसक्षमलवरयूं ह्सौः सहक्षमलवरयीं शौः । हंसः सोऽहं हंसः । नित्यमुक्तशुद्ध- बुद्धब्रह्मतेजसे परापरगुरवे नमः । ॐ नमः ह्रीं ॐ । ..... नाथ श्रीपरापरगुरु श्रीपादुकां पूजयामि नमः । (जपमात्रे ह् स् ख् फ्रें हसक्षमलवरयूं सहक्षमलवरयीं हसौः शौः इति । पूजाङ्गत्वे पूर्वोक्तविधानेन) ---- श्रीगुर्वादिस्वरूपध्यानम् (लघु) -प्रज्ञानं ब्रह्मेति तत्पदलक्षणविचारश्रवणे योजयन् । स्वरूपनिरूपणहेतुः श्रीगुरुः पातु । -तत्त्वमसीति असिपदाथमनने योजयन् स्वच्छप्रकाशविमर्शहेतुः श्रीपरमगुरुः पातु । -अहं ब्रह्मास्मीति अहम्पदार्थनिदिध्यासने योजयन् स्वात्मानन्दपञ्जर विलीनतेजाः श्री परमेष्ठिगुरुः पातु । -अयमात्मा ब्रह्मेति साक्षात्करणे योजयन् नित्यमुक्तशुद्धबद्ध ब्रह्मतेजाः श्रीपरापरगुरुः पातु । -क्रमेण अहन्तेदन्ताह्रास द्वैतीभावल्पीभवनपूर्वकचिद्विमर्शे अहमोऽदर्शनं अद्वैतभानं चानुभावयन् श्रीगुरुरात्मा पातु । ---- श्रीगुर्वादिस्वरूपध्यानम् (परमम्) -प्रज्ञानं ब्रह्मेति ऋग्वेदीयलक्षणमंहावाक्योपदेशक - जाघ्रदवस्थासाक्षिभूत - मौनसिद्धिद - वैखरीस्थानाधिष्ठातृ - तमोगुणक - क्रियाशक्ति - स्थूलदेह - शक्तिकूट - मानवगुर्वोघ - हंसगुरुस्वरूप - स्वरूपनिरूपणहेतु श्रीगुरवे नमः । ..... नाथ श्रीगुरुपादुकां पूजयामि नमः । ॐ नमः ह्रीं ॐ । -तत्त्वमसीति सामवेदीयोपदेशमहावाक्योपदेशक - स्वप्नावस्थासाक्षिभूत - ध्यानसिद्धिद - मध्यमास्थानाधिष्ठातृ - रजोगुण - ज्ञानशक्ति - सूक्ष्मदेह - कामकूट - सिद्धगुर्वोघ - महाहंसगुरुरूप - स्वच्छप्रकाशविमर्शहेतु -श्रीपरमगुरवे नमः । ..... नाथ श्रीपरमगुरुश्री पादुकां पूजयामि नमः । ॐ अहं ब्रह्मास्मीति यजुर्वेदीयानुभव महावाक्योपदेशकसुषुप्त्यवस्थासाक्षिभूत - योगसिद्धिद - पश्यन्तीस्थानाधिष्ठातृ - सत्त्वगुण - इच्छाशक्ति - कारणदेह वाग्भावकूट - दिव्यगुर्वोघ -परमहंसस्वरूप - स्वात्मारामपञ्जरविलीनतेजः - श्रीपरमेष्ठि गुरवे नमः । ..... - नाथ श्रीपरमेष्ठि गुरुश्रीपादुकां पूजयामि नमः । ॐ नमः ह्रीं ॐ । -अयमात्मा ब्रह्मेति अथर्वणवेदीयसाक्षात्कार महावाक्योपदेशक - तुरीयावस्थासाक्षिभूत - समाधिसिद्धिद -परावाक् - स्थानाधिष्ठातृ - गुणत्रय - शक्तित्रय - देहत्रय - कूटत्रय ओघत्रयस्वरूप -परापरहंसगुरुस्वरूप - नित्यशुद्धबुद्धमुक्ततेजः - श्रीपरापरगुरवे नमः । ..... नाथ श्रीपरापरगुरुश्रीपादुकां पूजयामि नमः । ॐ नमः ह्रीं ॐ । वागतीतं गुणातीतं शक्त्यतीतं देहातीतं कूटातीतं ओघातीतं ब्रह्म गुर्वभिन्नं द्वादशान्तात् श्रीगुरुपादुकयोः अवतीर्णं श्रीगुरुमण्डलं भावये । (तदनु सुमुख - सुवृत्त - चतुरश्र - मुद्गर योन्याख्याभिः मुद्राभिः योनिमुद्रया वा श्रीगुरुं प्रणमेत् ।) ---- सङ्कल्पः शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं वन्दे सर्वविघ्नोपशान्तये ॥ प्राणायामः (सप्रणवव्याहृत्या सब्रह्मशिरस्कया गायत्र्या । मूलमन्त्रेण वा) । (देशकालौ सङ्कीर्त्य) ममोपात्त समस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं सपरिवार बालाम्बाप्रसाद सिद्ध्यर्थं बालाम्बापूजां करिष्ये । (आत्मानं अलङ्कृत्य हृदि देवीं भावयेत् ।) घण्टा - दीपपूजा आगमार्थं तु देवानां गमनार्थं तु रक्षसाम् । घण्टारवं करोम्यादौ देवताह्वान लाञ्छनम् ॥ (घण्टां नादयति) दीपदेवि महादेवि शुभं भवतु मे सदा । यावत्पूजा समाप्ता स्यात्तावत्प्रज्वल सुस्थिता ॥ (दीपं पूजयति) कारणकलशस्थापना (विन्दु त्रिकोणषट्कोणवृत्तचतुरश्रमण्डलं विधाय । बिन्दौ ईं इति विलिख्य ऐं क्लीं सौः इति सम्पूज्य । त्रिकोणे ऐं नमः । क्लीं नमः । सौः नमः इति सम्पूज्य षट्कोणे मूलेन सम्पूज्य वृत्ते सर्गरत्नाय नमः । गगनरत्नाय नमः । मध्यरत्नाय नमः । पातालरत्नाय नमः । नागरत्नाय नमः । इति सम्पूज्य चतुरश्रे कामगिरिपीठाय नमः । पूर्णगिरिपीठाय नमः । जालन्धरगिरिपीठाय नमः । महोड्याणगिरिपीठाय नमः । इति सम्पूज्य । मूलेन समस्तमण्डलं पूजयित्वा । श्रीपरदेवतायाः कारणपात्राधारं प्रतिष्ठापयामि नमः इति मण्डलोपरि प्रतिष्ठाप्य । रं अग्रये नमः । धूम्रोष्मा - ज्वलिनी - ज्वालिनी - विस्फुलिङ्गिनी -सुश्री सुरूपा - कपिला - हव्यवाहिनी - कव्यवाहिनी कलाभ्यो नमः । रां रीं रूं रैं रौं रः रमलवरयुं अ॒ग्निं दू॒तं वृ॑णीमहे॒ होता॑रं वि॒श्वे॑दसम् । अ॒स्य य॒ज्ञस्य सु॒क्रतु᳚म् । रं धर्मप्रददशकलात्मने वह्निमण्डलाय नमः । (मूलेन क्षालितं पात्रं) श्रीपरदेवतायाः कारणकलशपात्रं प्रतिष्ठापयामि नमः इति स्थापयित्वा । पूर्वोक्तं मण्डलं विभाव्य पूर्ववत्सम्पूज्य सूर्यकला आवाहयामि इत्यावाह्य हं सूर्याय नमः । हंसः सोऽहम् । तपिनी -तापिनी - धूम्रा - मरीची - ज्वलिनी - रुचि - सुषुम्ना - भोगदा - विश्वा - बोधिनी - धारिणी - क्षमाकलाभ्यो नमः । हां हीं हूं हैं हौं हः हमलवरयूम् । आस॒त्ये॒ रजसा॒वर्तमानो नि॒शयन्न॒मृतं॒ मर्त्यं॑ च । हि॒रण्यये॑न सवि॒ता रथे॒ना दे॒वो याति॒ भुवना वि॑पश्यन्॑ । हं वसुप्रददशकलात्मने सूर्यमण्डलाय नमः । इति पात्रं पूजयित्वा । तस्मिन्गन्धोदकमापूर्य पूर्वोक्तं मण्डलं विभाव्य पूजयित्वा तस्मिन्गन्धोदकमापूर्य पूर्वोक्तं मण्डलं विभाव्य पूजयित्वा सं सोमाय नमः । हं सः सोऽहम् । अमृता - मानदा - पूषा - तुष्टि पुष्टि - रति - धृति - शशिनी - प्रिया - कान्ति - ज्योत्स्ना - श्री - प्रीत्यङ्गदा - पूर्णा - पूर्णामृता कलाभ्यो नमः । विष्णु॒र्योनिं॑ कल्पयतु॒ त्वष्टा रू॒पाणि पिंशतु । असिञ्चतु प्र॒जापतिर्धा॒ता गर्भं दधातु ते । गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति । गर्भं ते अ॒श्विनौ॑ दे॒वावधत्तां॒ पुष्करस्रजा । सं कामप्रदषोडशकलात्मने चन्द्रमण्डलाय नमः । इति गन्धोदकमापूर्य मूलेनाष्टवारमभिमन्त्र्य वं इति धेनुमुद्रां प्रदर्श्य गन्धपुष्पाक्षतैरभ्यर्च्य योनिमुद्रया प्रणमेत् ॥) (कलशं गन्धपुष्पैरभ्यर्च्य । त्रिकोणवृत्तचतुरश्रात्ममण्डले निक्षिप्य) ---- सामान्यकलशस्थापना - लघुः कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः । मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥ कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा । ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः ॥ अङ्गैश्च सहिताः सर्वे कलशाम्बुसमाश्रिताः । आयान्तु देवपूजार्थे दुरितक्षयकारकाः ॥ ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते रवे । तेन सत्येन मे देव तीर्थं देहि दिवाकर ॥ गङ्गे च यमुने चैव गोदावरि सरस्वति । नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥ सर्वे समुद्राः सरितस्तीर्थानि च नदा ह्रदाः । आयान्तु देवपूजार्थे दुरितक्षयकारकाः ॥ आपो॒ वा इ॒दँ सर्वं विश्वा भू॒तान्यापः॑ प्रा॒णा वा आपः॑ प॒शव॒ आपोऽन्न॒मापोऽमृ॑त॒माप॑स्स॒म्राडापो॑ वि॒राडापस्स्व॒राडापश्छन्दाँस्यापो ज्योतीँ॒ष्यापो यजूँ॒ष्यापस्स॒त्यमापस्सर्वा॑ दे॒वता॒ आपो॒ भूर्भुव॒स्सुव॒राप॒ ॐ । ॐ वं (१६) ऐं क्लीं सौः (१६) (इत्यभिमन्त्र्य धेनुमुद्रया प्रणमेत्) । ---- सामान्यार्घ्यस्थापना कलशस्य दक्षिणे बिन्दुत्रिकोणषट्कोणवृत्तातुरश्रात्मकमण्डलं विलिख्य मूलेन त्रिः प्रोक्षयेत् । ॐ ऐं ह्रीं श्रीं अं अग्निमण्डलाय धर्मप्रददशकलात्मने सामान्यार्ध्य- पात्राधाराय नमः । (अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् ।) (तदुपरि पूजापात्रं निधाय । ॐ ऐं ह्रीं श्रीं उं सूर्यमण्डलाय अर्थप्रदद्वादशकलात्मने पात्राय नमः (आ सत्येन रजसा विपश्यन् ।) (कलशोदकेन पूरयित्वा) ॐ ऐं ह्रीं श्रीं मं सोममण्डलाय कामप्रदषोडशकलात्मने अमृताय नमः । (आप्यायस्य समेतु ते विश्वतः सोमवृष्णियम् । भवावाजस्य सङ्गथे) (मूलेन षोडशवारं अभिमन्त्र्य धेनुयोनिमुद्रे प्रदर्श्य । तेनोदकेन शङ्खमापूर्य) ---- शङ्खपूजा शङ्खं चन्द्रार्कदैवत्यं कुक्षौ वरुणदैवतम् । पृष्ठे प्रजापतिश्चैव अग्रे गङ्गा सरस्वती ॥ त्रैलोक्ये यानि तीर्थानि महादेवस्य चाज्ञया । आयन्ति तानि शङ्खे तु तस्माच्छङ्खं प्रपूजये ॥ अ॒ग्नेर्म॑न्वे प्रथ॒मस्य॒प्रचे॑तसो॒ऽयं पाञ्चजन्यं ब॒हवः॑ समि॒न्धते᳚ । विश्व॑स्यां॒ विशि प्रविविशि॒वाँ समीमहे॒ स नो॑ मुञ्च॒त्वंहसः ॥ (शङ्खमुद्रां प्रदर्श्य शङ्खजलं किञ्चित्पूजापात्रोदके निक्षिप्य पूजाद्रव्याण्यात्मानं च प्रोक्षयेत् । पुनः शङ्खमापूर्य) त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे । पूजितः सर्वदेवैश्च पाञ्चजन्य नमोऽस्तुते ॥ विशेषार्घ्यस्थापनं (आवरणपूजातर्पणकरणाय एतदावश्यकम् । अन्यथा न ।) (शङ्खस्य दक्षिणतः त्रिकोणवृत्तचतुरश्रात्मके मण्डले) सामान्यार्घ्यजलेन पात्राधारं प्रोक्ष्य । पूर्वोक्तमण्डलं विभाव्य श्रीपरदेवतायाः विशेषार्घ्यपात्राधारमण्डलाय नमः इति पूजयित्वा ॐ अं सूर्यमण्डलाय धर्मप्रददशकलात्मने विशेषार्ध्यपात्राधाराय नमः । ॐ उं सूर्यमण्डलाय अर्थप्रदवादशकलात्मने विशेषाध्यपात्राय नमः । ॐ मं सोममण्डलाय कामप्रदषोडशकलात्मने विशेषार्ध्यामृताय नमः ॥ तत्त्वमुद्रया गृहीतपुष्पोपरि अं आं - ळं क्षं । क्षं ळं -आं अं इति मातृकया अर्पितं क्षीरं समधु आपूर्य ॐ वं जुं सः (८) इत्यभिमन्त्र्य (७) चिन्मयीं आनन्दलक्षणां अमृतकलशहस्तां सुधादेवीं पूजयामि । (४) ऐं ब्लुं झ्रौं जुं सः अमृते अमृतोद्भवे अमृतेश्वरि अमृतवर्षिणि अमृतं स्रावय स्रावय स्वाहा । नमः ॥ (मूलेन आबिमन्त्र्य योनिमुद्रया नत्वा तद्बिन्दुभिः कलशं पूजापात्रं पूजाद्रव्याणि आत्मानं च प्रोक्षयेत् ।) ---- पुण्याद्यष्टकहोमः मूलाधारे वालाग्रमात्रं अनादिवासनारूपेन्धनप्रज्वलितं कुण्डलिन्यधिष्ठितं चिदग्निमण्डलं ध्यायामि । अन्तर्निरन्तरमनिन्धनमेधमाने । मोहान्धकारपरिपन्थिनि संविदग्नौ । कस्मिंश्चिदद्भुतमारीचिविकासभूम्नि विश्वं जुहोमि वसुधादि शिवावसानम् ॥ ॐ ऐं ह्रीं श्रीं चिदग्निमण्डले पुण्यं पापं कृत्यं अकृत्यं सङ्कल्पं विकल्पं धर्मं अधर्मं च जुहोमि । इतः पुर्वं प्राणबुद्धिदेहधर्माधिकारतः जाग्रत्स्वप्नसुषुप्त्यवस्थासु मनसा स्मृतम् । वाचोक्तम् । हस्ताभ्यामुदरेण शिश्ना कृतं सर्वं ब्रह्मार्पणं भवतु । आर्द्रं ज्वलति ज्योतिरहमस्मि । ज्योतिर्ज्वलति ब्रह्माहमस्मि । योऽहमस्मि ब्रह्माहमस्मि । अहमस्मि ब्रह्माहमस्मि । अहमेवाहं मां जुहोमि स्वाहा ॥ (इत्यात्मनः कुण्डलिनीरूपे चिदग्रौ होमबुद्ध्या जुहुयात् ।) ---- भूतशुद्धिः (भूतौघं प्रविलाप्य तं परशिवे जीवेन संयोजये दग्ध्वा कारणवर्ति पापपुरुषं शैवीं तनुं कल्पये । मूलाधारगया तया परशिवादाकृष्य संयोजये प्राणैर्जीवमलङ्कृतं जपविधौ सम्पूजयेऽहं सदा ।) ॐ ऐं ह्रीं श्रीं वद वद वाग्वादिनि । ऐं क्लीं क्लिन्ने क्लेदिनि क्लेदय क्लेदय । महाक्षोभं कुरु । क्लीं सौः मोक्षं कुरु कुरु ह्सौः शौः नमः । लं (१०) वं (२०) रं (३०) यं (४०) हं (५०) इति प्राणानायम्य मूलश‍ृङ्गाटकात् कुण्डलिनीं उत्थापयामि । ॐ हंसः सुषुम्नापथेन जीवशिवं परमशिवेन योजयामि नमः । हंसः सोऽहं हंसः । लं पृथिवीमप्सु प्रविलापयामि । वं आपः अग्नौ प्रविलापयामि । रं अग्निं वायौ प्रविलापयामि । यं वायुं आकाशे प्रविलापयामि । हं आकाशं जीवे प्रविलापयामि । (इडया पूरकेण) यं (१६) पापपुरुषं शोषयामि । (पिङ्गलया पूरकेण) रं (१६) पापपुरुषं दहामि । (इडया पूरकेण) वं (१६) परमशिवामृतं वर्षयामि । (पिङ्गलया पूरकेण) लं (१६) शाम्भवं पुण्यपुरुषं उज्जीवयामि । जीवादाकाशं वायुमग्निं अपः पृथिवीं च पुण्यपुरुषेण योजयामि । तं मूलाधारे स्थापयामि । हंसः सोऽहं अवतर शिवपदात् जीव प्रविश मूलश‍ृङ्गाटकम् । उल्लसोल्लस । ज्वल ज्वल प्रज्वल प्रज्वल । हंसः सोऽहं स्वाहा । (हृदि दक्षकरं निधाय) ऐं ह्रीं श्रीं आं सोऽहं (३) । आं ह्रीं क्रों (१६) इति प्राणप्रतिष्ठा । भूर्भुवस्सुवरों (दिग्बन्धः) देहो देवालयः प्रोक्तो जीवो देवः सनातनः । त्यजाम्यज्ञाननिर्माल्यं सोऽहं भावेन पूजये । आत्मने नमः । परमात्मने नमः । (आत्मानं अलङ्कृत्य) ---- पापनिवारकमन्त्रानुसन्धानं दे॒वकृत॒स्यैनसोऽव॒यजनमसि॒ स्वाहा᳚ । म॒नु॒ष्यकृत॒स्यैनसोऽव॒यजनमसि॒ स्वाहा᳚ । पि॒तृकृत॒स्यैनसोऽव॒यजनमसि॒ स्वाहा᳚ । आ॒त्मकृत॒स्यैनसोऽव॒यजनमसि॒ स्वाहा᳚ । अ॒न्यकृत॒स्यैनसोऽव॒यजनमसि॒ स्वाहा᳚ । अ॒स्मत्कृत॒स्यैनसोऽव॒यजनमसि॒ स्वाहा᳚ । यद्दि॒वा च॒ नक्तं॒ चैनश्चकृ॒म तस्याव॒यजनमसि॒ स्वाहा᳚ । यत्स्व॒पन्तश्च॒ जाग्रत॒श्चैनश्चकृ॒म तस्याव॒यजनमसि॒ स्वाहा᳚ । यत्सु॒षु॑प्तश्च॒ जाग्रत॒श्चैनश्चकृ॒म तस्याव॒यजनमसि॒ स्वाहा᳚ । यद्वि॒द्वाꣳस॒श्चाविद्वाꣳस॒श्चैनश्चकृम तस्याव॒यजनमसि॒ स्वाहा᳚ । एनस एनसोऽवयजनमसि॒ स्वाहा᳚ । यद्वो॑ देवाश्चकृ॒म जि॒ह्वया गु॒रुमनसो वा॒ प्रयु॑ती देव॒ हेडनम् । अरावा॒ यो नो॑ अ॒भिदु॑च्छुना॒यते॒ तस्मि॒न्तदेनो॑ वसवो॒ निधेतन स्वाहा᳚ । कामोऽकार्षी᳚न्नमो॒ नमः । कामोऽकार्षीत्कामः करोति नाहं करोमि कामः कर्ता नाहं कर्ता कामः॑ कार॒यिता नाहं॑ कार॒यिता एष ते काम कामाय स्वा॒हा ॥ मन्युर्कार्षी᳚न्नमो॒ नमः । मन्युर्कार्षीन्मन्युः करोति नाहं करोमि मन्युः कर्ता नाहं कर्ता मन्युः॑ कार॒यिता नाहं॑ कार॒यिता एष ते मन्यो मन्यवे स्वा॒हा ॥ ---- here 1 विरजोविपाप्मत्वानुसन्धानं प्राणापान-व्यानोदान-समाना मे॑ शुद्ध्य॒न्तां॒ज्योतिर॒हं वि॒रजा विपा॒प्मा भूयास॒ꣳ स्वाहा᳚ । वाङ्मनश्चक्षुश्श्रोत्रजिह्वाघ्राणरेतोबुद्ध्याकूतिस्सङ्कल्पा मे॑ शु॒द्ध्य॒न्तां॒ ज्योतिर॒हं वि॒रजा विपा॒प्मा भूयास॒ꣳ स्वाहा᳚ । त्वक्चर्म-माꣳस-रुधिर-मेदो-मज्जा-स्नायवोऽस्थीनि मे॑ शु॒द्ध्य॒न्तां॒ ज्योतिर॒हं वि॒रजा विपा॒प्मा भूयासꣳ स्वाहा᳚ । शिरःपाणिपादपार्श्वपृष्ठोरूदरजङ्घःशिश्नोपस्थ पायवो मे॑ शु॒द्ध्य॒न्तां॒ ज्योतिर॒हं वि॒रजा विपा॒प्मा भूयासाꣳ स्वाहा᳚ । उत्तिष्ठ पुरुष हरितपिङ्गललोहिताक्षि देहि देहि दापयिता मे॑ शु॒द्ध्य॒न्तां॒ ज्योतिर॒हं वि॒रजा विपा॒प्मा भूयासꣳ स्वाहा᳚ । पृथिव्यापस्तेजोवायुराकाशा मे॑ शु॒द्ध्य॒न्तां॒ ज्योतिर॒हं वि॒रजा विपा॒प्मा भूयासꣳ स्वाहा᳚ । शब्दस्पर्शरूपरसगन्धा मे॑ शु॒द्ध्य॒न्तां॒ ज्योतिर॒हं वि॒रजा विपा॒प्मा भूयासꣳ स्वाहा᳚ । आत्मा मे॑ शु॒द्ध्य॒न्तां॒ ज्योतिर॒हं वि॒रजा विपा॒प्मा भूयासꣳ स्वाहा᳚ । अन्तरात्मा मे॑ शु॒द्ध्य॒न्तां॒ ज्योतिर॒हं वि॒रजा विपा॒प्मा भूयासꣳ स्वाहा᳚ । अन्नमय-प्राणमय-मनोमय-विज्ञानमय-मानन्दमयमात्मा मे॑ शु॒द्ध्य॒न्तां॒ ज्योतिर॒हं वि॒रजा विपा॒प्मा भूयासꣳ स्वाहा᳚ । ---- देहे सर्वदेवतान्यासः - आत्मरक्षा प्रजनने ब्रह्मा तिष्ठतु । पादयोर्विष्णुस्तिष्ठतु । हस्तयोर्हरस्तिष्ठतु । बाह्वोरिन्द्रस्तिष्ठतु । जठरेऽग्निस्तिष्ठतु । हृदये शिवस्तिष्ठतु । कण्ठे वसवस्तिष्ठन्तु । वक्त्रे सरस्वती तिष्ठतु । नासिकयोर्वायुस्तिष्ठतु । नयननोश्चन्द्रादित्यौ तिष्ठेताम् । ललाटे रुद्रास्तिष्ठन्तु । मूर्ध्न्यादित्यास्तिष्ठन्तु । शिरसि महादेवस्तिष्ठतु । शिखायां वामदेवस्तिष्ठतु । पृष्ठे पिनाकी तिष्ठतु । पुरतः शूली तिष्ठतु । पार्श्वयोः शिवाशङ्करौ तिष्ठेताम् । सर्वतो वायुस्तिष्ठतु । ततो बहिः सर्वतोऽग्निर्ज्वालामालापरिवृतस्तिष्ठतु । सर्वेष्वङ्गेषु सर्वा देवता यथास्थानं तिष्ठन्तु । मां रक्षन्तु ॥ अ॒ग्निर्मे॑ वा॒चि श्रि॒तः । वाग्घृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते॑ । अ॒मृतं॒ ब्रह्म॑णि । वा॒युर्मे᳚ प्रा॒णे श्रि॒तः । प्रा॒णो हृद॑ये । हृद॑यं मयि॑ । अ॒हम॒मृ॒ते᳚ । अ॒मृतं॒ ब्रह्म॑णि । सूर्यो॑ मे॒ चक्षु॑षि श्रि॒तः । चक्षुर्हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि । च॒न्द्रमा मे॒ मन॑सि श्रि॒तः । मनो॒ हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि । दिशो॑ मे॒ श्रोत्रे᳚ श्रिताः । श्रोत्र॒ꣳ॒ हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि । आपो॑ मे रेत॑सि श्रिताः । रेतो॒ हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि । पृ॒थि॒वी मे॒ शरी॑रे श्रिता । शरी॑र॒ꣳ॒ हृदये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि । ओ॒ष॒धि॒व॒न॒स्प॒तयो॑ मे लोम॑सु श्रि॒ताः । लोमा॑नि॒ हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि । इन्द्रो॑ मे॒ बले᳚ श्रि॒तः । बल॒ꣳ॒ हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि । प॒र्जन्यो॑ मे मू॒र्ध्नि श्रि॒तः । मू॒र्धा हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि । ईशानो म मन्यौ श्रितः । मन्युर्हृद ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि । आ॒त्मा म आ॒त्मनि॑ श्रितः । आ॒त्मा हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि । पुन॑र्म आ॒त्मा पुन॒रायु॒रागात् । पुनः प्रा॒णः पुन॒रायु॒रागात् । वै॒श्वा॒न॒रो र॒श्मिभि॑र्वावृधा॒नः । अ॒न्तस्ति॑ष्ठत्व॒मृत॑स्य गो॑पाः ॥ ---- श्रीगणपतिध्यानं ॐ विनायकाय नमः (१६) । ॐ वक्रतुण्डाय नमः (१६) । ॐ हेरम्बाय नमः (१६) । ॐ गणपतये नमः (१६) । ॐ श्रीं विद्यागणेशाय नमः । (१६) सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः । लम्बोदरश्च विकटो विघ्नराजो विनायकः ॥ धूमकेतुर्गणाध्यक्षः भालचन्द्रो गजाननः । वक्रतुण्डः शूर्पकर्णो हेरम्बः स्कन्दपूर्वजः ॥ श्रीगणेशाय नमः । (षोडशैतानि नामानि यः पठेत् श‍ृणुयादपि । विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा । सङ्ग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते ॥) गणञ्जयो गणपतिर्हेरम्बो धरणीधरः । महागणपतिर्लक्षप्रदः क्षिप्रप्रसादनः । अमोघसिद्धिरमितो मन्त्रश्चिन्तामणिर्निधिः । सुमङ्गलो बीजमाशापूरको वरदः शिवः । काश्यपो नन्दनो वाचासिद्धो ढुण्ढिर्विनायकः ॥ (मोदकैरेभिरत्रैकविंशत्या नामाभिः पुमान् । यः स्तौति मद्गतमना मदाराधनतत्परः । स्तुतो नाम्नां सहस्रेण तेनाहं नात्र संशयः ॥) नमो नमः सुरवरपूजिताङ्घ्रये नमो नमो निरुपममङ्गलात्मने । नमो नमो विपुलपदैकसिद्धये नमो नमः करिकलभाननाय ते ॥ परमा करुणामूर्तिः कलौ प्रत्यक्षदैवतम् । महागणपतिर्विघ्नान्हत्वापोह्य दुराशयान् ॥ प्रदाय सन्मतिं तस्मिन्दृढां भक्तिमचञ्चलाम् । दत्वा प्रीत्याऽनुगृह्णातु शरणं तं भजामहे ॥ ---- रक्षामन्त्रमननं १. ॐ वक्रतुण्डाय हुम् । (४) २. ॐ वक्रतुण्डाय हुं ॐ नमो हेरम्ब मदमोदित मम सङ्कष्टं निवारय निवारय हुं फट् स्वाहा (४) ३. ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा (४) ४. ॐ श्रीं ह्रीं क्लीं ग्लौं गं ऐं कएईलह्रीं तत्सवितुर्वरेण्यम् । गणपतये क्लीं हसकहलह्रीं भर्गौदेवस्य धीमहि । वरवरद सौः सकलह्रीं श्रीं धियो यो नः प्रचोदयात् सर्वजनं मे वशमानय स्वाहा । (४.) ५. ॐ ह्रीं नमः शिवाय । (३) ६. ॐ ऐं ह्रीं श्रीं ॐ ऐं ह्रीं श्रीं । ऐं क्लीं सौः ॐ नमो भगवति राजमातङ्गीश्वरि सर्वजनमनोहरि सर्वमुखरञ्जनि क्लीं ह्रीं श्रीं सर्वराजवशङ्करि सर्वस्त्रीपुरुषवशङ्करि सर्वदुष्टमृगवशङ्करि सर्वसत्त्ववशङ्करि । सर्वलोकवशङ्करि । त्रैलोक्यं मे वशमानय स्वाहा । सौः क्लीं ऐं श्रीं ह्रीं ऐम् ॥ (३) ७. ॐ ऐं ह्रीं श्रीं । ऐं ग्लौं ऐं ॐ नमो भगवति वार्तालिवार्तालि वाराहि वाराहि वराहमुखि वराहमुखि अन्धे अन्धिनि नमः । रुन्धे रुन्धिनि नमः । जम्भे जम्भिनि नमः । मोहे मोहिनि नमः । स्तम्भे स्तम्भिनि नमः । सर्वदुष्टप्रदुष्टानां सर्वेषां सर्ववाक् चित्तचक्षुर्मुखगतिजिह्वास्तम्भनं कुरु कुरु शीघ्रं वश्यं ऐं ग्लैं ऐं ठः ठः ठः ठः हुं फट् स्वाहा ॐ ॥ (३) ८. ॐ ऐं श्रीं ह्रीं क्लीं चामुण्डायै विच्चे । (३) ९. ॐ ऐं क्लीं सौः सौः क्लीं ऐं (३) १०. ॐ कारिईलह्रीं हसकहलह्रीं सकलह्रीं श्रीं (३) ११. ॐ श्रीं ह्रीं क्लीं ऐं सौः ॐ ह्रीं श्रीं । क ऐ ई ल ह्रीं हसकहलह्रीं सकलह्रीं सौः ऐं क्लीं ह्रीं श्री । (३) १२. ॐ कामदेवाय विद्महे पुष्पबाणाय धीमहि । तन्नोऽनङ्गः प्रचोदयात् (४) १३. ॐ नमः कामदेवाय सर्वजनप्रियाय सर्वजनसम्मोहनाय ज्वल ज्वल प्रज्वल प्रज्वल सर्वजनस्य हृदयं मम वशं कुरु कुरु स्वाहा । (४) १४. ॐ द्रां द्राविण्यै मकरध्वजाय द्राविणीबाणाय पद्मोत्पलं हं क्लीं हुं फट् स्वाहा । (४) १५. ॐ द्रीं क्षोभिण्यै मकरध्वजाय क्षोभिणीबाणाय बिल्बोत्पलं हं क्लीं हुं फट् स्वाहा । (४) १६. ॐ क्लीं वशीकरण्यै मकरध्वजाय वशीकरणीबाणाय जम्बूत्पलं हं क्लिं हुं फट् स्वाहा । (४) १७. ॐ ब्लूं आकर्षिण्यै मकरध्वजाय आकर्षिणीबाणाय रक्तोत्पलं हं क्लिं हुं फट् स्वाहा । (४) १८. ॐ सः सम्मोहिन्यै मकरध्वजाय सम्मोहिनीबाणाय नीलोत्पलं हं क्लिं हुं फट् स्वाहा । ४॥ ---- मातृकान्यासः ॐ अं (शिरसि) आं (मुखे) इं ईं (नेत्रयोः) उं ऊं (कर्णयोः) ऋंॠं (नासयोः) लृं लॄं (कपोलयोः) एं ऐं (ओष्ठयोः) ॐ औं (दन्दपङ्क्तौ) अं (जिह्वाग्रे) अः (कण्ठे) कं खं गं घं ङं (दक्षबाहौ) चं छं जं झं ञं (वामबाहौ) टं ठं डं ढं णं (दक्षपादे) तं थं दं धं नं (वामपादे) पं -फं(पाश्वयोः) बं (पृष्ठे) भं (नाभौ) मं (जठरे) यं (हृदये) रं (दक्षकक्षे) लं (गलपृष्ठे) वं (वामकक्षे) शं (हृदयात् दक्षकराङ्गुल्यन्तं) षं (हृदयात् वामकराङ्गुल्यन्तं) सं (हृदयात् दक्षपादाङ्गुल्यन्तं) हं (हृदयात् वामपादाङ्गुल्यन्तं) ळं (कटीतः पादाङ्गुल्यन्तं) क्षं (कटीतः ब्रह्मरन्ध्रान्तं) ---- ध्यानं ॐ गुरुं ध्यायामि । ॐ परमगुरुं ध्यायामि । ॐ परमेष्ठिगुरुं ध्यायामि । ॐ परापरगुरुं ध्यायामि । ॐ शिवगुरुं ध्यायामि । ॐ मेधादक्षिणामूर्तिगुरुं ध्यायामि । समस्तगुरुमण्डलरूपिणीं बालां ध्यायामि । महागणपतिं ध्यायामि । कामेश्वरं ध्यायामि । कामेश्वरीं ध्यायामि । कामेश्वर्यङ्कमध्यगां सपरिवारां बालां ध्यायामि । लक्ष्मीनारायणौ ध्यायामि । छायासुवर्चलासमेत श्रीसूर्यं ध्यायामि । ---- मन्त्रजपः वक्रतुण्डगणपतिमन्त्रजपः अस्य श्रीवक्रतुण्डमहागणपतिमहामन्त्रस्य भार्गवः ऋषिः । अनुष्टुप्छन्दः । श्रीवक्रगुण्डमहागणपतिर्देवता । ॐ वं बीजम् । यं शक्तिः । हुं कीलकम् । श्रीवक्रतुण्डमहागणपतिप्रीत्यर्थे जपे विनियोगः । (पूजायां विनियोगः) १ सर्वत्र ब्रह्मप्रणवयोजनं कुर्यात् । उपनीतस्य वेदाध्ययनाधिकारवत एव ब्रह्मप्रणवेऽधिकारः । अन्ये तत्स्थाने आं इति योजयेयुः इति शिष्टाः । करन्यासः - वं अङ्गुष्ठाभ्यां नमः । क्रं तर्जनीभ्यां नमः । तुं मध्यमाभ्यां नमः । ण्डां अनामिकाभ्यां नमः । यं कनिष्ठिकाभ्यां नमः । हुं करतलकरपृष्ठाभ्यां नमः । अङ्गन्यासः - वं हृदयाय नमः । क्रं शिरसे स्वाहा । तुं शिखायै वषट् । ण्डां कवचाय हुम् । यं नेत्रत्रयाय वौषट् । हुं अस्त्राय फट् । भूर्भुवस्सुवरो इति दिग्बन्धः- ---- ध्यानं- उद्यद्दिनेश्वरुरुचिं निजपद्महस्तैः पाशाङ्कुशाभयवरान् दधतं गजास्यम् । रक्ताम्बरं सकलदुःखहरं गणेशं वन्दे प्रसन्नमखिलाभरणाभिरामम् ॥ लैमित्यादिपञ्चपूजा - लं पृथिव्यात्मकं गन्धं समर्पयामि । हं आकाशात्मकं पुष्पं समर्पयामि । यं वाय्वात्मकं धूपमाघ्रापयामि । रं अग्न्यात्मकं दीपं समर्पयामि । वं अमृतात्मकं अमृतोपहारं निवेदयामि । मूलमन्त्रः -ओं वक्रतुण्डाय हुम् । (१०८ -३३६ -१००८ वारं जपेत्) हृदयादिन्यासः । भूर्भुवस्सुवरों (इति दिग्विमोकः) ध्यानम् । लमित्यादि पञ्चपूजा । गुह्यातिगुह्यगोप्ता त्वं गृहाणात्मकृतं जपम् । सिद्धिर्भवतु देवेश त्वत्प्रसादान्मयि स्थिरा ॥ इति श्रीमहागणपतेर्वामहस्ते जपं समर्पयेत् । ---- महागणपतिमन्त्रजपः अस्य श्रीमहागणपतिमहामन्त्रस्य गणक ऋषिः । निचृद्गायत्री छन्दः । महागणपतिर्देवता । ॐ गं बीजम् । स्वाहा शक्तिः । ग्लौं कीलकम् । महागणपतिप्रीत्यर्थे जपे विनियोगः । करन्यासः - ॐ गां अङ्गुष्ठाभ्यां नमः । श्रीं र्गीं तर्जनीभ्यां नमः । ह्रीं गूं मध्यमाभ्यां नमः । क्लीं गैं अनामिकाभ्यां नमः । ग्लौं गौं कनिष्ठिकाभ्यां नमः । गं गः करतलकरपृष्ठाभ्यां नमः । हृदयादिन्यासः - ॐ गां हृदयाय नमः । श्रीं र्गीं शिरसे स्वाहा । ह्रीं गूं शिखायै वषट् । क्लीं गैं कवचाय हुम् । ग्लौं गौं नेत्रत्रयाय वौषट् । गं गः अस्त्राय फट् । भूर्भुवस्सुवरों (दिग्बन्धः) । ध्यानं - बीजापूरगदेक्षुकार्मुकरुजाचक्राब्जपाशोत्पल - व्रीह्यग्रस्वविषाणरत्नकलशप्रोद्यत्कराम्भोरुहः । पायाद्वल्लभया सपद्मकरयाऽऽश्लिष्टो ज्वलद्भूषया विश्वोत्पत्तिविपत्तिसंस्थितिकरो विघ्नेश इष्टार्थदः ॥ लमित्यादि पञ्चपूजा - लं पृथिव्यात्मकं गन्धं समर्पयामि । हं आकाशात्मकं पुष्पं समर्पयामि । यं वाय्वात्मकं धूपमाघ्रापयामि । रं अग्न्यात्मकं दीपं दर्शयामि । वं अमृतात्मकं अमृतोपहारं निवेदयामि । मूलमन्त्रः -ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा । (१०८ -३३६ वारं जपः) हृदयादिन्यासः । भूर्भुवस्सुवरों (दिग्विमोकः ।) ध्यानम् । लमित्यादि पञ्चपूजा । गुह्यातिगुह्यतोप्ता त्वं गृहाणात्मकृतं जपम् । सिद्धिर्भवतु देवेश त्वत्प्रसादान्मयि स्थिरा ॥ इति देवस्य वामहस्ते जपं समर्पयेत् । मातङ्गीध्यानं ॐ ऐं ह्रीं श्रीं ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ॐ नमो भगवति राजमातङ्गीश्वरि सर्वमुखरञ्जनि क्लीं ह्रीं श्रीं सर्वराजवशङ्करि सर्वस्त्रीपुरुषवशङ्करि सर्वदुष्टमृगवशङ्करि सर्वसत्त्ववशङ्करि सर्वलोकवशङ्करि त्रैलोक्यं मे वशमानय स्वाहा । सौः क्लीं ऐं । श्रीं ह्रीं ऐं ॐ नमः ह्रीं ॐ (९) ---- श्रीश्रीविद्यागणेशमन्त्रजपः अस्य श्रीश्रीविद्यागणेशमहामन्त्रस्य । गणकः ऋषिः । देवीगायत्रीनिचृद्गायत्री- त्रिष्टुभनुष्टुब्जगत्यश्छन्दांसि । श्रीविद्यागणेशो देवता । ह्रीं बीजम् । श्रीं शक्तिः । क्लिं कीलकम् । श्रीविद्यागणेशप्रीत्यर्थे जपे विनियोगः । ॐ ह्रीं श्रीं ऐं क्लीं सौः ह्रीं सर्वज्ञायै ह्रां गां ब्रह्मात्मने अङ्गुष्ठाभ्यां नमः । ७ नित्यतृप्तायै ह्रीं गीं विष्णवात्मने तर्जनीभ्यां नमः । ७ अनादिबोधायै ह्रूं गूं रुद्रात्मने मध्यमाभ्यां नमः । ७ सर्वस्वतन्त्रायै ह्रैं गैं ईश्वरात्मने अनामिकाभ्यां नमः । ७ नित्यमलुप्तशक्तये ह्रैं गैं सदाशिवात्मने कनिष्ठिकाभ्यां नमः । ७ अनन्तायै ह्रः गः सर्वात्मने करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः । (७ -ओं ह्रीं श्रीं ऐं क्लीं सौः ह्रीं इत्यस्य सङ्केतः ।) भूर्भुवस्सुवरों (दिग्बन्धः) । ध्यानं - द्वाभ्यां विभ्राजमानं धृतकलशमहाश‍ृङ्खलाभ्यां भुजाभ्यां बीजापूरादि बिभ्रद्दशभुजमरुणं नागभूषं त्रिणेत्रम् । सन्ध्या सिन्दूरवर्णं स्तनभरनमितं तुन्दिलं चन्द्रचूडं कण्ठादूर्ध्वं करीन्द्रं युवतिमयमधो नौमि विद्यागणेशम् ॥ लमित्यादि पञ्चपूजा । मूलमन्त्रः -ओं श्रीं ह्रीं क्लीं ग्लौं गं ऐं कएईलह्रीं तत्सवितुर्वरेण्यं गणपतये क्लीं हसकहलह्रीं भर्गो देवस्य धीमहि वरवरद सौः सकलह्रीं श्रीं धियो यो नः प्रचोदयात् । सर्वजनं मे वशमानय स्वाहा । (१०८-३३६ वारं) हृदयादिन्यासः । भूर्भुवस्सुवरोँ (दिग्विमोकः) । ध्यानम् । लमित्याद् पञ्चपूजा । जपसमर्पणम् । प्रार्थना - ॐ वक्रतुण्ड महाकाय श्रिया वल्लभया युत । रक्षास्मानस्मदीयांश्च श्रिया भूत्या समेधय ॥ (९) ---- श्रीमहागणपतिध्यानं ॐ तीव्रा - ज्वालिनी - नन्दा - भोगदा - कामदायिनी - उग्रा - तेजोवती - सत्या - विघ्ननाशिनीरूपा सर्वशक्तिकमलाध्यासिन् । धर्माधर्मज्ञानाज्ञान - वैराग्यावैराग्य -ऐश्वर्यानैश्वर्य - पीठाञ्चल - मध्यगत । विनायक - कवीश्वर - विरूपाक्ष - विश्वसिद्ध - ब्रह्मण्य - निधीशाख्य दिव्यौघगुरुस्तुत । गजाधिराज - वरप्रदाख्य सिद्धौघगुरुनुत । विजय - दुर्जय - जय - दुःखारि - सुखावह - परमात्म - सर्वभूतात्म - महानन्द - भालचन्द्र - सद्योजात - बुद्धशूराख्यमानवौघगुरुविनुत । श्रीगुरु - श्रीपरमगुरु - श्रीपरमेष्ठिगुरुवन्दित श्रीश्रीपतिगिरिजागिरिजापति - रतिरतिपति - महीमहीपतिपरिवृत महालक्ष्मीमहागणपतिरूप । ऋद्ध्यामोद - समृद्धिप्रमोद - कान्तिसुमुख - मदनावतीदुर्मुख - मदद्रवाऽविघ्न - द्राविणी - विघ्नकर्तृ - वसुधाराशङ्खनिधि - वसुमतीपद्मनिधिभिरावृत । हृदय - शिरः - शिखा - कवच - नेत्रत्रयास्त्रशक्तिसमन्वित । ब्राह्मी - माहेश्वरी - कौमारी - वैष्णवी - वाराही - माहेन्द्री - चामुण्डा - महालक्ष्मीसुसेवित सायुधेन्द्राग्नि - यमनिरृति - वरुणवायु - सोमेशानपरिवृत । दन्त - पाशाङ्कुश - विघ्नपरशु - लड्डुकबीजापूराख्यसप्तमुद्राराध्य । इक्षु - सक्तु - रम्भाफल - चिपिट - तिल - लाज - केल - मोदकाख्याष्टद्रव्यहविः प्रिय । सुमुख । एकदन्त । कपिल । गजकर्णक । लम्बोदर । विकट । विघ्नराज । विनायक । धूम्रकेतो । गणाध्यक्ष । भालचन्द्र । गजानन । वक्रतुण्डा । शूर्पकर्ण । हेरम्ब । स्कन्दपुर्वज । गणञ्जय । गणापते । हेरम्ब । धरणिधर । महागणपते । लक्षप्रद । क्षिप्रप्रसादन । अमोघसिद्धे । अमित । मन्त्र । चिन्तामणे । निधे । सुमङ्गल । बीज । आशापूरक । वरद । शिव । काश्यपनन्दन । वाचासिद्ध । ढुण्ढिविनायक । क्षिप्रक्षेमकर । क्षेमानन्द । क्षोणीसुरद्रुम । धर्मप्रद । अर्थद । कामदातः । सौभाग्यवर्धन । विद्याप्रद । विभावद । भुक्तिमुक्तिफलप्रद । आभिरूप्यकर । वीरश्रीप्रद । विजयप्रद । सर्ववश्यकर । गर्भदोषहन् । पुत्रपौत्रद । मेधाद । शोकहारिन् । दौर्भाग्यनाशन । प्रतिवादिमुखस्तम्भ । रुष्टचित्तप्रसादन । पराभिचारशमन दुःखभञ्जनकारक । ओङ्कारवाच्य । श्रीहृदय । हृल्लेखामन्त्रमध्यग । क्लीङ्कार । ग्लौम्बीज । गङ्गणेश्वर । गणक्रीड । नन्दिप्रिय । परमात्मन् । तत्त्वानां परमतत्त्व । एकदन्त । वरेण्य । रत्नगर्भ । वराहरदन । रसप्रिय । दन्तप्रभिन्नाभ्रमाल । सर्वज्ञ । वक्रतुण्ड । जगदीशनन्दन । मेघनाद । वनमालिन् । शतानन्द । मातुलिङ्गधर । नवाधारनिकेतन । यशस्कर । स्वाहाशक्ते । बीजापूरगदेक्षुकार्मुक - रुजाचक्राब्जपाशोत्पल व्रीह्यग्र -स्वविषाणरत्नकलशप्रोद्यत्कराम्भोरुह । ज्वलद्भूषया सपद्मकरया वल्लभयाऽऽश्लिष्ट । विश्वोत्पत्ति - विपत्ति - संस्थिकर । विघ्नेश । इष्टार्थद । श्रीमहागणपते । स्वामिन् । जय विजयी भव । नमस्ते नमस्ते नमः । ---- शक्तिपञ्चाक्षरीमन्त्रजपः अस्य श्रीशक्तिपञ्चाक्षरीमहामन्त्रस्य । वामदेव ऋषिः । अनुष्टुप् छन्दः । साम्बपरमेश्वरो देवता । ह्रीं बीजम् । नमः शक्तिः । शिवाय कीलकम् । साम्बपरमेश्वरप्रीत्यर्थे जपे विनियोगः । करन्यासः - ॐ ह्रां सर्वज्ञशक्तिधाम्ने अङ्गुष्ठाभ्यां नमः । नं ह्रीं नित्यतृप्तशक्तिधाम्ने तर्जनीभ्यां नमः । मं ह्रूं अनादिबोधशक्तिधाम्ने मध्यमाभ्यां नमः । शिं ह्रैं सर्वस्वतन्त्रशक्तिधाम्ने अनामिकाभ्यां नमः । वां ह्रौं नित्यमलुप्तशक्तिधाम्ने कनिष्ठिकाभ्यां नमः । यं ह्रः अनन्तशक्तिधाम्ने करतलकरपृष्ठाभ्यां नमः ॥ हृदयादिन्यासः - ॐ ह्रां सर्वज्ञशक्तिधाम्ने हृदयाय नमः । नं ह्रीं नित्यतृप्तशक्तिधाम्ने शिरसे स्वाहा । मं ह्रूं अनादिबोधशक्तिधाम्ने शिखायै वषट् । शिं ह्रैं सर्वस्वतन्त्रशक्तिधाम्ने कवचाय हुम् । वां ह्रौं नित्यमलुप्तशक्तिधाम्ने नेत्रत्रयाय वौषट् । यं ह्रः अनन्तशक्तिधाम्ने अस्त्राय फट् । भूर्भुवस्सुवरोम् । (दिग्बन्धः) ध्यानम्- मूले कल्पद्रुमस्य द्रुतकनकनिभं चारु पद्मासनस्थं वामाङ्कारूढगौरीनिबिडकुचभराभोगगाढोपगूढम् । नानालङ्कारकान्तं वरपरशुमृगाभीतिहस्तं त्रिणेत्रं वन्दे बालेन्दुमौलिं गजवदनगुहाश्लिष्टपार्श्वं महेशम् । लमित्यादिपञ्चपूजा । मूलमन्त्रः -ओं ह्रीं नमः शिवायै ह्रीं नमः शिवाय (१०८ -३३६) हृदयादिन्यासः । भूर्भुवस्सुवरों (दिग्विमोकः) । ध्यानम् । लमित्यादिपञ्चपूजा । गुह्यातिगुह्यगोप्ता त्वं गृहाणात्मकृतं जपम् । सिद्धिर्भवतु देवेश त्वत्प्रसादान्मयि स्थिरा ॥ इति जपं देवस्य वामहस्ते समर्पयेत् । ---- श्रीविद्याषोडशीमन्त्रजपः ॐ श्रीं ह्रीं क्लीं ग्लौं ग्लः हंसहंसोऽहं गणपतये स्वाहा । (१२) ॐ श्रीं ह्रीं क्लीं औं सौः शरहणभव - रहणभवश - हणभवशर - णभवशरह -भवशरहण -वशरहणभ श्रीशरवणभवाय नमः । (१२) ॐ नमो भगवते दक्षिणामूर्तये मह्यं मेधां प्रज्ञानं ब्रह्म प्रयच्छ स्वाहा । (१२) अस्य श्री महात्रिपुरसुन्दरीमहामन्त्रस्य । दक्षिणामूर्तिः ऋषिः । पङ्क्तिः छन्दः । श्रीमहात्रिपुरसुन्दरी देवता । ऐं बीजम् । सौः शक्तिः क्लीं कीलकम् । परब्रह्मानुसन्धानसिद्ध्यर्थे जपे विनियोगः । करन्यासः - ॐ ह्रीं श्रीं अं मध्यमाभ्यां नमः । ॐ ह्रीं श्रीं आं अनामिकाभ्यां नमः । ॐ ह्रीं श्रीं सौः कनिष्ठिकाभ्यां नमः । ॐ ह्रीं श्रीं अं अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं श्रीं आं तर्जनीभ्यां नमः । ॐ ह्रीं श्रीं सौः करतलकरपृष्ठाभ्यां नमः । चतुरासनन्यासः - ॐ ह्रीं श्रीं ऐं क्लीं सौः देव्यासनाय नमः (पादयोः) । ॐ ह्रीं ऐं क्लीं सौः चक्रासनाय नमः (जङ्घयोः) । ॐ ह्रीं श्रीं ऐं क्लीं सौः सर्वमन्त्रासनाय नमः (जान्वोः) । ॐ ह्रीं श्रीं क्लीं ब्लें साध्यसिद्धासनाय नमः (लिङ्गे) । हृदयादिन्यासः - ॐ ह्रीं क्लीं ऐं सौः हृदयाय नमः । ॐ ह्रीं श्रीं शिरसे स्वाहा । क ए ई ल ह्रीं शिखायै वषाट् । हसकहलह्रीं कवचाय हुम् । सकलह्रीं नेत्रत्रयाय वौषट् । सौः ऐं क्लीं ह्रीं श्रीं अस्त्राय फट् । भूर्भुवस्सुवरों (दिग्बन्धः-) । ध्यानं बालार्कायुततेजसं त्रिनयनां रक्ताम्बरोल्लासिनीं नानालङ्कृतिराजमानवपुषं बालोडुराट् शेखराम् । हस्तैरिक्षुधनुः सृणीं सुमशरं पाशं मुदा बिभ्रतीं श्रीचक्रस्थितसुन्दरीं त्रिजगतामाधारभूतां भजे ॥ लमित्यादिपञ्चपूजा । मूलमन्त्रः - कएईलह्रीं हसकहलह्रीं सकलह्रीं श्रीं (१०८ -३३६) हृदयादिन्यासः । ध्यानम् । भूर्भुवस्सुवरों (दिग्विमोकः ।) लमित्यादिपञ्चपूजा । गुह्यातिगुह्यगोप्त्री त्वं गृहाणात्मकृतं जपम् । सिद्धिर्भवतु देवेशि त्वत्प्रसादान्मयि स्थिरा ॥ देव्या वामहस्ते जपं समर्पयेत् । दक्षिणामूर्ति मूलमन्त्रः - ॐ नमो भगवते श्रीदक्षिणामूर्तये मह्यं मेधां प्रज्ञानं ब्रह्म प्रयच्छ स्वाहा । (१२) ---- पञ्चाक्षरीकामकलाबालामन्त्र जपः ध्यानं- ह्रीङ्कारासनगर्भितानलशिखां शौक्लीं कलां बिभ्रतीं सौवर्णाम्बरधारिणीं वरसुधाधौतान्तरङ्गां शिवाम् । वन्दे पुस्तकमङ्कुशं जपवटीं पाशं मुदा बिभ्रतीं त्वां बालां त्रिपुरां परात्परकलां षट्चक्रसञ्चारिणीम् ॥ मूलमन्त्रः -ओं ईं ईं नमः । (१०८ वारं) श्रीबालामन्त्रशापोद्धारः (गुरोर्लब्धमन्त्रोपदेशः गुरोराज्ञया मन्त्रसिद्ध्यै क्रमानेताननुसरेत् प्रथमतः ।) १. शापोद्धारः -ओं ऐं ऐं सौः । क्लीं क्लीं ऐं । सौः सौः क्लीं इति शतवारं जपेत् । २. उत्कीलनं -ओं क्लीं नमः इति शतवारं जपेत् । ३. दीपनं -ओं ऐं वद वद वाग्वादिनि । क्लीं क्लिन्ने क्लेदिनि महाक्षोभं कुरु । ॐ सौः मोक्षं कुरु इति शतवारं जपेत् । ४. प्रसादनं -ओं ऐं वद वद वाग्वादिनि ऐं क्लीं क्लिन्ने क्लेदय क्लेदय । क्षोभिणि क्षोभय । ऐं क्लीं सौः वैखरीं वर्धय वर्धय इति शतवारं जपेत् । ५. आह्लादनं -ओं क्लीं नमः (१०८) ६. पुरश्चरणं -अक्षरलक्षं जपः । तद्दशांशहोमः । तद्दशांशतर्पणम् । तद्दशांशब्राह्मणभोजनमित्यादौ गुरोरादेशः प्रमाणम् । ---- श्रीत्र्यक्षरी बालामन्त्रजपः अस्य श्रीबालात्रिपुरसुन्दरीमहामन्त्रस्य दक्षिणामूर्तिः ऋषिः (शिरसि) । पङ्क्तिश्छन्दः (मुखे) श्रीबालात्रिपुरसुन्दरी देवता (हृदि) ऐं बीजं (गुह्ये । उरसो दक्षिणे भागे वा) । सौः शक्तिः (पादयोः उरसो वामे भागे वा) । क्लीं कीलकं (नाभौ हृन्मध्ये वा) । श्रीबालात्रिपुरसुन्दरीप्रीत्यर्थे जपे (पूजायां) विनियोगः । करन्यासः - ऐं अङ्गुष्ठाभ्यां नमः । क्लीं तर्जनीभ्यां नमः । सौः मध्यमाभ्यां नमः । ऐं अनामिकाभ्यां नमः । क्लीं कनिष्ठिकाभ्यां नमः । सौः करतलकरपृष्ठाभ्यां नमः । हृदयादिन्यासः - ऐं हृदयाय नमः । क्लीं शिरसे स्वाहा । सौः शिखायै वषट् । ऐं कवचाय हुम् । क्लीं नेत्रत्रयाय वौषट् । सौः अस्त्राय फट् । भूर्भुवस्सुवरों (दिग्बन्धः ।) ध्यानम् - अरुणकिरणजालैः रञ्जिताशावकाशा विधृतजपवटीकापुस्तकाभीतिहस्ता । इतरवरकराढ्या फुल्लकल्हारसंस्था निवसतु हृदि बाला नित्यकल्याणशीला ॥ लमित्यादि पञ्च पूजाः - लं पृथिव्यात्मिकायै गन्धं समर्पयामि । हं आकाशात्मिकायै पुष्पाणि समर्पयामि । यं वाय्वात्मिकायै धूपमाघ्रापयामि । रं अग्न्यात्मिकायै दीपं दर्शयामि । वं अमृतात्मिकायै अमृतोपहारं निवेदयामि । (सर्वत्र ब्रह्मप्रणवयोजना यथागुरूपदेशम् ।) मूलमन्त्रः - ॐ ऐं क्लीं सौः (१०८-३३६-१००८ वारं यथाशक्ति) पुनः हृदयादिन्यासः । भूर्भुवस्सुवरों (दिग्विमोकः) ध्यानम् । लमित्यादि पञ्च पूजा । जपसमर्पणम् - गुह्यातिगुह्यगोप्त्री त्वं गृहाणात्मकृतं जपम् । सिद्धिर्भवतु देवेशि त्वत्प्रसादान्मयि स्थिरा ॥ इति देव्या वामकरे जपं समर्पयेत् । (कराङ्गन्यासेषु विशेषः - आं सौः क्लीं ऐं अङ्गुष्ठाभ्याण् नमः । ईं सौः क्लीं ऐं तर्जनीभ्यां नमः । ऊं सौः क्लीं ऐं मध्यमाभ्यां नमः । ऐं सौः क्लीं ऐं अनामिकाभ्यां नमः । औं सौः क्लीं ऐं कनिष्ठिकाभ्यां नमः । अः सौः क्लीं ऐं करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः । ध्याने विशेषः - रक्ताम्बरां चन्द्रकलावतंसां समुद्यदादित्यनिभां त्रिणेत्राम् । विद्याक्षमालाभयदानहस्तां ध्यायामि बालामरुणाम्बुजस्थाम् ॥ इत्यपि) ---- बालाषडक्षरीमहामन्त्रजपः - अस्य श्रीबालात्रिपुरसुन्दरीमहामन्त्रस्य दक्षिणामूर्तिः ऋषिः । अनुष्टुप्छन्दः । श्रीबालात्रिपुरसुन्दरी देवता । ॐ ऐं बीजम् । ॐ सौः शक्तिः । ॐ क्लीं कीलकम् । श्रीबालात्रिपुरसुन्दरी प्रसादसिद्ध्यर्थे जपे (पूजायां) विनियोगः । ॐ ऐं ह्रीं श्रीं ऐं नमः (शिरसि) । ॐ ऐं ह्रीं श्रीं क्लीं नमः (मुखे) । ॐ ऐं ह्रीं श्रीं सौः नमः (भ्रूमध्ये) । ॐ ऐं ह्रीं श्रीं सौः नमः (दक्षनेत्रे) । ॐ ऐं ह्रीं श्रीं क्लीं नमः (वामनेत्रे) । ॐ ऐं ह्रीं श्रीं ऐं नमः (हृदि) । ॐ ऐं ह्रीं श्रीं ऐं नमः (दक्षश्रोत्रे) । ॐ ऐं ह्रीं श्रीं क्लीं नमः (वामश्रोत्रे) । ॐ ऐं ह्रीं श्रीं सौः नमः (नाभौ) । ॐ ऐं ह्रीं श्रीं सौः नमः (दक्षभुजे) । ॐ ऐं ह्रीं श्रीं क्लिं नमः (वामभुजे) । ॐ ऐं ह्रीं श्रीं ऐं नमः (पृष्ठे) । ॐ ऐं ह्रीं श्रीं ऐं नमः (दक्षजानुनि) । ॐ ऐं श्रीं क्लीं नमः (वामजानुनि) । ॐ ऐं ह्रीं श्रीं सौः नमः (मूलाधारे) ऐं नमः (नाभ्यादिपादान्तम्) । क्लीं नमः (हृदयादिनाभ्यन्तम्) । सौः नमः (मूर्धादिहृदयान्तम्) । ऐं नमः (वामकरे) । क्लीं नमः (दक्षिणकरे) । सौः नमः (करयोः) । ४ ऐं (पादयोः) ४ क्लीं (जान्वोः) । ४. सौः (कट्याम् ।) ४ सौः (नाभौ) । ४ क्लीं (कुक्षौ) । ४ ऐं (हृदये) । ४ ऐं (कण्ठे) ४ क्लीं (मुखे) । ४ सौः (ललाटे) ४ सौः (ब्रह्मरन्ध्रे) । ४ क्लीं (दक्षिणपार्श्वे) । ४ ऐं वामपाश्वे । ऐं नमः (मूर्ध्नि) । क्लीं नमः (गुह्ये) । सौः नमः (वक्षसि) । ऐं रत्यै नमः । (गुह्ये) । सौः प्रीत्यै नमः (हृदि) । क्लीं विजयायै (मनोभवायै) नमः (भ्रूमध्ये) । ऐं अमृतेश्यै नमः (गुह्ये) । सौः योगेश्यै नमः (हृदि) । क्लीं विश्वयोन्यै नमः (भ्रूमध्ये) । ह्रीं मनोभवाय नमः (शिरसि) । क्लीं मकरध्वजाय नमः (मुखे) । ऐं कन्दर्पाय नमः (हृदि) । ब्लूं मन्मथाय नमः (गुह्ये) । स्त्रीं कामदेवाय नमः । (चरणयोः) । द्रां द्राविण्यै नमः (शिरसि) । द्रीं क्षोभिण्यै नमः (पादयोः) । क्लीं वशीकरण्यै नमः (मुखे) । ब्लूं आकर्षिण्यै नमः (गुह्ये) । स्त्रीं सम्मोहिन्यै नमः (हृदि) । चतुरासनन्यासः ॐ ऐं ह्रीं श्रीं ह्रीं क्लीं सौः देव्यात्मासनाय नमः (पादयोः) ॐ ऐं ह्रीं श्रीं हैं ह्क्लीं ह्सौः श्रीचक्रासनाय नमः । (जान्वोः) । ॐ ऐं ह्रीं श्रीं ह्सैं ह्स्क्लीं ह्स्सौः सर्वमन्त्रासनाय नमः । (ऊरुमूले) ॐ ऐं ह्रीं श्रीं ह्रीं क्लीं ब्लें साध्यसिद्धासनाय नमः । (मूलाधारे) करशुद्धिन्यासः - ॐ ऐं ह्रीं श्रीं अं नमः (दक्षकरतले) । ॐ ऐं ह्रीं श्रीं आं नमः (दक्षकरपृष्ठे) । ॐ ऐं ह्रीं श्रीं सौः नमः (तत्पार्श्वयोः) । ॐ ऐं ह्रीं श्रीं अं नमः (वामकरतले) । ॐ ऐं ह्रीं श्रीं आं नमः (वामकरपृष्ठे) । ॐ ऐं ह्रीं श्रीं सौः नमः (तत्पार्श्वयोः) । ॐ ऐं ह्रीं श्रीं अं नमः (मध्यमाङ्गुल्योः) । ॐ ऐं ह्रीं श्रीं आं नमः (अनामिकयोः) । ॐ ऐं ह्रीं श्रीं सौः नमः (कनिष्ठिकयोः) । ॐ ऐं ह्रीं श्रीं अं नमः (अङ्गुष्ठयोः) । ॐ ऐं ह्रीं श्रीं आं नमः (तर्जन्योः) । ॐ ऐं ह्रीं श्रीं सौः नमः (करतलकरपृष्ठयोः) । ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः बाले त्रिपुरसुन्दरि मां रक्ष रक्ष (हृदये) करन्यासः - ॐ ऐं अङ्गुष्ठाभ्यां नमः । ॐ क्लीं तर्जनीभ्यां नमः । ॐ सौः मध्यमाभ्यां नमः । ॐ ऐं अनामिकाभ्यां नमः । ॐ क्लीं कनिष्ठिकाभ्यां नमः । ॐ सौः करतलकरपृष्ठाभ्यां नमः । हृदयादिन्यासः - ॐ ऐं हृदयाय नमः । ॐ क्लीं शिरसे स्वाहा । ॐ सौः शिखायै वषट् । ॐ ऐं कवचाय हुम् । ॐ क्लीं नेत्रत्रयाय वौषट् । ॐ सौः अस्त्राय फट् । भूर्भुवस्सुवरों (दिग्बन्धः) । ध्यानं अरुणकिरणजालैः रञ्जिताशावकाशा विधृतजपवटीका पुस्तकाभीतिहस्ता । इतरवरकराढ्या फुल्लकल्हारसंस्था निवसति हृदि बाला नित्यकल्याणशीला ॥ लमित्यादिपञ्च पूजा । मूलमन्त्रः -ओं ऐं क्लीं सौः सौः क्लीं ऐम् । (१०८ -३३६ -वारं) हृदयादिन्यासः । भूर्भुवस्सुवरों (दिग्विमोकः) । ध्यानम् । लमित्यादि पञ्चपूजा । गुह्यातिगुह्यगोप्त्री त्वं गृहाणात्मकृतं जपम् । सिद्धिर्भवतु देवेशि त्वत्प्रसादान्मयि स्थिरा ॥ इति देव्या वामहस्ते जपं समर्पयेत् ॥ (ऐं सौः क्लीं इति शत्रुनाशाय । क्लीं ऐं सौः इति वशीकरणाय । क्लीं सौः ऐं इति मुक्त्यै जपः करणीय इति मन्त्र विदः केचित् । मूले उक्तक्रमेण जपात्सर्वसिद्धिरिति तत्त्वविदः ।) (जपे विशेषः -जपाङ्गत्वेन पूजा लमित्यादिना निर्वर्त्यते । पूजाङ्गत्वेन जपे क्रियमाणे मूलमन्त्रजपानन्तरं हृदयादिन्यासाद्युत्तराङ्गं अनुपदं न क्रियते । मूलमन्त्रजपानन्तरं मूलेन देवतामावाह्य बाह्यापूजां समाप्य अन्ते हृदयादिन्यासं दिग्बन्धं ध्यानं लमित्यादि पूजां च कृत्वा देव्यै जपं समर्पयेत् ।) ---- ध्यानं आवाहनं च अरुणकिरणजालै रञ्जिताशावकाशा विधृतजपवटीका पुस्तकाभीतिहस्ता । इतरवरकराढ्या फुल्लकल्हारसंस्था निवसति हृदि बाला नित्यकल्याणशीला ॥ आमूलाधारात् आब्रह्मबिलं विलसन्तीं बिसतन्तुतनीयसीं परचितिमम्बां ध्यायामि । तत्तेजसि सावरणदेवतां बालां अम्बां क्रमेणाविर्भवन्तीं पश्यामि । तच्चरणयोरग्रे पुष्पपूरिताञ्जलिं सपर्योद्युक्तं आत्मानं भावयामि ॥ अकुलेन्दुगलितामृतधारारूपिणीः सर्वावयवसुन्दरीः पञ्चभूताधिदेवताः देव्यग्रे पञ्चोपचारान् समर्पयन्तीः भावये । लम्बीजा पृथिवी गन्धं समर्पयति । हं बीजः आकाशः पुष्पाणि समर्पयति । यं बीजो वायुः धूपमाघ्रापयति । रं बीजोऽग्निः दीपं दर्शयति । वं बीजो वरुणः अमृतोपहारं निवेदयति । सर्वा एता देवताः दिव्यङ्गेषु निलीनाः । अहमपि देवीपादारविन्दमूले निलीनः । सर्वं ज्योतिर्मयं चिन्मयं विभाति । तेजोरूपेण परिणतां देवीं परचिद्रूपां सुषुम्नापथेन उद्गतां विनिर्भिन्नविधिबिलविलसदमल- सहस्रदलकमलमागतां नासापुटेन निर्गच्छन्तीं त्रिखण्डमुद्रामण्डितशिखण्डे कुसुमगर्भिते अञ्जलौ समानीय पूजाविग्रहे समायोजयामि । ---- प्राणप्रतिष्ठा अस्य श्रीप्राणप्रतिष्ठामहामन्त्रस्य । ब्रह्मविष्णुमहेश्वराः ऋषयः । ऋग्यजुःसामाथर्वाणि छन्दांसि । प्राणशक्तिः परा देवता । आं बीजम् । ह्रीं शक्तिः क्रों कीलकम् । प्राणप्रतिष्ठार्थे विनियोगः । आं ह्रीं क्रों इति द्विरावृत्त्या करहृदयादिन्यासः । भूर्भुवस्सुवरों (दिग्बन्धः) ध्यानम्- रक्ताम्भोधिस्थपोतोल्लसदरुणसरोजाधिरूढा कराब्जैः पाशं कोदण्डमिक्षूद्भवमथ गुणमप्यङ्कुशं पञ्चबाणान् । बिभ्राणाऽसृक्कपालं त्रिनयनलसिता पीनवक्षोरुहाढ्या देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः परा नः ॥ लमित्यादि पञ्च पूजा । ॐ आं ह्रीं क्रों यं रं लं वं शं षं सं हं ॐ । हंसः सोऽहं सोऽहं हंसः शिवः । बालाम्बायाः सपरिवारायाः प्राण इह प्राणः । जीव इह स्थितः । सर्वेन्द्रियाणि वाङ्मनश्चक्षुःश्रोत्रजिह्वाघ्राणप्राणापानव्यानोदानसमाना इहैवागत्य चिरं सुखं तिष्ठन्तु स्वाहा । सान्निध्यं कुर्वन्तु स्वाहा । आं ह्रीं क्रों क्रों ह्रीं आं (४० वारं) । प्राणशक्त्यै नमः । (धूपदीपनैवेद्यानि । योनिमुद्रया प्रणमेत् ।) १० आवाहिता भव । १० स्थापिता भव । १० सन्निहिता भव । १० अवकुण्ठिता भाव । १० देवि प्रसीद प्रसीद । (१० -ओं ऐं ह्रीं श्रीं ऐं क्लीं सौः सौः क्लीं ऐम् ।) देवि सर्वजगन्नाथे यावद्बिम्बावसानकम् । तावत्त्वं प्रीतिभावेन बिम्बेऽस्मिन् सन्निधिं कुरु ॥ कामेशाङ्कनिवासिन्याः कामेश्या अङ्कमास्थिता । मम भाग्यवशाद्बाला सन्निधत्से चिदाकृतिः ॥ कामेश्वर्यङ्कनिलयां तरुणारुणसन्निभाम् । अक्षस्रक्पुस्तकाभीतिवरदानलसत्कराम् ॥ फुल्लकल्हारमध्यस्थां मन्दस्मितमुखीं शिवाम् । कौसुम्बाम्बरसञ्छन्नपूगस्तनमनोहराम् ॥ काश्मीरकर्दमालिप्ततनुच्छायाविराजिताम् । देवीसमानाकृतिकां दिव्याभरणभूषिताम् ॥ बिन्दुत्रिकोणषट्कोणवृत्ताष्टदलयुग्मकैः । भूपुराभ्यां च संयुक्ते चिच्चक्रे सुखमास्थिताम् । देवीं प्रणौमि बालां त्वां नित्यकल्याणरूपिणीम् ॥ ---- निर्गुणमानसपूजा १. पराभावनास्तोत्रम्- ध्यायामि कथमिव त्वां धीवर्त्मविदूरदिव्यमहिमवतीम् । आवाहनं विभोस्ते देवेशि कथं कुतः स्थानात् ॥ १॥ कियदासनं प्रकल्प्यं कृतासनायाश्च सर्वतोऽपि शिवे । पाद्यं कुतोऽर्घ्यमपि वाऽऽपाद्यं सर्वत्रपाणिपादायाः ॥ २॥ आचमनं ते स्यादपि भगवति ननु सर्वतोमुखीनायाः । मधुपर्को वा कथमिह मधुवैरिणि दर्शितप्रसादायाः ॥ ३॥ स्नानेन किं विधेयं सलिलकृतेनेह नित्यशुद्धायाः । वस्त्रेणापि न कार्यं कार्पासीयेन हेमवस्त्रायाः ॥ ४॥ हैमैराभरणैर्वा चमत्कृतिः का हिरण्यवर्णायाः । रत्नाचलवासिन्याः चिन्तामणिगेहगायास्ते ॥ ५॥ गन्धवती हि तनुस्ते गन्धाः किं नेशि पौनरुक्त्याय । पुष्करफलदानोत्कां पुष्करकुसुमेन पूजये किं त्वाम् ॥ ६॥ शमधनमूलधनं त्वं सकलेश्वरी भवसि धूपिता केन । दीपः कथं शिखावान् दीप्येत पुरः स्वयम्प्रकाशायाः ॥ ७॥ अमृतात्मकं निवेदितमशनं किं नाम नित्यतृप्तायाः । त्वय्याम्रेडितमेतत्ताम्बूलं यदिह सुमुखरागायाः ॥ ८॥ उपहारीभूयादिदमुमेऽद्य यन्मे विचेष्टितमशेषम् । नीराजयामि विद्युन्निभां कथं वा चिदाभासाम् ॥ ९॥ पुष्पाञ्जलिः कुतस्ते मूलप्रकृतिस्वरूपायाः । छत्रं नभोऽतिगायाः चामरमप्यविदितश्रमायास्ते ॥ १०॥ नृत्यं प्रथतां कथमिव चित्रं भायान्महानटपुरन्घ्र्याः । गीतं किं कलभाषणजितवाणीमधुरवीणायाः ॥ ११॥ वाद्यं डमरुभृदीशे वादयितुं तव पुरोऽस्ति का शक्तिः । अपरिच्छिन्नायास्ते जगदीश्वरि कः प्रदक्षिणविधिर्वा ॥ १२॥ स्युस्ते नमांसि कथमिव शङ्करि परितोऽपि विद्यमानायाः । वाचामगोचरीं त्वां वाचः प्रसरैः प्रसादयेयं वा ॥ १३॥ कस्मै वच्मि दशां मे कस्येदुग्घृदयमस्ति शक्तिर्वा । कस्य बलं चोद्धर्तुं क्लेशात्त्वामन्तरा दयासिन्धो ॥ १४॥ याचे नाभिनवं ते चन्द्रापीडे मदम्ब किञ्चिदपि । मह्यं प्रदेहि भगवति मदीयमेव स्वरूपमानन्दम् ॥ १५॥ भगवति बालतया वाऽभक्त्या वाप्यापदाकुलितया वा । मोहाविष्टतया वा मास्तु च ते मनसि यद्दुरुक्तं मे ॥ १६॥ ---- आवरणदेवतासहित श्रीबालाध्यानं ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः नमो भगवति बाले त्रिपुरसुन्दरि इन्द्राग्नियमनिरृतिवरुणवायु - कुबेरेशानशक्तिभिः सेविते सर्वाशापरिपूरकचक्रस्वामिनि । अनङ्गकुसुमानङ्गमेखलानङ्गमदनानङ्गमदनातुरानङ्ग- रेखानङ्गवेगिन्यनङ्गाङ्कुशानङ्गमालिनीभिः वशिनी-कामेश्वरी- मोदिनी-विमलारुणा-जयिनी-सर्वेश्वरी-कौलिनीभिश्च परिवृते सर्वसौभाग्यदायकचक्रेशि । ब्राह्मी-माहेश्वरी-कौमारी- वैष्णवी-वाराही-माहेन्द्री-चामुण्डी-महालक्ष्म्याख्यमातृभिः असिताङ्ग-रुरु-चण्ड-क्रोधोन्मत्त-कपालभीषण- संहाराख्यभैरवैश्चोपासिते । सर्वार्थसाधकचक्रेशि । साकिनी- राकिणी-लाकिनी-काकिनी-डाकिनी-हाकिनी-याकिन्याख्ययोगिनीसंस्तुते सर्वरक्षाकरचक्रेशि । रतिप्रीति-विजयाख्यशक्तिभिः गुरु-परमगुरु - परमेष्ठिगुरुभिश्च पूजिते । सर्वसिद्धिप्रदचक्रेशि । हृदय-शिरस्शिखा-कवचनेत्रत्रयास्त्रशक्तिगुप्ते । सर्वानन्दमयचक्राधिष्ठात्रि । श्रीशिवकामेश्वराङ्कस्थे कामेश्वर्यङ्कवासिनि । धृतवरदाभयमुद्रे पुस्तकजपमालाहस्ते अरुणे कल्हारसंस्थे श्रीबाले त्रिपुरसुन्दरि । परे भट्टारिके नमस्ते नमस्ते नमस्ते नमः सौः क्लीं ऐं श्रीं ह्रीं ऐम् । ---- त्रिशताक्षरी ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः सौः क्लीं ऐं नमो बाले त्रिपुरसुन्दरि । हृदयदेवि । शिरोदेवि । शिखादेवि । कवचदेवि । नेत्रदेवि । अस्त्रदेवि । इन्द्रशक्ते । अग्निशक्ते । यमशक्ते । निरृतिशक्ते । वरुणशक्ते । वायुशक्ते कुबेरशक्ते ईशानशक्ते । वशिनि । कामेश्वरि । मोदिनि । विमले । अरुणे । जयिनि । सर्वेश्वरि । कौलिनि । अनङ्गकुसुमे । अनङ्गमेखले । अनङ्गमदने । अनङ्गमदनातुरे । अनङ्गरेखे । अनङ्गवेगिनि । अनङ्गाङ्कुशे । अनङ्गमालिनि । असिताङ्गभैरव-रुद्रभैरव- चण्डभैरव- क्रोधभैरव-उन्मत्तभैरव-कपालभैरव- भीषणभैरव - संहारभैरवयुते । ब्राह्मि । माहेश्वरि । कौमारि । वैष्णवि । वाराहि । माहेन्द्रि । चामुण्डे । महालक्ष्मि । साकिनि । राकिणि । लाकिनि । काकिनि । डाकिनि । हाकिनि । याकिनि । गुरुमयि । परमगुरुमयि । पामेष्ठिगुरुमयि । रतिदेवि । प्रीतिदेवि । विजयादेवि । सावरणदेवते बाले परे भट्टारिके । नमस्ते नमः सौः क्लीं ऐं ॐ ॥ ---- नामस्मरणपूर्वकस्वरूपध्यानं कल्याणी त्रिपुरा बाला माया त्रिपुरसुन्दरी । सुन्दरी सर्वसौभाग्यवती ह्रीङ्काररूपिणी ॥ १॥ ऐङ्कारी सर्वजननी क्लीङ्कारी परमेश्वरी । सौःकारी सर्वशक्त्याढ्या त्र्यक्षरी दिव्यगन्धिनी ॥ २॥ संविदानन्दलहरी श्रीविद्या त्रिपुरेश्वरी । गुप्ता गुत्पतरा नित्या नित्या षोडशकावृता ॥ ३॥ भक्तानुरक्ता रक्ताङ्गी शिवा सर्वारुणा शुभा । मोहिनी परमानन्दा कामेशी तरुणी कला ॥ ४॥ पद्मावती भगवती पद्मरागकिरीटिनी । रक्तवस्त्रा रक्तभूषा रक्तगन्धानुलेपना ॥ ५॥ सौगन्धिकमिलद्वेणी मन्त्रिणी मन्त्रपुष्पिणी । तत्त्वासना तत्त्वमयी सिद्धान्तःपुरवासिनी ॥ ६॥ श्रीवाणीड्या महादेवी कौलिनी परदेवता । कैवल्यरेखा वशिनी सर्वेशी सर्वमङ्गला ॥ ७॥ नारायणी वेदवेद्या सर्वसम्पत्प्रदा सती । चतुर्भुजा चन्द्रचूडा पुराणागमबोधिता ॥ ८॥ भूतेश्वरी भूतमयी पञ्चाशद्वर्णरूपिणी । सर्वमङ्गलमाङ्गल्या कामाक्षी कामदायिनी ॥ ९॥ किङ्करीभूतगीर्वाणी सुधापानविनोदिनी । आधारवीथीपथिका स्वाधिष्ठानसमाश्रिता ॥ १०॥ मणिपूरसमासीना अनाहतनिवासिनी । विशुद्धिचक्रनिलया आज्ञाचक्रनिवासिनी ॥ ११॥ अष्टत्रिंशत्कलामूर्तिः सुषुम्नागारमध्यगा । योगीश्वरमुनिध्येया परब्रह्मस्वरूपिणी ॥ १२॥ दिक्पालशक्तिसंयुक्ता सर्वाशापरिपूरका । अनङ्गकुसुमादीड्या वाग्देव्यष्टकसंवृता ॥ १३॥ सर्वसौभाग्यदेशानी मात्रष्टकसमावृता । भैरवष्टकसंसेव्या सर्वाभीष्टार्थसाधिका ॥ १४॥ योगिनीषट्कसंसेव्या सर्वरक्षाकराधिपा । रतिप्रीतिविजयाख्यत्रिशक्तिगुरुसेविता ॥ १५॥ सर्वसिद्धिप्रदेशानी सर्वानन्दमयाधिपा । रहःपूजासमालोला बिन्दुस्थलमनोहरा ॥ १६॥ त्रिकोणमध्यनिलया षट्कोणपुरवासिनी । वसुपत्रद्वयावासा भूपुरद्वयमध्यगा ॥ १७॥ शिवकामेश्वराङ्कस्थकामेश्वर्यङ्कवासिनी । कामेश्वरीसमाकारा फुल्लकल्हारमध्यगा ॥ १८॥ पुस्तकाभीतिवरदजपमालालसत्करा । तरुणारुणदेहाभा दिव्याभरणभूषिता ॥ १९॥ बन्धूककुसुमप्रख्या बाललीलाविनोदिनी । काश्मीरकर्दमालिप्ततनुच्छायाविराजिता ॥ २०॥ सपर्याचारनिरतगुरुमण्डलसेविता । चतुर्वर्गप्रदानोत्क नित्यकल्याणरूपिणी ॥ २१॥ एवं ध्याता हृदि सदा पराम्बा बालरूपिणी । देवि ! भाग्यवशादत्र सन्निधत्से चिदाकृतिः ॥ २२॥ ---- सगुणमानसपूजा प्रबोधनं १०. उषसि मागधमङ्गगायनैः झटिति जागृहि जागृहि जागृहि । - (१०. ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः सौः क्लीं ऐं इत्यस्य सङ्केतः) - अतिकृपार्द्रकटाक्षनिरीक्षणैः जगदिदं जगदम्ब सुखीकुरु ॥ मण्डपप्रवेशः १०. कनकमयवितर्दिशोभमानं दिशिदिशि पूर्णसुवर्णकुम्भयुक्तम् । मणीमयमण्डपमध्यमेहि मातः मयि कृपयाशु समर्चनं ग्रहीतुम् ॥ कनकमयवितर्दिस्थापिते तूलिकाढ्ये विविधकुसुमकीर्णे कोटिबालार्कवर्णे । भगवति रमणीये रत्नसिंहासनेऽस्मिन् उपविश पदयुग्मं हेमपीठे निधाय ॥ ---- पाद्यं १०. दूर्वया सरसिजान्वितविष्णुक्रान्तया च सहितं कुसुमाढ्यम् । पद्मयुग्मसदृशे पदयुग्मे पायमेतदुररीकुरु मातः ॥ अर्घ्यं १०. गन्धपुष्पयवसर्षपदूर्वासंयुतं तिलकुशाक्षतमिश्रम् । हेमपात्रनिहितं सहरत्नैः अर्ध्यमेतदुररीकुरु मातः ॥ आचमनं १०. जलजद्युतिना करेण जातीफलतक्कोललवङ्गगन्धमिश्रैः । अमृतैरमृतैरिवातिशीतैः भगवत्याचमनं विधीयताम् ॥ मधुपर्कः १०. निहितं कनकस्य सम्पुटे पिहितं रत्नपिधानकेन यत् । तदिदं जगदम्ब तेऽर्पितं मधुपर्कं जननि प्रगृह्यताम् ॥ स्नानं १०. एतच्चम्पकतैलमम्ब विविधैः पुष्पैर्मुहुर्वासितं न्यस्तं रत्नमये सुवर्णचषके भृङ्गैर्भ्रमद्भिर्वृतम् । सानन्दं सुरसुन्दरीभिरभितो हस्तैर्धृतं ते मया केशेषु भ्रमरभ्रमेषु सकलेष्वङ्गेषु चालिप्यते ॥ मातः कुङ्कुमपङ्कनिर्मितमिदं देहे तवोर्द्वर्तनं भक्त्याहं कलयामि हेमरजस सम्मिश्रितं केसरैः । केशानामलकैर्विशोध्य विशदान्कस्तूरिकोदञ्चितैः स्नानं ते नवरत्नकुम्भसहितैः संवासितोष्णोदकैः ॥ दधिदुग्धघृतैः समाक्षिकैः सितया शर्करया समन्वितैः । स्नपयामि तवाहमादराज्जननि त्वां पुनरुष्णवारिभिः ॥ एलोशीरसुवासितैः सुकुसुमैर्गङ्गादितीर्थोदकैः माणिक्यामलमौक्तिकामृतरसैः स्वच्छैः सुवर्णोदकैः । मन्त्रान्वैदिकतान्त्रिकान्परिपठन् सानन्दमत्यादरात् स्नानं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ॥ वस्त्रधारणं केशप्रसाधनं च १०. बालार्कद्युतिदाडिमीयकुसुमप्रस्पर्धि सर्वोत्तमं मातस्त्वं परिधेहि दिव्यवसनं भाक्त्या मया कल्पितम् । मुक्ताभिर्ग्रथितं सुकञ्चुकमिदं स्वीकृत्य पीतप्रभं तप्तस्वर्णसमानवर्णमतुलं प्रावर्णमङ्गीकुरु ॥ १०. बहुभिरगरुधूपैः सादरं धूपयित्वा भागवति तव केशान्कङ्कतैर्मार्जयित्वा । सुरभिभिररविन्दैश्चम्पकैश्चर्चयित्वा झटिति कनकसूत्रैर्जूटयन्वेष्टयामि ॥ आभरणभूषणं १०. मञ्जीरे पदयोर्निधाय रुचिरां विन्यस्य काञ्चीं कटौ मुक्ताहारमुरोजयोरनुपमां नक्षत्रमालां गले । केयूराणि भुजेषु रत्नवलयश्रेणीं करेषु क्रमात् ताटङ्के तव कर्णयोर्विनिदधे शीर्षे च चूडामणिम् ॥ धम्मिल्ले तव देवि हेमकुसुमान्याधाय फालस्थले मुक्ताराजिविराजमानतिलकं नासापुटे मौक्तिकम् । मातर्मौक्तिकजालिकां च कुचयोः सर्वाङ्गुलीषूर्मिकाः काट्यां काञ्चनकिङ्किणीर्विनिदधे रत्नावतंसं श्रुतौ ॥ गन्धकुङ्कुमाक्षतधारणं (१०) मातः फालतले तवातिविमले काश्मीरकस्तूरिका- कर्पूरागरुभिः करोमि तिलकं देहेऽङ्गरागं ततः । वक्षोजादिषु यक्षकर्दमरसं सिक्त्वा च पुष्पद्रवं पादौ चन्दनलेपनादिभिरहं सम्पूजयामि क्रमात् ॥ (१०) रत्नाक्षतैस्त्वां परिपूजयामि मुक्ताफलैर्वा रुचिरैरविद्धैः । अखण्डितैर्देवि यवादिभिर्वा काश्मीरपङ्काङ्किततण्डुलैर्वा ॥ (१०) सीमन्ते ते भगवति मया सादरं न्यस्तमेतत् सिन्दूरं मे हृदयकमले हर्षवर्षं तनोति । बालादित्यद्युतिरिव सदा लोहिता यस्य कान्तिः अन्तर्ध्वान्तं हरति सकलं चेतसा चिन्तयैव ॥ पुष्पालङ्करणं १०. मन्दाकुन्दकरवीरलवङ्गपुष्पैः त्वां देवि सन्ततमहं परिपूजयामि जातीजपावकुलचम्पककेतकादि - नानाविधानि कुसुमानि च तेऽर्पयामि ॥ मालतीवकुलहेमपुष्पिका काञ्चनारकरवीरकैतकैः । कर्णिकारगिरिकर्णिकादिभिः पूजयामि जगदम्ब ते वपुः ॥ पारिजातशतपत्रपाटलैर्मल्लिकावकुलचम्पकादिभिः । अम्बुजैः सुकुसुमैश्च सादरं पूजयामि जगदम्ब ते वपुः ॥ धूपः १०. लाक्षासम्मिलितैः सिताभ्रसहितैः श्रीवाससम्मिश्रितैः कर्पूराकलितैः शिरैर्मधुयुतैर्गोसर्पिषा लोडितैः । श्रीकण्ठागरुगुग्गुलुप्रभृतिभिर्नानाविधैर्वस्तुभिः धूपं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ॥ दीपः १०. रत्नालङ्कृतहेमपात्रनिहितैर्गोसर्पिषा लोडितैः दीपैर्दीर्घतरान्धकारभिदुरैः बालार्ककोटिप्रभैः । आताम्रज्वलदुज्ज्वलप्रविलसद्रत्नप्रदीपैस्तथा मातस्त्वामहमादरादनुदिनं नीराजयाम्युच्चकैः ॥ निवेदनं १०. मातस्त्वां दधिदुग्धपायसमहाशाल्यन्नसन्तानिका - सूपापूपसिताघृतैः सवटकैः सक्षौद्ररम्भाफलैः । एलाजीरकहिङ्गुनागरनिशाकुस्तुम्भरीसंस्कृतैः शाकैः साकमहं सुधाधिकरसैः सन्तर्पयाम्यर्चयन् ॥ सापूपसूपदधिदुग्धसुधाघृतानि सुस्वादुभक्तपरमान्नपुरस्सराणि । शाकोल्लसन्मरिचजीरक बाह्लिकानि भाक्ष्याणि भुङ्क्ष्व जगदम्ब मयार्पितानि ॥ क्षीरमेतदिदमुत्तमोत्तमं प्राज्यमाज्यमिदुमुज्ज्वलं मधु । मातरेतदमृतोपमं पयः सम्भ्रमेण परिपीयतां मुहुः ॥ उष्णोदकैः पाणियुगं मुखं च प्रक्षाल्य मातः कलधौतपात्रे । कर्पूरमिश्रेण सकुङ्कुमेन हस्तौ समुद्वर्तय चन्दनेन ॥ अतिशीतमुशीरवासितं तपनीये कलशे निवेशितम् । पटपूतमिदं जितामृतं शुचि गङ्गाजलमम्ब पीयताम् ॥ जम्ब्वाम्ररम्भाफलसंयुतानि द्राक्षाफलक्षौद्रसमन्वितानि । सनारिकेलानि सदाडिमानि फलानि ते देवि समर्पयामि ॥ कूश्माण्डकोशाटकिसंयुतानि जम्बीरनारङ्गसमन्वितानि । सबीजपूराणि सबादराणि फलानि ते देवि समर्पयामि ॥ ताम्बूलं १०. कर्पूरेण युतैर्लवङ्गसहितैस्तक्कोलचूर्णान्वितैः सुस्वादुक्रमुकैः सगौरखदिरैः सुस्निग्धजातीफलैः । मातः कैतकपत्रपाण्डुरुचिभिस्ताम्बूलवल्लीदलैः सानन्दं मुखमण्डनार्थमतुलं ताम्बूलमङ्गीकुरु ॥ गोधूमदीपाराधनं १०. सविनयमथ दत्वा जानुयुग्मं धरण्यां सपदि शिरसि धृत्वा पात्रमारार्तिकस्य । मुखकमलसमीपे तेऽम्ब सार्थं त्रिवारं भ्रमयति मयि भूयात्ते कृपार्द्रः कटाक्षः ॥ स्वर्णमन्त्रपुष्पाञ्जलिः १०. अथ बहुमणीमिश्रैः मौक्तिकैस्त्वां विकीर्य त्रिभुवनकमनीयैः पूजयित्वा च वस्त्रैः । मिलितविविधमुक्तां दिव्यमाणिक्ययुक्तां जननि कनकवृष्टिं दक्षिणां तेऽर्पयामि ॥ चरणनलिनयुग्मं पङ्कजैः पूजयित्वा कनककमलमालां कण्ठदेशेऽर्पयित्वा । शिरसि विनिहितोऽयं रत्नपुष्पाञ्जलिस्ते हृदयकमलमध्ये देवि हर्षं तनोतु ॥ ---- स्तोत्रं १०. तव देवि गुणानुवर्णने चतुरा नो चतुराननादयः । तदिहैकमुखेषु स्तवनं कस्तव कर्तुमीश्वरः ॥ रात्रिसूक्तं ॐ रात्री॒ व्य॑ख्यदाय॒ती पु॑रु॒त्रा दे॒व्या १ क्षभिः॑ । विश्वा॒ अधि॒ श्रियो॑न्धित ॥ १॥ ओर्व॑प्रा अम॑र्त्या निवतो॑ दे॒व्यु॑ १ द्वतः । ज्योति॑षा बाधते॒ तमः॑ ॥ २॥ निरु॒ स्वसा॑रमस्कृतो॒षसं॑ दे॒व्या॑य॒ती । अपेदु॑हासते तमः॑ ॥ ३॥ सा नो॑ अ॒द्य यस्या॑ व॒यं नि ते॒ याम॒न्न वि॑क्ष्महि । वृ॒क्षेन व॑स॒तिं वयः॑ ॥ ४॥ निग्रामा॑सो अविक्षत॒ निप॒द्वन्तो॒ निप॒क्षिणः॑ । निश्ये॒नास॑श्चिद॒र्थिनः॑ ॥ ५॥ या॒वया॑ वृ॒क्य॑ (अं) वृकं॑ य॒वय॑स्ते॒नमू॑र्म्ये । अथा॑ नः सु॒तरा॑ भव ॥ ६॥ उप॑ मा पेपि॑श॒त्तमः॑ कृ॒ष्णं व्य॑क्तमस्थित । उप ऋ॒णेव॑ यातय ॥ ७॥ उप॑ ते॒ गा इ॒वाक॑रं वृणी॒ष्व दु॑हितर्दिवः । रात्रि॒ स्तोमं॒ न जिग्युषे॑ ॥ ८॥ देवीसूक्तं ॐ ॥ अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमादि॒त्यैरु॒त वि॒श्वदेवैः । अ॒हं मि॒त्रावरु॑णो॒भा बि॑भर्म्य॒हमि᳚न्द्रा॒ग्नी अ॒हम॒श्विनो॒भा ॥ १॥ अ॒हं सोम॑माह॒नसं᳚ बिभर्म्य॒हं त्वष्टारमु॒त पू॒षणं॒ भगम्᳚ । अ॒हं द॑धामि॒ द्रवि॑णं ह॒विष्म॑ते सुप्रा॒व्ये॒ ३ यज॑ मानाय सुन्व॒ते ॥ २॥ अ॒हं राष्टी᳚ सं॒गम॑नी॒ वसू᳚नां चिकि॒तुषी᳚ प्रथ॒मा य॒ज्ञिया᳚नाम् । तां मा᳚ दे॒वा व्य॑दधुः पुरु॒त्रा भूरि॑स्थात्रां॒ भूर्या᳚ वे॒शय᳚न्तीम् ॥ ३॥ मया॒ सोऽन्न॑म्मत्ति॒ यो वि॒पश्य॑ति॒ यः प्राणि॑ति॒ यईं᳚ श‍ृ॒णोत्यु॒क्तम् । अ॒म॒न्तवो॒मान्त उप॑क्षियन्ति श्रु॒धिश्रु॑त श्रद्धि॒वन्ते᳚ वदामि ॥ ४॥ अ॒हमे॒व स्व॒यमि॒दं व॑दामि॒ जुष्टं᳚ दे॒वेभि॑रु॒त मानु॑षेभिः । यं का॒मये॒ तं त॑मु॒ग्रं कृ॑णोमि॒ तं ब्र॒ह्माणं॒ तमृषिं॒ तं सु॑मे॒धाम् ॥ ५॥ अ॒हं रु॒द्राय॒ धनु॒रात॑नोमि ब्रह्म॒द्विषे॒ शर॑वे॒हन्त॒ वा उ॑ । अ॒हं जना॑य स॒मदं॑ कृणोम्य॒हं द्यावा॑पृथि॒वी आवि॑वेश ॥ ६॥ अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन् मम॒ योनि॑ र॒प्स्व(१)न्तः स॑मुद्रे । ततो॒ विति॑ष्ठे॒ भुव॒नान॒ विश्वो॒ तामूं द्यां व॒र्ष्मणोप॑स्पृशामि ॥ ७॥ अ॒हमे॒व वात॑ इव॒ प्रवा᳚म्या॒रभ॑माणा॒ भुव॑नानि॒ विश्वा᳚ । प॒रो दि॒वा प॒रए॒ना पृ॑थि॒व्यै ताव॑ती महि॒ना सम्ब॑भूव ॥ ८॥ ॐ शान्तिः शान्तिः शान्तिः ॥ इति बालासपर्या समाप्ता । Proofread by PSA Easwaran
% Text title            : bAlAsaparyApUjA
% File name             : bAlAsaparyApUjA.itx
% itxtitle              : bAlAsaparyApUjA
% engtitle              : bAlAsaparyApUjA
% Category              : devii, dashamahAvidyA, devI, pUjA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : bAlAsaparyA saparyAkrama-nAmAvalI-stotrAdisaNgrahaH
% Indexextra            : (Scan)
% Latest update         : March 21, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org