श्रीबालास्तवराजः २
भजे निरामयं वस्तु जगत्त्रयविमोहनम् ।
अशेषव्यवहाराणां स्वामिनीं संविदं पराम् ॥ १॥
उद्यत्सूर्यसहस्राभां दाडिमीकुसुमप्रभाम् ।
जपाकुसुमसङ्काशां पद्मरागघसमप्रभाम् ॥ २॥
विद्युत्पुञ्जनिभां तप्तकाञ्चनाभां सुरेश्वरीम् ।
रक्तोत्पलदलाकारपादपल्लवराजिताम् ॥ ३॥
अनर्घ्यरत्नखचितमञ्जीरचरणद्वयाम् ।
पादाङ्गुलीयकक्षिप्तरत्नतेजोविराजिताम् ॥ ४॥
कदलीललितस्तम्भसुकुमारोरुकोमलाम् ।
अलक्ष्यमध्यमां निम्ननाभिं शातोदरीं पराम् ॥ ५॥
अनर्घ्यमौक्तिकस्यूतहारभारविराजिताम् ।
उद्यदादित्यसङ्काशताटङ्ककुसुमप्रभाम् ॥ ६॥
पूर्णचन्द्रमुखीं पद्मवदनां वरनासिकाम् ।
स्फुरन्मादनकोदण्डसुभ्रुवं पद्मलोचनाम् ॥ ७॥
ललाटपट्टसंराजद्रत्नाढ्यतिलकाञ्चिताम् ।
मुक्तामाणिक्यघटितमकुटस्थलकिङ्किणीम् ॥ ८॥
स्फुरच्चन्द्रकलाराजन्मकुटां लोचनत्रयीम् ।
प्रवालपल्लवलसद्बाहुवल्लीचतुष्टयाम् ॥ ९॥
इक्षुकोदण्डपुष्पेषुपाशाङ्कुशचतुर्भुजाम् ।
सर्वदेवमयीं बालां श्रीमत्त्रिपुरसुन्दरीम् ॥ १०॥
सर्वतीर्थमयीं विद्यां सर्वकामप्रपूरणीम् ।
सर्वाम्नायमयीं विद्यां सर्वदेवोपशोभिताम् ॥ ११॥
एवं ध्यात्वा परां बालां वामनासापुटक्रमात् ।
त्रिकोणमुद्रया बिन्दौ महापद्ममनुस्मरेत् ॥ १२॥
आवाह्य बालां तन्मन्त्रं पठन्पीठे स्थितां स्मरेत् ॥ १३॥
इति मन्त्ररहस्यान्तर्गतं श्रीबालास्तवराजः (२) सम्पूर्णः ।
Proofread by PSA Easwaran