श्रीबालास्तोत्रम् २
वरदाभयपुस्तकाक्षमालाविलसत्पाणिसरोजभासमानाम् ।
शरदिन्दुसहस्रकोटितुल्यां परमानन्दमयीं प्रणौमि बालाम् ॥ १॥
करुणैकनिधिं विशालनेत्रां नलिनीपल्लवचारु पाणिपादाम् ।
निखिलाघमवेद्यदिव्यरूपां परमानन्दमयीं प्रणौमि बालाम् ॥ २॥
अरुणाभतनुं सुमन्दहासां कमलामोदमुखीं रवीन्दुभासाम् ।
शरणागतरक्षणाधिकाशां परमानन्दमयीं प्रणौमि बालाम् ॥ ३॥
तिलकोदितफालदिव्यशोभां कबरीभारविलासि निर्मलास्याम् ।
विमलानघरत्नहारभारां परमानन्दमयीं प्रणौमि बालाम् ॥ ४॥
चरणामलहंसकाभिरामां पदपङ्केरुहनम्रसर्वदेवाम् ।
कुलिशाङ्कुशपङ्कजाङ्घिपद्मां परमानन्दमयीं प्रणौमि बालाम् ॥ ५॥
नवयौवनचारुभावलीलां घनताटङ्कविकासिकर्णपूराम् ।
मणिमौक्तिकनासिकाभिरामां परमानन्दमयीं प्रणौमि बालाम् ॥ ६॥
परवाग्भवमन्मथादिमध्यां विमलाङ्गां सितपङ्कजे निषण्णाम् ।
विविधाकृतिवेद्यमूलरूपां परमानन्दमयीं प्रणौमि बालाम् ॥ ७॥
रक्तवस्त्रपरीधानां फुल्लकल्हारहस्तकाम् ।
देवीं प्रणौमि तां बालां नित्यकल्याणरूपिणीम् ॥ ८॥
इति श्रीबालास्तोत्रम् (२) सम्पूर्णम् ।
Proofread by PSA Easwaran