श्रीबालात्रिपुरसुन्दरीसहस्रनामस्तोत्रम् २

श्रीबालात्रिपुरसुन्दरीसहस्रनामस्तोत्रम् २

समाध्युपरतं काले कदाचिद्विजने मुदा । परमानन्दसन्दोहमुदितं प्राह पार्वती ॥ १॥ श्रीदेव्युवाच - श्रीमन्नाथ तवानन्दकारणं ब्रूहि शङ्कर । योगीन्द्रोपास्य देवेश प्रेमपूर्ण सुधानिधे । कृपास्ति यदि मे शम्भो सुगोप्यमपि कथ्यताम् ॥ २॥ श्रीभैरवः निर्भरानन्दसन्दोहः शक्तिभावेन जायते । लावण्यसिन्धुस्तत्रास्ति बालाया रसकन्दरः ॥ ३॥ तामेवानुक्षणं देवीं चिन्तयामि ततः शिवाम् । तस्या नामसहस्राणि कथयामि तव प्रिये ॥ ४॥ सुगोप्यान्यपि रम्भोरु गम्भीरस्नेहविभ्रमात् । तामेव स्तुवतो देवि ध्यायतोऽनुक्षणं मम । सुखसन्दोहसम्भावो ज्ञानानन्दस्य कारणम् ॥ ५॥ अस्य श्रीबालात्रिपुरसुन्दरी सहस्रनामस्तोत्रस्य शङ्कर ऋषिः, अनुष्टुप् छन्दः । श्रीबालात्रिपुरा देवता । ऐं बीजम् । सौः शक्तिः । क्लीं कीलकम् । श्रीबालाप्रीत्यर्थे समस्तपुरुषार्थसिद्‍ध्यर्थे पारायणे विनियोगः । ऐं अङ्गुष्ठाभ्यां नमः । क्लीं तर्जनीभ्यां नमः । सौः मध्यमाभ्यां नमः । ऐं अनामिकाभ्यां नमः । क्लीं कनिष्ठिकाभ्यां नमः । सौः करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः । ध्यानम् । अरुणकिरणजालै रञ्जिताशावकाशा विधृतजपवटीका पुस्तकाभीतिहस्ता । इतरवरकराढ्या फुल्लकल्हार संस्था निवसतु हृदि बाला नित्यकल्याणशीला ॥ रक्ताम्बरां चन्द्रकलावतंसां समुद्यदादित्यनिभां त्रिनेत्राम् । विद्याक्षमालाभयदानहस्तां ध्यायामि बालामरुणाम्बुजस्थाम् ॥ आनन्दसिन्धुरानन्दाऽऽनन्दमूर्तिर्विनोदिनी । त्रिपुरा सुन्दरी प्रेमपाथोनिधिरनुत्तमा ॥ १॥ वामार्धगह्वरा भूतिर्विभूतिः शङ्करी शिवा । श‍ृङ्गारमूर्तिर्वरदा रसा च शुभगोचरा ॥ २॥ परमानन्दलहरी रती रङ्गवती गतिः । रङ्गमालानङ्गकला केली कैवल्यदा कला ॥ ३॥ रसकल्पा कल्पलता कुतूहलवती गतिः । विनोददिग्धा सुस्निग्धा मुग्धमूर्तिर्मनोरमा ॥ ४॥ बालार्ककोटिकिरणा चन्द्रकोटिसुशीतला । स्रवत्पीयूषदिग्धाङ्गी स्वर्गार्थपरिकल्पिता ॥ ५॥ कुरङ्गनयना कान्ता सुगतिः सुखसन्ततिः । राजराजेश्वरी राज्ञी महेन्द्रपरिवन्दिता ॥ ६॥ प्रपञ्चगतिरीशानी प्रपञ्चगतिरुत्तमा । दुर्वासा दुःसहा शक्तिः शिञ्जत्कनकनूपुरा ॥ ७॥ मेरुमन्दरवक्षोजा सृणिपाशवरायुधा । शरकोदण्डसंसक्तपाणिद्वयविराजिता ॥ ८॥ चन्द्रबिम्बानना चारुमुकुटोत्तंसचन्द्रिका । सिन्दूरतिलका चारुधम्मिल्लामलमालिका ॥ ९॥ मन्दारदाममुदिता रत्नमालाविभूषिता । सुवर्णाभरणप्रीता मुक्तादाममनोरमा ॥ १०॥ ताम्बूलपूर्णवदना मदनानन्दमानसा । सुखाराध्या तपः सारा कृपापारा विधीश्वरी ॥ ११॥ वक्षःस्थललसद्रत्नप्रभा मधुरसोन्मदा । बिन्दुनादात्मकोच्चाररहिता तुर्यरूपिणी ॥ १२॥ कमनीयाकृतिर्धन्या शाङ्करी प्रीतिमञ्जरी । प्रपञ्चा पञ्चमी पूर्णा पूर्णपीठनिवासिनी ॥ १३॥ राज्यलक्ष्मीश्च श्रीलक्ष्मीर्महालक्ष्मीः सुराजिका । सन्तोषसीमा सम्पत्तिः शातकौम्भी १ तथा द्युतिः ॥ १४॥ १ शातकुम्भप्रियाकृतिः परिपूर्णा जगद्धात्री विधात्री बलवर्धिनी । सार्वभौमनृपश्रीश्च साम्राज्यगतिरम्बिका ॥ १५॥ सरोजाक्षी दीर्घदृष्टिः साचीक्षणविचक्षणा । रङ्गस्रवन्ती रसिका (१००) प्रधाना रसरूपिणी ॥ १६॥ रससिन्धुः सुगात्री च धूसरी मैथुनोन्मुखा । निरन्तरगुणासक्ता शक्तिर्निधुवनात्मिका ॥ १७॥ कामाक्षी कमनीया च कामेशी भगमङ्गला । सुभगा भोगिनी भोग्या भग्यदा सुभगा भगा ॥ १८॥ भगलिङ्गानन्दकला भगमध्यनिवासिनी । भगरूपा भगमयी भगयन्त्रा भगोत्तमा ॥ १९॥ योनिमुद्रा कामकला कुलामृतपरायणा । कुलकुण्डालया सूक्ष्मा जीवात्मा लिङ्गरूपिणी ॥ २०॥ मूलक्रिया मूलरूपा मूलाकृतिस्वरूपिणी । सोत्सुका कमलानन्दा चिद्भावाऽऽत्मगतिः शिवा ॥ २१॥ श्वेतारुणा बिन्दुरूपा वेदयोनिर्ध्वनिक्षणा । घण्टाकोटि रवारावा रविबिम्बोत्थिताऽद्भुता ॥ २२॥ नादान्तलीना सम्पूर्णा पूर्णस्था बहुरूपिका । भृङ्गारावा वंशगतिर्वादित्रा मुरजध्वनिः ॥ २३॥ वर्णमाला सिद्धिकला षट् चक्रक्रमवासिनी । मूलकेलीरता स्वाधिष्ठाना तुर्यनिवासिनी ॥ २४॥ मणिपूरस्थितिः स्निग्धा कूर्मचक्रपरायणा । अनाहतगतिर्दीपशिखा मणिमयाकृतिः ॥ २५॥ विशुद्धा शब्दसंशुद्धा जीवबोधस्थली रवा । आज्ञाचक्राब्जसंस्था च स्फुरन्ती निपुणा त्रिवृत् ॥ २६॥ चन्द्रिका चन्द्रकोटि श्रीः सूर्यकोटिप्रभामयी । पद्मरागारुणच्छाया निश्चलाऽमृतनन्दिनी । कान्ताङ्गसङ्गमुदिता सुधामाधुर्यसम्भृता ॥ २८॥ महामञ्चस्थिताऽलिप्ता तृप्ता दृप्ता सुसम्भृतिः । स्रवत्पीयूषसंसिक्ता रक्तार्णवविवर्धिनी ॥ २९॥ सुरक्ता प्रियसंसिक्ता शश्वत्कुण्डालयाऽभया । (२००) । श्रेयः श्रुतिश्च प्रत्येकानवकेशिफलावली ॥ ३०॥ प्रीता शिवा शिवप्रिया शाङ्करी शाम्भवी विभा । स्वयम्भूः स्वप्रिया स्वीया स्वकीया जनमातृका ॥ ३१॥ स्वारामा स्वाश्रया साध्वी सुधाधाराऽधिकाधिका । मङ्गलोज्जयिनी मान्या सर्वमङ्गलसङ्गिनी ॥ ३२॥ भद्रा भद्रावली कन्या कलितार्धेन्दुबिम्बभाक् । कल्याणलतिका काम्या कुकर्मा कुमतिर्मनुः ॥ ३३॥ कुरङ्गाक्षी क्षीबनेत्रा क्षारा रसमदोन्मदा । वारुणीपानमुदिता मदिरारचिताश्रया ॥ ३४॥ कादम्बरीपानरुचिर्विपाशा पाशभीतिनुत् । मुदिता मुदितापाङ्गा दरदोलितदीर्घदृक् ॥ ३५॥ दैत्यकुलानलशिखा मनोरथसुधाद्युतिः । सुवासिनी पीनगात्री पीनश्रोणिपयोधरा ॥ ३६॥ सुचारुकबरी दन्तदीधितिदीप्रमौक्तिका । बिम्बाधरा द्युतिमुखा प्रवालोत्तमदीधितिः ॥ ३७॥ तिलप्रसूननासाग्रा हेमकक्कोलभालका । निष्कलङ्केन्दुवदना बालेन्दुमुकुटोज्ज्वला ॥ ३८॥ नृत्यत्खञ्जननेत्रश्रीर्विस्फुरत्कर्णशष्कुली । बालचन्द्रातपत्रार्धा मणिसूर्यकिरीटिनी १ ॥ ३९॥ १ केशौघचम्पकासेनामालतीदामपण्डिता - इत्यधिकम् । हेममाणिक्यताटङ्का मणिकाञ्चनकुण्डला । सुचारुचिबुका कम्बुकण्ठी मणिमनोरमा ॥ ४०॥ गङ्गातरङ्गहारोर्मिर्मत्तकोकिलनिःस्वना । मृणालविलसद्बाहुः पाशाङ्कुशधनुर्धरा ॥ ४१॥ केयूरकटकाच्छन्ना नानारत्नमनोरमा । ताम्रपङ्कजपाणिश्रीर्नखरत्नप्रभावती ॥ ४२॥ अङ्गुलीयमणिश्रेणिचञ्चदङ्गुलिसन्ततिः । मन्दरद्वन्द्वसुकुचा रोमराजीभुजङ्गका ॥ ४३॥ गम्भीरनाभिस्त्रिवलीवलया च सुमध्यमा । रणत्काञ्चीगुणोन्नद्धा पट्टांशुकसुनीविका ॥ ४४॥ मेरुगुण्डीनितम्बाढ्या गजगण्डोरुयुग्मयुक् । सुजानुमन्दरासक्तलसज्जङ्घाद्वयान्विता ॥ ४५॥ गूढगुल्फा मञ्जुशिञ्जन्मणिनूपुरमण्डिता १ । १ पदद्वन्द्वा रुणाम्भोजा नखचन्द्रा रविप्रभा । सुसोमप्रपदा राजहंसा मत्तेभमन्दगा ॥ इत्यधिकम् (extra) । योगिध्येयपदद्वन्द्वा सुधामाऽमृतसारिणी ॥ ४६॥ लावण्यसिन्धुः सिन्दूरतिलका कुटिलालका । साधुसिद्धा सुबुद्धा च बुधा वृन्दारकोदया ॥ ४७॥ बालार्ककिरणश्रेणीशोणा श्रीप्रेमकामधुक् । रसगम्भीरसरसी पद्मिनी (३००) रससारसा ॥ ४८॥ प्रसन्नाऽऽसन्नवरदा शारदा च सुभाग्यदा । नटराजप्रिया विश्वनाट्या नर्तकनर्तकी ॥ ४९॥ विचित्रयन्त्रा चित्तन्त्रा विद्यावल्ली गतिः शुभा । कूटारकूटा कूटस्था पञ्चकूटा च पञ्चमी ॥ ५०॥ चतुष्कूटा त्रिकूटाद्या षट्कूटा वेदपूजिता । कूटषोडशसम्पन्ना तुरीया परमा कला ॥ ५१॥ षोडशी मन्त्रयन्त्राणामीश्वरी मेरुमण्डला । षोडशार्णा त्रिवर्णा च बिन्दुनादस्वरूपिणी ॥ ५२॥ वर्णातीता वर्णमाता शब्दब्रह्ममहासुखा । चैतन्यवल्ली कूटात्मा कामेशी स्वप्रदृश्यगा ॥ ५३॥ स्वप्नावती बोधकरी जागृतिर्जागराश्रया । स्वप्नाश्रया सुषुप्तिश्च तन्द्रामुक्ता च माधवी ॥ ५४॥ लोपामुद्रा कामराज्ञी मानवी वित्तपार्चिता । शाकम्भरी नन्दिविद्या भास्वद्विद्योतमालिनी ॥ ५५॥ माहेन्द्री स्वर्गसम्पत्तिर्दुर्वासःसेविता श्रुतिः । साधकेन्द्रगतिः साध्वी सुलभा सिद्धिकन्दरा ॥ ५६॥ पुरत्रयेशी पुरजिदर्चिता पुरदेवता । पुष्टिर्विघ्नहरी भूतिर्विगुणा पूज्यकामधुक् ॥ ५७॥ हिरण्यमाता गणपा गुहमाता नितम्बिनी । सर्वसीमन्तिनी मोक्षा दीक्षा दीक्षितमातृका ॥ ५८॥ साधकाम्बा सिद्धमाता साधकेन्द्रा मनोरमा । यौवनोन्मादिनी तुङ्गा सुश्रोणिर्मदमन्थरा ॥ ५९॥ पद्मरक्तोत्पलवती रक्तमाल्यानुलेपना । रक्तमालारुचिः शिखाशिखण्डिन्यतिसुन्दरी ॥ ६०॥ शिखण्डिनृत्तसन्तुष्टा सौरभेयी वसुन्धरा । सुरभिः कामदा काम्या कमनीयार्थकामदा ॥ ६१॥ नन्दिनी लक्षणवती वसिष्ठालयदेवता । गोलोकदेवी (४००) लोकश्रीर्गोलोकपरिपालिका ॥ ६२॥ हविर्धानी देवमाता वृन्दारकवरानुयुक् । रुद्रपत्नी भद्रमाता सुधाधाराऽम्बुविक्षतिः ॥ ६३॥ दक्षिणा यज्ञसम्मूर्तिः सुबाला धीरनन्दिनी । क्षीरपूर्णार्णवगतिः सुधायोनिः सुलोचना ॥ ६४॥ रामानुगा सुसेव्या च सुगन्धालयवासगा । सुचारित्रा सुत्रिपुरा सुस्तनी स्तनवत्सला ॥ ६५॥ रजस्वला रजोयुक्ता रञ्जिका रङ्गमालिका । रक्तप्रिया सुरक्ता च रतिरङ्गस्वरूपिणी ॥ ६६॥ रजः शुक्राम्बिका निष्ठा रतनिष्ठा रतिस्पृहा । हावभावा कामकेलिसर्वस्वा सुरजीविका ॥ ६७॥ स्वयम्भूकुसुमानन्दा स्वयम्भूकुसुमप्रिया । स्वयम्भूप्रीतिसन्तुष्टा स्वयम्भूनिन्दकान्तकृत् ॥ ६८॥ स्वयम्भूस्था शक्तिपुटी रतिसर्वस्वपीठिका । अत्यन्तसभिका दूती विदग्धा प्रीतिपूजिता ॥ ६९॥ कुल्लिका यन्त्रनिलया योगपीठाधिवासिनी । सुलक्षणा रसरूपा सर्वलक्षणलक्षिता ॥ ७०॥ नानालङ्कारसुभगा पञ्चबाणसमर्चिता । ऊर्ध्वत्रिकोणनिलया बाला कामेश्वरी तथा ॥ ७१॥ गणाध्यक्षा कुलाध्यक्षा लक्ष्मीश्चैव सरस्वती । वसन्तसमयप्रीता प्रीतिः कुचभरानता ॥ ७२॥ कलाधरमुखाऽमूर्धा पादवृद्धिः कलावती । पुष्पप्रिया धृतिश्चैव रतिकण्ठी मनोरमा ॥ ७३॥ मदनोन्मादिनी चैव मोहिनी पार्वणीकला । शोषिणी वशिनी राजिन्यत्यन्तसुभगा भगा ॥ ७४॥ पूषा वशा च सुमना रतिः प्रीतिर्धृतिस्तथा । ऋद्धिः सौम्या मरीच्यंशुमाला प्रत्यङ्गिरा तथा ॥ ७५॥ शशिनी चैव सुच्छाया सम्पूर्णमण्डलोदया । तुष्टा चामृतपूर्णा च भगयन्त्रनिवासिनी ॥ ७६॥ लिङ्गयन्त्रालया (५००) शम्भुरूपा संयोगयोगिनी । द्राविणी बीजरूपा च अक्षुब्धा साधकप्रिया ॥ ७७॥ राजबीजमयी राज्यसुखदा वाञ्छितप्रदा । रजः संवीर्यशक्तिश्च शुक्रविच्छिवरूपिणी ॥ ७८॥ सर्वसारा सारमया शिवशक्तिमयी प्रभा । संयोगानन्दनिलया संयोगप्रीतिमातृका ॥ ७९॥ संयोगकुसुमानन्दा संयोगा योगवर्धिनी । संयोगसुखदारस्था चिदानन्दैकसेविता ॥ ८०॥ अर्ध्यपूजकसम्पत्तिरर्घ्यद्रव्यस्वरूपिणी । सामरस्या परा प्रीता प्रियसङ्गमरूपिणी ॥ ८१॥ ज्ञानदूती ज्ञानगम्या ज्ञानयोनिः शिवालया । चित्कला ज्ञानसकला सकुला सकुलात्मिका ॥ ८२॥ कलाचतुष्टयी पद्मिन्यतिसूक्ष्मा परात्मिका । हंसकेलिस्थली च्छाया हंसद्वयविकासिनी ॥ ८३॥ विरागता मोक्षकला परमात्मकलावती । विद्याकलान्तरात्मस्था चतुष्टयकलावती ॥ ८४॥ विद्यासन्तोषिणी तृप्तिः परब्रह्मप्रकाशिका । परमात्मपरा वस्तुलीनशक्तिचतुष्टयी ॥ ८५॥ शान्तिर्बोधकलावाप्तिः परज्ञानात्मिका कला । पश्यन्ती परमात्मस्था चान्तरात्मकलाकुला ॥ ८६॥ मध्यमा वैखरी चात्मकलानन्दा कलावती । तारिणी तरणी तारा शिवलिङ्गालयाऽऽत्मवित् ॥ ८७॥ परस्परशुभाचारा ब्रह्मानन्दविनोदिनी । रसालसा दूतरासा सार्था सार्थप्रिया ह्युमा ॥ ८८॥ जात्यादिरहिता योगियोगिन्यानन्दवर्धिनी । १ १ कान्ता शान्ता दान्तगतिर्वेदाद्युद्दामपद्धतिः - इत्यधिकम् । वीरभावप्रदा दिव्या वीरसूर्वीरभावदा ॥ ८९॥ पशुत्वाभिवीरगतिर्वीरसङ्गमहोदया । मूर्धाभिषिक्त राजश्रीः क्षत्रियोत्तममातृका ॥ ९०॥ शस्त्रास्त्रकुशला शोभा रसस्था युद्धजीविका । विजया योगिनी यात्रा परसैन्यविमर्दिनी ॥ ९१॥ पूर्णा (६००) वित्तैषिणी वित्ता वित्तसञ्चयशालिनी । भाण्डागारस्थिता रत्ना रत्नश्रेण्यधिवासिनी ॥ ९२॥ महिषी राजभोग्या च गणिका गणभोगभृत् । करिणी वडवा योग्या मल्लसेना पदातिका ॥ ९३॥ सैन्यश्रेणी शौर्यरता पताकाध्वजवासिनी । सुच्छत्रा चाम्बिका चाम्बा प्रजापालनसद्गतिः ॥ ९४॥ सुरभिः पूजकाचारा राजकार्यपरायणा । ब्रह्मक्षत्रमयी सोमसूर्यान्तर्यामिनी स्थितिः ॥ ९५॥ पौरोहित्यप्रिया साध्वी ब्रह्माणी यज्ञसन्ततिः । सोमपानपरा प्रीता जनाढ्या तपना क्षमा ॥ ९६॥ प्रतिग्रहपरा दात्री सृष्टाजातिः सताङ्गतिः । गायत्री वेदलभ्या च दीक्षा सन्ध्यापरायणा ॥ ९७॥ रत्नसद्दीधितिर्विश्ववासना विश्वजीविका । कृषिवाणिज्यभूतिश्च वृद्धिर्धीश्च कुसीदिका ॥ ९८॥ कुलाधारा सुप्रसारा मनोन्मनी परायणा । शूद्रा विप्रगतिः कर्मकरी कौतुकपूजिता ॥ ९९॥ नानाविचारचतुरा बाला प्रौढा कलामयी । सुकर्णधारा नौः पारा सर्वाशा दुर्गमोचनी ॥ १००॥ दुर्गा विन्ध्यवनस्था च कन्दर्पनयपूरणी । भूभारशमनी कृष्णा रक्षाराध्या रसोल्लसा ॥ १०१॥ त्रिविधोत्पातशमनी समग्रसुखशेवधिः । पञ्चावयववाक्यश्रीः प्रपञ्चोद्यानचन्द्रिका ॥ १०२॥ सिद्धसन्दोहसुखिता योगिनीवृन्दवन्दिता । नित्याषोडशारूपा च कामेशी भगमालिनी ॥ १०३॥ नित्यक्लिन्ना च भी(भे) रुण्डा वह्निमण्डलवासिनी । महाविद्येश्वरी नित्या शिवदूतीति विश्रुता ॥ १०४॥ त्वरिता प्रथिता ख्याता विख्याता कुलसुन्दरी । नित्या नीलपताका च विजया सर्वमङ्गला ॥ १०५॥ ज्वालामाला(७००) विचित्रा च महात्रिपुरसिन्दरी । गुरुवृन्दा परगुरुः प्रकाशानन्दनाथिनी ॥ १०६॥ शिवानन्दनाथरूपा शक्त्यानन्दस्वरूपिणी । देव्यानन्दनाथमयी कौलेशानन्दनाथिनी ॥ १०७॥ दिव्यौघगुरुरूपा च समयानन्दनाथिनी । शुक्लदेव्यानन्दनाथा कुलेशानन्दनाथिनी १ ॥ १०८॥ १ कामेश्वर्यानन्दनाथमयी श्रीगुरुरूपिणी - इत्यधिकम् । क्लिन्नाङ्गानन्दरूपा च समयानन्दनाथिनी । वेदानन्दनाथमयी सहजानन्दनाथिनी ॥ १०९॥ सिद्धौघगुरुरूपा च अपरागुरुरूपिणी । गगनानन्दनाथा च विश्वानन्दस्वनाथिनी ॥ ११०॥ विमलानन्दनाथा च मदनानन्दनाथिनी । भुवनाद्या च लीलाद्या नन्दनानन्दनाथिनी ॥ १११॥ स्वात्मानन्दानन्दरूपा प्रियाद्यानन्दनाथिनी । मानवौघगुरुश्रेष्ठा परमेष्ठि गुरुप्रभा ॥ ११२॥ परगुह्या गुरुशक्तिः स्वगुरुकीर्तनप्रिया । त्रैलोक्यमोहनख्याता सर्वाशापरिपूरका ॥ ११३॥ सर्वसङ्क्षोभिणी पूर्वाम्नायप्रथितवैभवा । शिवाशक्तिः शिवशक्तिः शिवचक्रत्रयालया ॥ ११४॥ सर्वसौभाग्यदाख्या च सर्वार्थसाधिकाह्वया । सर्वरक्षाकराख्या च दक्षिणाम्नायदेवता ॥ ११५॥ मध्यार्कचक्रनिलया पश्चिमाम्नायदेवता । नवचक्रकृतावासा कौबेराम्नायदेवता ॥ ११६॥ कुबेरपूज्या कुलजा कुलाम्नायप्रवर्तिनी । बिन्दुचक्रकृतावासा मध्यसिंहासनेश्वरी ॥ ११७॥ श्रीविद्या च महालक्ष्मीः लक्ष्मीः शक्तित्रयात्मिका । सर्वसाम्राज्यलक्ष्मीश्च पञ्चलक्ष्मीतिविश्रुता ॥ ११८॥ श्रीविद्या च परञ्ज्योतिः परनिष्कलशाम्भवी । मातृका पञ्चकोशी च श्रीविद्या त्वरिता तथा ॥ ११९॥ पारिजातेश्वरी चैव त्रिकूटा पञ्चबाणगा । पञ्चकल्पलता पञ्चविद्या चामृतपीठिका ॥ १२०॥ सुधासू रमणेशाना चान्नपूर्णा च कामधुक् । श्रीविद्या सिद्धलक्ष्मीश्च मातङ्गी भुवनेश्वरी ॥ १२१॥ वाराही पञ्चरत्नानामीश्वरी मातृवर्णगा । पराञ्ज्योतिः कोशरूपा ऐन्दवी कलया युता ॥ १२२॥ परितः स्वामिनी शक्तिदर्शना रविबिन्दुयुक् । ब्रह्मदर्शनरूपा च शिवदर्शनरूपिणी ॥ १२३॥ विष्णुदर्शनरूपा च सृष्टिचक्रनिवासिनी । सौरदर्शनरूपा च स्थितिचक्रकृतालया ॥ १२४॥ बौद्धदर्शनरूपा च महात्रिपुरसुन्दरी । तत्त्वमुद्रास्वरूपा च प्रसन्ना(८००) ज्ञानमुद्रिका ॥ १२५॥ सर्वोपचारसन्तुष्टा हृन्मयी शीर्षदेवता । शिखास्थिता ब्रह्ममयी नेत्रत्रयविलासिनी ॥ १२६॥ अस्त्रस्था चतुरस्रा च द्वारकाद्वारवासिनी । अणिमा पश्चिमस्था च लघिमोत्तरदेवता ॥ १२७॥ पूर्वस्था महिमेशित्वा दक्षिणद्वारदेवता । वशित्वा वायुकोणस्था प्राकाम्येशानदेवता ॥ १२८॥ अग्निकोणस्थिता भुक्तिरिच्छा नैरृतवासिनी । प्राप्तिसिद्धिरवस्था च प्राकाम्यार्धविलासिनी ॥ १२९॥ ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराह्यौन्द्री च चामुण्डा महालक्ष्मीर्दिशाङ्गतिः ॥ १३०॥ क्षोभिणी द्राविणी मुद्राऽऽकर्षोन्मादनकारिणी । महाङ्कुशा खेचरी च बीजाख्या योनिमुद्रिका ॥ १३१॥ सर्वाशापूरचक्रस्था कार्यसिद्धिकरी तथा । कामाकर्षिणिकाशक्तिर्बुद्‍ध्याकर्षणरूपिणी ॥ १३२॥ अहङ्काराकर्षिणी च शब्दाकर्षणरूपिणी । स्पर्शाकर्षणरूपा च रूपाकर्षणरूपिणी ॥ १३३॥ रसाकर्षणरूपा च गन्धाकर्षणरूपिणी । चित्ताकर्षणरूपा च धैर्याकर्षणरूपिणी ॥ १३४॥ स्मृत्याकर्षणरूपा च बीजाकर्षणरूपिणी । अमृताकर्षिणी चैव नामाकर्षणरूपिणी ॥ १३५॥ शरीराकर्षिणीदेवी आत्माकर्षणरूपिणी । षोडशस्वररूपा च स्रवत्पीयूषमन्दिरा ॥ १३६॥ त्रिपुरेशी सिद्धरूपा कलादलनिवासिनी । सर्वसङ्क्षोभचक्रेशी शक्तिर्गुप्ततराभिधा ॥ १३७॥ अनङ्गकुसुमाशक्तिरनङ्गकटिमेखला । अनङ्गमदनाऽनङ्गमदनातुररूपिणी ॥ १३८॥ अनङ्गरेखा चानङ्गवेगानङ्गाङ्कुशाभिधा । अनङ्गमालिनी शक्तिरष्टवर्गदिगन्विता ॥ १३९॥ वसुपत्रकृतावासा श्रीमत्त्रिपुरसुन्दरी । सर्वसाम्राज्यसुखदा सर्वसौभाग्यदेश्वरी ॥ १४०॥ सम्प्रदायेश्वरी सर्वसङ्क्षोभणकरी तथा । सर्वविद्राविणी सर्वाकर्षणाटोपकारिणी ॥ १४१॥ सर्वाह्लादनशक्तिश्च सर्वजृम्भणकारिणी । सर्वस्तम्भन शक्तिश्च सर्वसम्मोहिनी तथा ॥ १४२॥ सर्ववश्यकरीशक्तिः सर्वसर्वानुरञ्जिनी । सर्वोन्मादनशक्तिश्च सर्वार्थसिद्धिकारिणी ॥ १४३॥ सर्वसम्पत्तिदा शक्तिः सर्वमन्त्रमयी तथा । सर्वद्वन्द्वक्षयकरी(९००) सिद्धिस्त्रिपुरवासिनी ॥ १४४॥ सर्वार्थसाधकेशी च सर्वकार्यार्थसिद्धिदा । चतुर्दशारचक्रेशी कलायोगसमन्विता ॥ १४५॥ सर्वसिद्धिप्रदा देवी सर्वसम्पत्प्रदा तथा । सर्वप्रियङ्करी शक्तिः सर्वमङ्गलकारिणी ॥ १४६॥ सर्वकामप्रपूर्णा च सर्वदुःखप्रमोचिनी । सर्वमृत्युप्रशमनी सर्वविघ्नविनाशिनी ॥ १४७॥ सर्वाङ्गसुन्दरी देवी सर्वसौभाग्यदायिनी । त्रिपुरेशी सर्वसिद्धिप्रदा च दशकोणगा ॥ १४८॥ सर्वरक्षाकरेशी च निगर्भा योगिनी तथा । सर्वज्ञा सर्वशक्तिश्च सर्वैश्वर्यप्रदा तथा ॥ १४९॥ सर्वज्ञानमयीदेवी सर्वव्याधिविनाशिनी । सर्वाधारस्वरूपा च सर्वपापहरा तथा ॥ १५०॥ सर्वानन्दमयीदेवी सर्वरक्षास्वरूपिणी । महिमाशक्तिदेवी च देवी सर्वसमृद्धिदा ॥ १५१॥ अन्तर्दशारचक्रेशी देवी त्रिपुरमालिनी । सर्वरोगहरेशी च रहस्या योगिनी तथा ॥ १५२॥ वाग्देवी वशिनी चैव देवीकामेश्वरी तथा । मोदिनी विमला चैव अरुणा जयिनी तथा ॥ १५३॥ सर्वेश्वरी कौलिनी च ह्यष्टारसर्वसिद्धिदा । सर्वकामप्रदेशी च परापररहस्यवित् ॥ १५४॥ त्रिकोणचतुरश्रस्था सर्वैश्वर्याऽऽयुधात्मिका । कामेश्वरीबाणरूपा कामेशीचापरूपिणी ॥ १५५॥ कामेशीपाशरूपा च कामेश्यङ्कुशरूपिणी । कामेश्वरीन्द्रशक्तिश्च अग्निचक्रकृतालया ॥ १५६॥ कामगिर्यधिदेवी च त्रिकोणस्थाऽग्रकोणगा । दक्षकोणेश्वरी विष्णुशक्तिर्जालन्धराश्रया ॥ १५७॥ सूर्यचक्रालया रुद्रशक्तिर्वामाङ्गकोणगा । सोमचक्रा ब्रह्मशक्तिः पूर्णगिर्यनुरागिणी ॥ १५८॥ श्रीमत्त्रिकोणभुवना त्रिपुरात्मा महेश्वरी । सर्वानन्दमयेशी च बिन्दुगातिरहस्यभृत् ॥ १५९॥ परब्रह्मस्वरूपा च महात्रिपुरसुन्दरी । सर्वचक्रान्तरस्था च समस्तचक्रनायिका ॥ १६०॥ सर्वचक्रेश्वरी सर्वमन्त्राणामीश्वरी तथा । सर्वविद्येश्वरी चैव सर्ववागीश्वरी तथा ॥ १६१॥ सर्वयोगीश्वरी चैव पीठेश्वर्यखिलेश्वरी । सर्वकामेश्वरी सर्वतत्त्वेश्वर्यागमेश्वरी ॥ १६२॥ शक्तिः शक्तिधृगुल्लासा निर्द्वन्द्वा द्वैतगर्भिणी । निष्प्रपञ्चा महामाया सप्रपञ्चा सुवासिनी ॥ १६३॥ सर्वविश्वोत्पत्तिधात्री परमानन्दसुन्दरी (१०००) । इत्येतत्कथितं दिव्यं परमानन्दकारणम् ॥ १६४॥ लावण्यसिन्धुलहरीबालायास्तोषमन्दिरम् । सहस्रनाम तन्त्राणां सारमाकृष्य पार्वति ॥ १६५॥ अनेन स्तुवतो नित्यमर्धरात्रे निशामुखे । प्रातः काले च पूजायां सर्वकालमतः प्रिये ॥ १६६॥ सर्वसाम्राज्यसुखदा बाला च परितुष्यति । रत्नानि विविधान्यस्य वित्तानि प्रचुराणि च ॥ १६७॥ मनोरथपथस्थानि ददाति परमेश्वरी । पुत्राः पौत्राश्च वर्धन्ते सन्ततिः सार्वकालिकी ॥ १६८॥ शत्रवस्तस्य नश्यन्ति वर्धन्तेऽस्य बलानि च । व्याधयस्तस्य दूरस्थाः सकलान्यौषधानि च ॥ १६९॥ मन्दिराणि विचित्राणि राजन्ते तस्य सर्वदा । कृषिः फलवती तस्य भूमिः कामदुघाऽव्यया ॥ १७०॥ स्फीतो जनपदस्तस्य राज्यं तस्य निरीतिकम् । मातङ्गाः पक्षिणस्तुङ्गाः सिञ्चन्तो मदवारिभिः ॥ १७१॥ द्वारे तस्य विराजन्ते हृष्टा नागतुरङ्गमाः । प्रजास्तस्य विराजन्ते निर्विवादाश्च मन्त्रिणः ॥ १७२॥ ज्ञातयस्तस्य तुष्यन्ति शीलं तस्यातिसुन्दरम् । लक्ष्मीस्तस्य वशे नित्यं स्वासना च मनोरमा ॥ १७३॥ गद्यपद्यमयी वाणी तस्य गङ्गातरङ्गवत् । नानापदपदार्थानां वादचातुर्यसम्भृता ॥ १७४॥ समग्ररससम्पत्तिशालिनी लास्यमालिनी । अदृष्टान्यपि शास्त्राणी प्रकाश्यन्ते निरन्तरम् ॥ १७५॥ निग्रहः परवाक्यानां सभायां तस्य जायते । स्तुवन्ति वन्दिनस्तं वै राजानो दासवत्तथा ॥ १७६॥ शस्त्राण्यस्त्राणि तदङ्गे जनयन्ति रुजां न हि । महिलास्तस्य वशगाः सर्वावस्था भवन्ति वै ॥ १७७॥ विषं निर्विषतां याति पानीयममृतं भवेत् । परपक्षस्तम्भनं च प्रतिपक्षस्य जृम्भणम् ॥ १७८॥ नवरात्रेण जायेत स तदभ्यासयोगवित् । अहोरात्रं पठेद्यस्तु निस्तन्द्रः शान्तमानसः ॥ १७९॥ वशे तस्य प्रजा याति सर्वे लोकाः सुनिश्चितम् । षण्मासाभ्यासयोगेन योगमायाति निश्चितम् ॥ १८०॥ नित्यं कामकलां ध्यायन् यः पठेत् स्तोत्रमुत्तमम् । मदनोन्मादकलिताः पुरन्घ्र्यास्तद्वशानुगाः ॥ १८१॥ लावण्यमदनाः साक्षाद्वैदग्ध्यमुदितेक्षणाः । प्रेमपूर्णामपि वशे ह्युर्वशीं स हि विन्दति ॥ १८२॥ भूर्जपत्रे रोचनया कुङ्कुमेन शुभे दिने । लाक्षारसद्रवेणापि यावकैर्वा विशेषतः ॥ १८३॥ धातुरागेण वा देवि लिखितं यन्त्रमञ्चितम् । सुवर्णरौप्यगर्भस्थं सुसम्पूतं सुसाधितम् ॥ १८४॥ बालाबुद्‍ध्या पूजितं च प्रतिष्ठितसमीरणम् । धारयेन्मस्तके कण्ठे बाहुमूले तथा हृदि ॥ १८५॥ नाभौ वापि धृतं धन्यं जयदं सर्वकामदम् । रक्षणं नापरं किञ्चिद्विद्यते भुवनत्रये ॥ १८६॥ ग्रहरोगादिभयहृत् सुखकृत्यविवर्धनम् । बलवीर्यकरं क्रूरभूतशत्रुविनाशनम् ॥ १८७॥ पुत्रपौत्रान् गुणगणैर्वर्धनं धनधान्यकृत् । धरण्यां सा पुरी धन्या यत्रायं साधकोत्तमः ॥ १८८॥ यद्गृहे लिखितं तिष्ठेत् स्तोत्रमेतद्वरानने । तत्र चाहं शिवे नित्यं हरिश्च कमला तथा ॥ १८९॥ वसामः सर्वतीर्थानामुत्पत्तिस्तत्र जायते । यो वापि पाठयेद्भक्त्या पठेद्वै साधकोत्तमः ॥ १९०॥ ज्ञानानन्दकलायोगादैक्यवृत्तिं स विन्दति । स्तोत्रेणानेन देवेशि तव पूजाफलं लभेत् ॥ १९१॥ षोढान्यासतनुर्भूत्वा पठितव्यं प्रयत्नतः । उत्तमा सर्वतन्त्राणां बालायाः पूजनस्रुतिः ॥ १९२॥ तत्रोत्तमा षोडशार्णा तत्रेदं स्तोत्रमुत्तमम् । नाशिष्याय प्रदातव्यमशुद्धाय शठाय च ॥ १९३॥ अलसायाप्रयत्नायाशिवाभक्ताय सुन्दरि । भक्तिहीनाय मलिने गुरुनिन्दापराय च ॥ १९४॥ विष्णुभक्तिविहीनाय विकल्पावृतबुद्धये । देयं भक्तवरे मुक्तेः कारणं भक्तिवर्धनम् ॥ १९५॥ लतायोगे पठेद्यस्तु स्तोत्रमेतद्वरानने । सैव कल्पलता तस्य वाञ्छाफलकरी तथा ॥ १९६॥ पुष्पिताया लतायोगे कुरङ्गमुखि साधकः । अक्षुब्धः सन् पठेद्यस्तु शतयज्ञस्य पुण्यभाक् ॥ १९७॥ ब्रह्मादयोऽपि देवेशि प्रार्थयन्ति पदद्वयम् । स्वयं शिवः स विज्ञेयो यो बालाभावलम्पटः ॥ १९८॥ ब्रह्मानन्दमयी ज्योत्स्ना सदाशिवविधूदिता । आनन्दो योऽपि यं वेदा वदन्त्यस्या वशे स्थिताः ॥ १९९॥ आह्लादनं बालाध्यानाद्बालाया नामकीर्तनात् । सदानन्दाभ्यासयोगात् सदानन्दः प्रजायते ॥ २००॥ इति श्रीरुद्रयामले तन्त्रे भैरवभैरवीसंवादे श्रीबालात्रिपुरसुन्दरीसहस्रनामस्तोत्रं सम्पूर्णम् ॥
Encoded by DPD with help from Alex Proofread by DPD, PSA Easwaran psaeaswaran at gmail.com
% Text title            : shrI bAlAtripurasundarIsahasranAmastotram 2
% File name             : bAlAtripurasundarIsahasranAmastotra2.itx
% itxtitle              : bAlAtripurasundarIsahasranAmastotram 2 (rudrayAmalAntargatam)
% engtitle              : bAlAtripurasundarIsahasranAmastotram 2
% Category              : sahasranAma, devii, dashamahAvidyA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DPD, Alex
% Proofread by          : DPD, PSA Easwaran
% Description-comments  : From Rudrayamalatantra
% Latest update         : August 19, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org