श्रीबगलामुखीकवचम् २

श्रीबगलामुखीकवचम् २

कैलासाचलम्ध्यगम्पुरवहं शान्तन्त्रिनेत्रं शिवं वामस्था कवचम्प्रणम्य गिरिजा भूतिप्रदम्पृच्छति । देवी श्रीबगलामुखी रिपुकुलारण्याग्निरूपा च या तस्याश्चापविमुक्तमन्त्रसहितम्प्रीत्याऽधुना ब्रूहि माम् ॥ १॥ श्रीशङ्कर उवाच- देवी श्रीभववल्लभे श‍ृणु महामन्त्रँ विभूतिप्रदन्देव्या वर्मयुतं समस्तसुखदं साम्राज्यदमुक्तिदम् । तारं रुद्रवधूँ विरञ्चिमहिलाविष्णुप्रियाकामयुक्कान्ते श्रीबगलानने मम रिपुन्नाशाय युग्मन्त्विति ॥ २॥ ऐश्वर्याणि पदञ्च देहि युगलं शीघ्रमनोवाञ्छितङ्कार्यं साधय युग्मयुक्छिववधूवह्निप्रियान्तो मनुः । कंसारेस्तनयञ्च बीजमपरा शक्तिश्च वाणी तथा कीलं श्रीमति भैरवर्ष्षिसहितञ्छन्दो विराट्संयुतम् ॥ ३॥ स्वेष्टार्थस्य परस्य वेत्ति नितराङ्कार्यस्य सम्प्राप्तये नानासाध्यमहागदस्य नियतन्नाशाय वीर्याप्तये । ध्यात्वा श्रीबगलाननामनुवरञ्जप्त्वा सहस्राख्यकन्दीग्र्धैः षट्कयुतैश्च रुद्रमहिताबीजैर्विनश्याङ्गके ॥ ४॥ ध्यानम् । सौवर्णासनसंस्थितां त्रिनयनां पीतांशुकोलासिनीं हेमाभाङ्गरुचिं शशाङ्कमुकुटां स्रक्चम्पकस्रग्युताम् । हस्तैर्मद्गरपाशबद्धरसनां सम्बिभ्रतीं भूषण- व्याप्ताङ्गीं बगलामुखीं त्रिजगतां संस्तम्भिनीञ्चिन्तये ॥ ॐ अस्य श्रीबगलामुखीब्रह्मास्त्रमन्त्रकवचस्य भैरव ऋषिः विराट्छन्दः श्रीबगलामुखी देवता क्लीम्बीजं ऐंशक्तिः श्रीङ्कीलकं मम परस्य च मनोभिलषितेष्टकार्यसिद्धये विनियोगः ॥ शिरसि भैरवऋषये नमः । मुखे विराट्छन्दसे नमः । हृदि बगलामुखीदेवतायै नमः । गुह्ये क्लीम्बीजाय नमः । पादयोः ऐंशक्तये नमः । सर्वाङ्गे श्रीङ्कीलकाय नमः । ॐ ह्रां अङ्गुष्ठाभ्यान् नमः । ॐ ह्रीं तर्जनीभ्यान् नमः । ॐ ह्रूं मध्यमाभ्यान् नमः । ॐ ह्रैं अनामिकाभ्यान् नमः । ॐ ह्रौं कनिष्ठिकाभ्यान् नमः । ॐ ह्रः करतलकरपृष्ठाभ्यान् नमः । ॐ ह्राँ हृदयाय नमः । ॐ ह्रीं शिरसे स्वाहा । ॐ ह्रूं शिखायैवषट् । ॐ ह्रैं कवचायहुम् । ॐ ह्रौं नेत्रत्रयायवौषट् । ॐ ह्रः अस्त्राय फट् ॥ मन्त्रोद्धारः ॐ ह्राँ ऐं श्रीं क्लीं श्रीबगलानने मम रिपून्नाशय २, ममैश्वर्याणि देहि २, शीघ्रमनोवाञ्छितकार्यं साधयः २, ह्रींस्वाहा ॥ शिरो मे पातु ॐ ह्रीं ऐं श्रीं क्लीं पातु ललाटकम् । सम्बोधनपदम्पातु नेत्रे श्रीबगलानने ॥ १॥ श्रुतौ मम रिपुम्पातु नासिकान्नाशय द्वयम् । पातु गण्डौ सदा मामैश्वर्याण्यन्तन्तु मस्तकम् ॥ २॥ देहि द्वन्द्वं सदा जिह्वाम्पातु शीघ्रँ वचो मम । कण्ठदेशं स नः पातु वाञ्छितम्बाहुमूलकम् ॥ ३॥ कार्यं साधय द्वन्द्वन्तु करौ पातु सदा मम । मायायुक्ता तथा स्वाहा हृदयम्पातु सर्वदा ॥ ४॥ अष्टाधिकचत्वारिंशदण्डाढ्या बगलामुखी । रक्षाङ्करोतु सर्वत्र गृहेऽरण्ये सदा मम ॥ ५॥ ब्रह्मास्त्राख्यो मनुः पातु सर्वाङ्गे सर्वसन्धिषु । मन्त्रराजः सदा रक्षाङ्करोतु मम सर्वदा ॥ ६॥ ॐ ह्रीं पातु नाभिदेशमे कटिमे बगलावतु । मुखी वर्णद्वयम्पातु लिङ्गमे मुष्कयुग्मकम् ॥ ७॥ जानुनी सर्वदुष्टानाम्पातु मे वर्णपञ्चकम् । वाचमुखन्तथा पादं षड्वर्णा परमेश्वरी ॥ ८॥ जङ्घायुग्मे सदा पातु बगला रिपुमोहिनी । स्तम्भयेति पदम्पृष्ठम्पातुवर्णत्रयमम ॥ ९॥ जिह्वाँ वर्णद्वयम्पातु गुल्फौ मे कीलयेति च । पादोद्र्ध्वं सर्वदा पातु बुद्धिं पादतले मम ॥ १०॥ विनाशयपदं पातु पादाङ्गुल्योर्न्नखानि मे । ह्रीं बीजं सर्वदा पातु बुद्धीन्द्रियवचांसि मे ॥ ११॥ सर्वाङ्गम्प्रणवः पातु स्वाहा रोमाणि मेऽवतु । ब्राह्मी पूर्वदले पातु चाग्नेयां विष्णुवल्लभा ॥ १२॥ माहेशी दक्षिणे पातु चामुण्डा राक्षसेऽवतु । कौमारी पश्चिमे पातु वायव्ये चापराजिता ॥ १३॥ वाराही चोत्तरे पातु नारसिंही शिवेऽवतु । ऊर्द्ध्वम्पातु महालक्ष्मीः पाताले शारदाऽवतु ॥ १४॥ इत्यष्टौ शक्तयः पान्तु सायुधाश्च सवाहनाः । राजद्वारे महादुर्गे पातु माङ्गणनायकः ॥ १५॥ श्मशाने जलमध्ये च भैरवश्च सदाऽवतु । द्विभुजा रक्तवसनाः सर्वाभरणभूषिताः ॥ १६॥ योगिन्यः सर्वदा पातु महारण्ये सदा मम । इति ते कथितन्देवि कवचम्परमाद्भुतम् ॥ १७॥ श्रीविश्वविजयन्नाम कीर्तिश्रीविजयप्रदम् । अपुत्रो लभते पुत्रन्धीरं शूरं शतायुषम् ॥ १८॥ निर्द्धनो धनमाप्नोति कवचस्यास्य पाठतः । जपित्वा मन्त्रराजन्तु ध्यात्वा श्रीबगलामुखीम् ॥ १९॥ पठेदिदं हि कवचन्निशायान्नियमात्तु यः । यद्यत्कामयते कामं साध्यासाध्ये महीतले ॥ २०॥ तत्तत्काममवाप्नोति सप्तरात्रेण शङ्करी । गुरुन्ध्यात्वा सुराम्पीत्वा रात्रौ शक्तिसमन्वितः ॥ २१॥ कवचण् यः पठेद्देवि तस्याऽसाध्यन्न किञ्चन । यन्ध्यात्वा प्रजपेन्मन्त्रसहस्रङ्कवचम्पठेत् ॥ २२॥ त्रिरात्रेण वशयाति मृत्युन्तन्नात्र संशयः । लिखित्वा प्रतिमां शत्रोस्सतालेन हरिद्रया ॥ २३॥ लिखित्वा हृदि तन्नाम तन्ध्यात्वा प्रजपेन्मनुम् । एकविंशदिनं यावत्प्रत्यहञ्च सहस्रकम् ॥ २४॥ जप्त्वा पठेत्तु कवचञ्चतुर्विंशतिवारकम् । संस्तम्भञ्जायते शत्रोर्न्नात्र कार्या विचारणा ॥ २५॥ विवादे विजयन्तस्य सङ्ग्रामे जयमाप्नुयात् । श्मशाने च भयन्नास्ति कवचस्य प्रभावतः ॥ २६॥ नवनीतञ्चाभिमन्त्र्य स्त्रीणान्दद्यान्महेश्वरि । वन्ध्यायाञ्जायते पुत्रो विद्याबलसमन्वितः ॥ २७॥ श्मशानाङ्गारमादाय भौमे रात्रौ शनावथ । पादोदकेन स्पृष्ट्वा च लिखेलौहशलाकया ॥ २८॥ भूमौ शत्रोः स्वरूपञ्च हृदि नाम समालिखेत् । हस्तन्तद्धृदये दत्वा कवचन्तिथिवारकम् ॥ २९॥ ध्यात्वा जपेन्मन्त्रराजन्नवरात्रम्प्रयत्नतः । म्रियते ज्वरदाहेन दशमेऽह्नि न संशयः ॥ ३०॥ भूर्जपत्रेष्विदं स्तोत्रमष्टगन्धेन सँलिखेत् । धारयेद्दक्षिणे बाहौ नारी वामभुजे तथा ॥ ३१॥ सङ्ग्रामे जयमाप्नोति नारी पुत्रवती भवेत् । ब्रह्मास्त्रादीनि शस्त्राणि नैव कृन्तन्ति तञ्जनम् ॥ ३२॥ सम्पूज्य कवचन्नित्यम्पूजायाः फलमालभेत् । बृहस्पतिसमो वापि विभवे धनदोपमः ॥ ३३॥ कामतुल्यश्च नारीणां शत्रूणाञ्च यमोपमः । कवितालहरी तस्य भवेद्गङ्गाप्रवाहवत् ॥ ३४॥ गद्यपद्यमयी वाणी भवेद्देवीप्रसादतः । एकादशशतं यावत्पुरश्चरणमुच्यते ॥ ३५॥ पुरश्चर्याविहीनन्तु न चेदम्फलदायकम् । न देयम्परशिष्येभ्यो दुष्टेभ्यश्च विशेषतः ॥ ३६॥ देयं शिष्याय भक्ताय पञ्चत्वञ्चाऽन्यथाप्नुयात् । इदङ्कवचमज्ञात्वा भजेद्यो बगलामुखीम् ॥ शतकोटि जपित्वा तु तस्य सिद्धिर्न्न जायते ॥ ३७॥ दाराढ्यो मनुजोस्य लक्षजपतः प्राप्नोति सिद्धिम्परां विद्यां श्रीविजयन्तथा सुनियतन्धारञ्च वीरं वरम् ॥ ब्रह्मास्त्राख्यमनुं विलिख्य नितराम्भूर्जेष्टगन्धेन वै धृत्वा राजपुरं व्रजन्ति खलु ये दासोऽस्ति तेषान्नृपः ॥ ३८॥ इति विश्वसारोद्धारतन्त्रे पार्वतीश्वरसंवादे बगलामुखीकवचं सम्पूर्णम् ॥ Proofread by lalitha parameswari parameswari.lalitha at gmail.com
% Text title            : Bagalamukhi Kavacham 2
% File name             : bagalAmukhIkavacham2.itx
% itxtitle              : bagalAmukhIkavacham 2 (vishvasAroddhAratantrAntargatam shiro me pAtu OM hrIM aiM)
% engtitle              : bagalAmukhI kavacham 2
% Category              : devii, kavacha, dashamahAvidyA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : lalitha parameswari parameswari.lalitha at gmail.com
% Description/comments  : shAktapramodaH
% Indexextra            : (Scan)
% Latest update         : July 29, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org