श्रीबगलापञ्जरस्तोत्रम् अथवा श्रीपीताम्बरापञ्जरस्तोत्रम्

श्रीबगलापञ्जरस्तोत्रम् अथवा श्रीपीताम्बरापञ्जरस्तोत्रम्

सूत उवाच - सहस्रादित्यसङ्काशं शिवं साम्बं सनातनम् । प्रणम्य नारदः प्राह विनम्रो नतकन्धरः ॥ १॥ श्रीनारद उवाच - भगवन् साम्ब तत्त्वज्ञ सर्वदुःखापहारक । श्रीमत्पीताम्बरादेव्याः पञ्जरं पुण्यदं सताम् ॥ २॥ प्रकाशय विभो नाथ कृपां कृत्वा ममोपरि । यद्यहं तव पादाब्जधूलिधूसरितोऽभवत् ॥ ३॥ विनियोगः - अस्य श्रीमद्बगलामुखी पीताम्बरा पञ्जररूपस्तोत्रमन्त्रस्य भगवान् नारदऋषिः, अनुष्टुप्छन्दः, जगद्वश्यकरी श्रीपीताम्बरा बगलामुखी देवता, ह्लीं बीजं, स्वाहा शक्तिः, क्लीं कीलकं, मम विपक्षपरसैन्यमन्त्र-तन्त्र-यन्त्रादिकृत्यक्षयार्थं श्रीमत्पीताम्बरा बगलामुखी देवताप्रीत्यर्थे च जपे विनियोगः ॥ ऋष्यादि न्यासः - भगवान् नारदऋषये नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे । जगद्वश्यकरी श्रीपीताम्बरा बगलामुखी देवतायै नमः हृदये । ह्लीं बीजाय नमः दक्षिणस्तने स्वाहा । शक्त्यै नमः वामस्तने । क्लीं कीलकाय नमः नाभौ । मम विपक्षपरसैन्यमन्त्रतन्त्रयन्त्रादिकृत्यक्षयार्थं श्रीमत्पीताम्बरा बगलादेव्याः प्रीतये जपे विनियोगः । करसम्पुटेन करमूलेन करशुद्धिः । ह्लामिति षट्दीर्घेण षडङ्गः । मूलेन व्यापकन्यासं कुर्यात् ॥ करन्यासः - ह्लां अङ्गुष्ठाभ्यां नमः । ह्लीं तर्जनीभ्यां स्वाहा । ह्लूं मध्यमाभ्यां वषट् । ह्लैं अनामिकाभ्यां हुम् । ह्लौं कनिष्ठिकाभ्यां वौषट् । ह्लः करतलकरपृष्ठाभ्यां फट् ॥ अङ्गन्यासः - ह्लां हृदयाय नमः । ह्लीं शिरसे स्वाहा । ह्लूं शिखायै वषट् । ह्लैं कवचाय हुम् । ह्लौ नेत्रत्रयाय वौषट् । ह्लः अस्त्राय फट् ॥ व्यापकन्यासः - ॐ ह्लीं अङ्गुष्ठाभ्यां नमः । ॐ बगलामुखी तर्जनीभ्यां स्वाहा । ॐ सर्वदुष्टानां मध्यमाभ्यां वषट् । ॐ वाचं मुखं पदं स्तम्भय अनामिकाभ्यां हुम् । ॐ जिह्वां कीलय कनिष्ठिकाभ्यां वौषट् । ॐ बुद्धिं विनाशय ह्लीं ॐ स्वाहा करतलकरपृष्ठाभ्यां फट् ॥ अङ्गन्यासः - ॐ ह्लीं हृदयाय नमः । ॐ बगलामुखि शिरसे स्वाहा । ॐ सर्वदुष्टानां शिखायै वषट् । ॐ वाचं मुखं पदं स्तम्भय कवचाय हुम् । ॐ जिह्वां कीलय नेत्रत्रयाय वौषट् । ॐ बुद्धिं विनाशय ह्लीं ॐ स्वाहा, अस्त्राय फट् ॥ ध्यानम् - मध्ये सुधाब्धिमणिमण्डपरत्नवेद्यां var मणिमण्डितरत्नवेद्यां सिंहासनोपरिगतां परिपीतवर्णाम् । पीताम्बराभरणमाल्यविभूषिताङ्गीं देवीं स्मरामि धृतमुद्गरवैरिजिह्वाम् ॥ var नमामि इति ध्यात्वा मनसा सम्पूज्य, योनिमुद्रां एवं मुद्गरमुद्रां प्रदर्शय, ऋष्यादिन्यासं कृत्वा, पञ्जरं न्यस्येत्त् । श्रीपीताम्बरायै नमः लं पृथिव्यात्मकं गन्धं परिकल्पयामि । श्रीपीताम्बरायै नमः हं आकाशात्मकं पुष्पं परिकल्पयामि । श्रीपीताम्बरायै नमः यं वायव्यात्मकं धूपं परिकल्पयामि । श्रीपीताम्बरायै नमः वं अमृतात्मकं नैवेद्यं परिकल्पयामि ॥ अथ पञ्जरस्तोत्रम् । श्रीशिव उवाच - पञ्जरं तत्प्रवक्ष्यामि देव्याः पापप्रणाशनम् । यं प्रविश्य च बाधन्ते बाणैरपि नराः क्वचित् ॥ १॥ ॐ ऐं ह्लीं श्रीं श्रीमत्पीताम्बरादेवी बगला बुद्धिवर्द्धिनी । पातु मामनिशं साक्षात् सहस्रार्कसमद्युतिः ॥ २॥ ॐ ऐं ह्लीं श्रीं शिखादिपादपर्यन्तं वज्रपञ्जरधारिणी । ब्रह्मास्त्रसंज्ञा या देवी पीताम्बराविभूषिता ॥ ३॥ ॐ ऐं ह्लीं श्रीं श्रीबगला ह्यवत्वत्र चोर्ध्वभागं महेश्वरी । कामाङ्कुशा कला पातु बगला शास्त्रबोधिनी ॥ ४॥ ॐ ऐं ह्लीं श्रीं पीताम्बरा सहस्राक्षा ललाटं कामितार्थदा । पातु मां बगला नित्यं पीताम्बरसुधारिणी ॥ ५॥ ॐ ऐं ह्लीं श्रीं कर्णयोश्चैव युगपदातिरत्नप्रपूजिता । पातु मां बगलादेवी नासिकां मे गुणाकरा ॥ ६॥ ॐ ऐं ह्लीं श्रीं पीतपुष्पैः पीतवस्त्रैः पूजिता वेददायिनी । पातु मां बगला नित्यं ब्रह्मविष्ण्वादिसेविता ॥ ७॥ ॐ ऐं ह्लीं श्रीं पीताम्बरा प्रसन्नास्या नेत्रयोर्युगपद्भ्रुवौ । पातु मां बगला नित्यं बलदा पीतवस्त्रधृक् ॥ ८॥ var बलिदा ॐ ऐं ह्लीं श्रीं अधरोष्ठौ तथा दन्तान् जिह्वां च मुखगां मम । पातु मां बगलादेवी पीताम्बरसुधारिणी ॥ ९॥ ॐ ऐं ह्लीं श्रीं गले हस्ते तथा बाह्वोः युगपद्बुद्धिदासताम् । पातु मां बगलादेवी दिव्यस्रगनुलेपना ॥ १०॥ ॐ ऐं ह्लीं श्रीं हृदये च स्तने नाभौ करावपि कृशोदरी । पातु मां बगला नित्यं पीतवस्त्रघनावृता ॥ ११॥ जङ्घायां च तथा चोर्वोर्गुल्फयोश्चातिवेगिनी । अनुक्तमपि यत्स्थानं त्वक्केशनखलोमकम् ॥ १२॥ असृङ्मांसं तथास्थीनी सन्धयश्चापि मे परा । ताः सर्वा बगलादेवी रक्षेन्मे च मनोहरा ॥ १३॥ फलश्रुतिः । इत्येतद्वरदं गोप्यं कलावपि विशेषतः । पञ्जरं बगलादेव्याः घोरदारिद्र्यनाशनम् । पञ्जरं यः पठेद्भक्त्या स विघ्नैर्नाभिभूतये ॥ १४॥ अव्याहतगतिश्चास्य ब्रह्मविष्ण्वादिसत्पुरे । स्वर्गे मर्त्ये च पाताले नारयस्तं कदाचन ॥ १५॥ न बाधन्ते नरव्याघ्रं पञ्जरस्थं कदाचन । अतो भक्तैः कौलिकैश्च स्वरक्षार्थं सदैव हि ॥ १६॥ पठनीयं प्रयत्नेन सर्वानर्थविनाशनम् । महादारिद्र्यशमनं सर्वमाङ्गल्यवर्धनम् ॥ १७॥ विद्याविनयसत्सौख्यं महासिद्धिकरं परम् । इदं ब्रह्मास्त्रविद्यायाः पञ्जरं साधु गोपितम् ॥ १८॥ पठेत्स्मरेद्ध्यानसंस्थः स जयेन्मरणं नरः । यः पञ्जरं प्रविश्यैव मन्त्रं जपति वै भुवि ॥ १९॥ कौलिकोऽकौलिको वापि व्यासवद्विचरेद्भुवि । चन्द्रसूर्यसमो भूत्वा वसेत्कल्पायुतं दिवि ॥ २०॥ श्रीसूत उवाच इति कथितमशेषं श्रेयसामादिबीजम् । भवशतदुरितघ्नं ध्वस्तमोहान्धकारम् । स्मरणमतिशयेन प्राप्तिरेवात्र मर्त्यः । यदि विशति सदा वै पञ्जरं पण्डितः स्यात् ॥ २१॥ ॥ इति परमरहस्यातिरहस्ये श्रीपीताम्बरापञ्जरस्तोत्रं सम्पूर्णम् ॥ वज्रपञ्जरकवचस्तोत्रम् Encoded by DPD Proofread by DPD, PSA Easwaran
% Text title            : bagalApanjarastotram
% File name             : bagalApanjarastotram.itx
% itxtitle              : bagalApanjarastotram athavA pItAmbarApanjarastotram
% engtitle              : bagalApanjarastotram
% Category              : devii, dashamahAvidyA, panjara, devI, kavacha
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DPD
% Proofread by          : DPD, PSA Easwaran
% Indexextra            : (Scan)
% Latest update         : July 30, 2017
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org