भार्गवीभार्गवक्षेत्रस्तुतिः
%८५
भार्गवीबाहुदायोगे भार्गवं क्षेत्रमुत्तमम् ।
वरीवर्ति क्षितौ यत्र तत्रेश्वरगदाधरौ ॥ १॥
परिपिपालयिषुर्जगतः स्थितिं महति यत्र तु शेषधरे स्थितिम् ।
हरिरजो व्यकरोत्तत आहृता सरिदसौ भृगुणाप्यघभीहृता ॥ २॥
स्वमातृहत्याकलुषाश्रयाशदन्दह्यमानो भृगुनन्दनोऽभूत् ।
रामः प्रशान्तोलघयिष्यतात्र भुवो भरं तेन बलं लब्धम् ॥ ३॥
प्रविष्टमात्रस्य नरस्य तीर्थं दन्दह्यमानानि महान्त्यघानि ।
प्रयान्ति नाशं जगतीह वन्द्यं श्रीभार्गवक्षेत्रमिहानवद्यम् ॥ ४॥
इति श्रीवासुदेवानन्दसरस्वतीविरचिता भार्गवीभार्गवक्षेत्रस्तुतिः समाप्ता ।