श्रीभद्रकाल्यष्टकम्
श्रीमच्छङ्करपाणिपल्लवकिरल्लोलंबमालोल्लस-
न्मालालोलकलापकालकबरीभारावलीभासुरीम् ।
कारुण्यामृतवारिराशिलहरीपीयूषवर्षावलीं
बालांबां ललितालकामनुदिनं श्रीभद्रकालीं भजे ॥ १॥
हेलादारितदारिकासुरशिरःश्रीवीरपाणोन्मद-
श्रेणीशोणितशोणिमाधरपुटीं वीटीरसास्वादिनीम् ।
पाटीरादिसुगन्धिचूचुकतटीं शाटीकुटीरस्तनीं
घोटीवृन्दसमानधाटियुयुधीं श्रीभद्रकालीं भजे ॥ २॥
बालार्कायुतकोटिभासुरकिरीटामुक्तमुग्धालक-
श्रेणीनिन्दितवासिकामरुसरोजाकाञ्चलोरुश्रियम् ।
वीणावादनकौशलाशयशयश्र्यानन्दसन्दायिनी-
मम्बामम्बुजलोचनामनुदिनं श्रीभद्रकालीं भजे ॥ ३॥
मातङ्गश्रुतिभूषिणीं मधुधरीवाणीसुधामोषिणीं
भ्रूविक्षेपकटाक्षवीक्षणविसर्गक्षेमसंहारिणीम् ।
मातङ्गीं महिषासुरप्रमथिनीं माधुर्यधुर्याकर-
श्रीकारोत्तरपाणिपङ्कजपुटीं श्रीभद्रकालीं भजे ॥ ४॥
मातङ्गाननबाहुलेयजननीं मातङ्गसंगामिनीं
चेतोहारितनुच्छवीं शफरिकाचक्षुष्मतीमम्बिकाम् ।
जृंभत्प्रौढिनिशुंभशुंभमथिनीमंभोजभूपूजितां
सम्पत्सन्ततिदायिनीं हृदि सदा श्रीभद्रकालीं भजे ॥ ५॥
आनन्दैकतरङ्गिणीममलहृन्नालीकहंसीमणीं
पीनोत्तुङ्गघनस्तनां घनलसत्पाटीरपङ्कोज्ज्वलाम् ।
क्षौमावीतनितंबबिंबरशनास्यूतक्वणत् किङ्किणीं
एणांङ्कांबुजभासुरास्यनयनां श्रीभद्रकालीं भजे ॥ ६॥
कालांभोदकलायकोमलतनुच्छायाशितीभूतिमत्-
संख्यानान्तरितस्तनान्तरलसन्मालाकिलन्मौक्तिकाम् ।
नाभीकूपसरोजनालविलसच्छातोदरीशापदीं
दूरीकुर्वयि देवि, घोरदुरितं श्रीभद्रकालीं भजे ॥ ७॥
आत्मीयस्तनकुंभकुङ्कुमरजःपङ्कारुणालंकृत-
श्रीकण्ठौरसभूरिभूतिममरीकोटीरहीरायिताम् ।
वीणापाणिसनन्दनन्दितपदामेणीविशालेक्षणां
वेणीह्रीणितकालमेघपटलीं श्रीभद्रकालीं भजे ॥ ८॥
फलश्रुतिः
देवीपादपयोजपूजनमिति श्रीभद्रकाल्यष्टकं
रोगौघाघघनानिलायितमिदं प्रातः प्रगेयं पठन् ।
श्रेयः श्रीशिवकीर्तिसम्पदमलं सम्प्राप्य सम्पन्मयीं
श्रीदेवीमनपायिनीं गतिमयन् सोऽयं सुखी वर्तते ॥
इति श्रीनारायणगुरुविरचितं श्रीभद्रकाल्यष्टकं सम्पूर्णम् ।
Encoded by Shankara and P. S. Ramachandran
Proofread by Shankara, PSA Easwaran