देवीभगवतीस्तुतिः
इलोवाच -
दिव्यं च ते भगवति प्रथितं स्वरूपं
दृष्टं मया सकललोकहितानुरूपम् ।
वन्दे त्वदंघ्रिकमलं सुरसङ्घसेव्यं
कामप्रदं जननि चापि विमुक्तिदं च ॥ १॥
को वेत्ति तेऽम्ब भुवि मर्त्यतनुर्निकामं
मुह्यन्ति यत्र मुनयश्च सुराश्च सर्वे ।
ऐश्वर्यमेतदखिलं कृपणे दयां च
दृष्ट्वैव देवि सकलं किल विस्मयो मे ॥ २॥
शम्भुर्हरिः कमलजो मघवा रविश्च
वित्तेशवह्निवरुणाः पवनश्च सोमः ।
जानन्ति नैव वसवोऽपि हि ते प्रभावं
बुध्येत्कथं तव गुणानगुणो मनुष्यः ॥ ३॥
जानाति विष्णुरमितद्युतिरम्ब साक्षा-
त्त्वां सात्त्विकीमुदधिजां सकलार्थदां च ।
को राजसीं हर उमां किल तामसीं त्वां
वेदाम्बिके न तु पुनः खलु निर्गुणां त्वाम् ॥ ४॥
क्वाहं सुमन्दमतिरप्रतिमप्रभावः
क्वायं तवातिनिपुणो मयि सुप्रसादः ।
जाने भवानि चरितं करुणासमेतं
यत्सेवकांश्च दयसे त्वयि भावयुक्तान् ॥ ५॥
वृत्तस्त्वया हरिरसौ वनजेशयापि
नैवाचरत्यपि मुदं मधुसूदनश्च ।
पादौ तवादिपुरुषः किल पावकेन
कृत्वा करोति च करेण शुभौ पवित्रौ ॥ ६॥
वाञ्छत्यहो हरिरशोक इवातिकामं
पादाहतिं प्रमुदितः पुरुषः पुराणः ।
तां त्वं करोषि रुषिता प्रणतं च पादे
दृष्ट्वा पतिं सकलदेवनुतं स्मरार्तम् ॥ ७॥
वक्षःस्थले वससि देवि सदैव तस्य
पर्यङ्कवत्सुचरिते विपुलेऽतिशान्ते ।
सौदामिनीव सुघने सुविभूषिते च
किं ते न वाहनमसौ जगदीश्वरोऽपि ॥ ८॥
त्वं चेज्जहासि मधुसूदनमम्ब कोपा-
न्नैवार्चितोऽपि स भवेत्किल शक्तिहीनः ।
प्रत्यक्षमेव पुरुषं स्वजनास्त्वजन्ति
शान्तं श्रियोज्झितमतीव गुणैर्वियुक्तम् ॥ ९॥
ब्रह्मादयः सुरगणा न तु किं युवत्यो
ये त्वत्पदाम्बुजमहर्निशमाश्रयन्ति ।
मन्ये त्वयैव विहिताः खलु ते पुमांसः
किं वर्णयामि तव शक्तिमनन्तवीर्ये ॥ १०॥
त्वं नापुमान्न च पुमानिति मे विकल्पो
याकासि देवि सगुणा ननु निर्गुणा वा ।
तां त्वां नमामि सततं किल भावयुक्तो
वाञ्छामि भक्तिमचलां त्वयि मातरं तु ॥ ११॥
सूत उवाच -
इति स्तुत्वा महीपालो जगाम शरणं तदा ।
परितुष्टा ददौ देवी तत्र सायुज्यमात्मनि ॥ १२॥
सुद्युम्नस्तु ततः प्राप पदं परमकं स्थिरम् ।
तस्या देव्याः प्रसादेन मुनीनामपि दुर्लभम् ॥ १३ ॥
इति श्रीमद्देवीभागवतमहापुराणे प्रथमस्कन्धान्तरगते
द्वादशोऽध्याये सुद्युम्न एवं इलाकृतं देवीभगवतीस्तुतिः सम्पूर्णा ।
Encoded and proofread by Vishwas Bhide, PSA Easwaran