श्रीभ्रमराम्बाष्टकम्

श्रीभ्रमराम्बाष्टकम्

श्रीकान्तस्तुतसद्गुणाञ्चितपदां सिद्धर्षिसंसेवितां बालेन्दुद्युतिपादपल्लवयुतां ब्रह्माण्डसञ्चारिणीम् । चारुश्रीकलशातपत्रकमहासौभाग्यरेखाङ्घ्रिकां श्रीशैलभ्रमराम्बिकां शिवयुतां चिन्मात्रमूर्तिं भजे ॥ १॥ पादाम्भोरुहमध्यमानमहिषाम्भद्रायमानोदयां कूर्माकारपदोपरिस्थलरुचिं घोरान्धकारापहाम् । जलघानिर्मितमान्मधेयशरधिं जम्बूफलश्रीमयीं श्रीशैलभ्रमराम्बिकां शिवयुतां चिन्मात्रमूर्तिं भजे । २॥ जानुश्रीजितकुम्भिकुम्भविभवां चण्डीं महायोगिनीं रम्भारम्भकराधरोरु युगलां रत्नासनस्थायिनीम् । श्रीचक्राङ्कितचक्रविभ्रमकटीं सिन्दूरवर्णोज्ज्वलां श्रीशैलभ्रमराम्बिकां शिवयुतां चिन्मात्रमूर्तिं भजे ॥ ३॥ भर्मानिर्मितदिव्यरत्नदलनां भव्याम्बरालङ्कृतां सौन्दर्योधकपूर्णनाभिसरसीं शातोल्लसन्मध्यमाम् । वक्शोजद्वयशातकुम्भकलशां वश्यादि मन्त्रात्मिकां श्रीशैलभ्रमराम्बिकां शिवयुतां चिन्मात्रमूर्तिं भजे ॥ ४॥ कण्ठालम्बिततारहारपटलां कैवल्यसन्दायिनीं शोभाजालमृणालबाहुडमरु स्थूलाब्जचक्राङ्किताम् । सद्बिम्बाधररक्तकुन्दवदनां स्वारस्य सम्भाषिणीं श्रीशैलभ्रमराम्बिकां शिवयुतां चिन्मात्रमूर्तिं भजे ॥ ५॥ नक्षत्राधिकनासिकामणिधरां नव्यारविन्देक्षणां मुक्तालङ्कृतकर्णभूषणयुगां मुग्धप्रतापान्विताम् । आदर्शामलगण्डमण्डलधरामानन्दपूर्णान्तरां श्रीशैलभ्रमराम्बिकां शिवयुतां चिन्मात्रमूर्तिं भजे ॥ ६॥ श्रीबालां च सुगन्धिगन्धतिलकां नव्यद्विरेपालकां सीमन्तायुतनद्दमौक्तकसरां श‍ृङ्गाररङ्गत्कचाम् । गाङ्गेयाचितरत्नकङ्कणझणत्काराग्रहस्तद्वयां श्रीशैलभ्रमराम्बिकां शिवयुतां चिन्मात्रमूर्तिं भजे ॥ ७॥ सर्वाङ्गाभरणां प्रसन्नवदनां सर्वेश्वरीं सर्वदां सर्वज्ञां सजलाभ्रविभ्रमतनुं भक्तप्रियामम्बिकाम् । मौलिस्थापितचन्द्रशेखरवरां माल्यार्पिताङ्गां शिवां श्रीशैलभ्रमराम्बिकां शिवयुतां चिन्मात्रमूर्तिं भजे ॥ ८॥ कल्याणीं कमलासनस्थचरणां गौरीं घनश्यामला ग्रैवेयाकृतहारनूपुरधरां कञ्जातप्राय्तेक्षणाम् । गङ्गातुङ्गतरङ्गभासवदनां गन्धर्वगानप्रियां श्रीशैलभ्रमराम्बिकां शिवयुतां चिन्मात्रमूर्तिं भजे ॥ ९॥ श्रीशैलभ्रमराम्बिकाष्टकमिदं श्रेयस्करं शाश्वतं चैन्द्रश्रीकरमप्रमेयमतुलं हर्षप्रदं बुद्धिदम् । प्रभाते नियमात्पठेद्यदि पुमान् भक्त्यन्तरात्मशुचिः शौक्लींशान्तिमवाप्नुयात्रिजगतां सर्वेश्वरत्वं जयम् ॥ १०॥ इति श्रीभ्रमराम्बाष्टकं समाप्तम् । Proofread by Vani V.
% Text title            : Shri Bhramaramba Ashtakam 3
% File name             : bhramarAmbAShTakam3.itx
% itxtitle              : bhramarAmbAShTakam 3 (shrIkAntastutasadguNAnchitapadAM siddharShisaMsevitAM)
% engtitle              : bhramarAmbAShTakam 3
% Category              : devii, aShTaka, otherforms, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Vani V.
% Latest update         : July 22, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org