वेदगर्भं श्रीभुवनेश्वरीस्तोत्रम् अथवा श्रीभुवनेश्वरीमहास्तोत्रम्
श्रीगणेशाय नमः ॥
ध्यानम् -
ॐ चञ्चन्मौक्तिकहेममण्डनयुता माताऽतिरक्ताम्बरा
तन्वङ्गी नयनत्रयातिरुचिरा बालार्कवद्भासुरा ।
या दिव्याङ्कुशपाशभूषितकरा देवी सदा भीतिहा
चित्तस्था भुवनेश्वरी भवतु नः सेयं मुदः सर्वदा ॥
कर्णस्वर्णविलोलकुडलधरामापीनवक्षोरुहां
मुक्ताहारविभूषणां परिलसद्धम्मिल्लसन्मल्लिकाम् ।
लीलालोलितलोचनां शशिमुखीमाबद्धकाञ्चीस्रजं
दीव्यन्तीं भुवनेश्वरीमनुदिनं वन्दामहे मातरम् ॥
ऐन्दव्या कलयावतंसितशिरोविस्तारिनादात्मकं
तद्रूपं जननि स्मरामि परमं सन्मात्रमेकं तव ।
यत्रोदेति पराभिधा भगवती भासां हि तासां पदं
पश्यन्ती तनुमध्यमा विहरति स्वैरं च सा वैखरी ॥ १॥
आदिक्षान्तविलासलालसतया तासां तुरीया तु या
क्रोडीकृत्य जगत्त्रयं विजयते वेदादिविद्यामयी ।
तां वाचं मयि सम्प्रसादय सुधाकल्लोलकोलाहल-
क्रीडाकर्णनवर्णनीयकवितासाम्राज्यसिद्धिप्रदाम् ॥ २॥
कल्पादौ कमलासनोऽपि कलया विद्धः कयाचित्किल
त्वां ध्यात्वाङ्कुरयाञ्चकार चतुरो वेदांश्च विद्याश्च ताः ।
तन्मातर्ललिते प्रसीद सरलं सारस्वतं देहि मे
यस्यामोदमुदीरयन्ति पुलकैरन्तर्गता देवताः ॥ ३॥
मातर्देहभृतामहो धृतिमयी नादैकरेखामयी
सा त्वं प्राणमयी हुताशनमयी बिन्दुप्रतिष्ठामयी ।
तेन त्वां भुवनेश्वरीं विजयिनीं ध्यायामि जायां विभो-
स्त्वत्कारुण्यविकाशिपुण्यमतयः खेलन्तु मे सूक्तयः ॥ ४॥
त्वामश्वत्थदलानुकारमधुरामाधारबद्धोदरां
संसेवे भुवनेश्वरीमनुदिनं वाग्देवतामेव ताम् ।
तन्मे शारदकौमुदीपरिचयोदञ्चत्सुधासागर-
स्वैरोज्जागरवीचिविभ्रमजितो दीव्यन्तु दिव्या गिरः ॥ ५॥
लेखप्रस्तुतवेद्यवस्तुसुरभिश्रीपुस्तकोत्तंसितो
मातः स्वस्तिकृदस्तु मे तव करो वामोऽभिरामः श्रिया ।
सद्यो विद्रुमकन्दलीसरलतासन्दोहसान्द्राङ्गुलिर्मुद्रां
बोधमयीं दधत्तदपरोऽप्यास्तामपास्तभ्रमः ॥ ६॥
मातः पातकजालमूलदलनक्रीडाकठोरा दृशः
कारुण्यामृतकोमलास्तव मयि स्फूर्जन्तु सिद्ध्यर्जिताः ।
आभिः स्वाभिमतप्रबन्धलहरीसाकूतकौतूहलाऽ-
ऽचान्तस्वान्तचतुर्मुखोचितगुणोद्गारां करिष्ये गिरम् ॥ ७॥
त्वामाधारचतुर्दलाम्बुजगतां वाग्बीजगर्भे यजे
प्रत्यावृत्तिभिरादिभिः कुसुमितां मायालतामुन्नताम् ।
चूडामूलपवित्रपत्रकमलप्रेङ्खोलखेलत्युधा-
कल्लोलासु कुचक्रचङ्क्रमचमत्कारैकलोकोत्तराम् ॥ ८॥
सोऽहं त्वत्करुणाकटाक्षशरणः पञ्चाध्वसञ्चारतः
प्रत्याहृत्य मनो वसामि रसनालिङ्गं ममालिङ्गतु ।
श्रीसर्वज्ञविभूषणीकृतकलानिःस्यन्द्रमानामृत-
स्वच्छन्दस्फटिकाद्रिसान्द्रितपयः शोभावती भारती ॥ ९॥
मातर्मातृकया विदर्भितमिदं गर्भीकृतानाहत-
स्वच्छन्द्रध्वनिपेयमध्वनिरतं चन्द्रार्कनिद्रागिरौ ।
संसेवे विपरीतरीतिरचनोच्चारादकारावधि-
स्वाधीनामृतसिन्धुबन्धुरमहो मायामयं ते महः ॥ १०॥
तस्मान्नन्दनचारुचन्दनतरुच्छायासु पुप्पासव-
स्वैरास्वादनमोदमानमनसामुद्दामवामभ्रुवाम् ।
वीणासङ्गितरङ्गितस्वरचमत्कारोऽपि सारोज्झितो
येन स्यादिह देहि मे तदभितः सञ्चारि सारस्वतम् ॥ ११॥
आधारे हृदये शिखापरिसरे सन्धाय मेधामयीं
त्रेधाबीजतनूमनूनकरुणापीयूषकल्लोलिनीम् ।
त्वां मातर्जपतो निरङ्कुशनिजाद्वैतामृतास्वादन-
प्रज्ञाम्भश्चुलुकैः स्फुरन्तु पुलकैरङ्गानि तुङ्गानि मे ॥ १२॥
वाणीबीजमिदं जपामि परमं तत्कामराजाभिधं
मातः सान्तपरं विसर्गसहितौकारोत्तरं तेन मे ।
दीर्घान्दोलितमौलिकीलितमणिप्रारब्धनीराजनैधीरैः
पीतरसा निरन्तरमसौ वाग्जृभतामद्भुता ॥ १३॥
चूडाचन्द्रकलानिरतरगलत्पीयूषबिन्दुश्रिया
सन्देहोचितमक्षसूत्रवलयं या बिभ्रती निर्भरम् ।
अन्तर्मन्त्रमयं स्वमेव जपसि प्रत्यक्षवृत्त्यक्षरं
सा त्वं दक्षिणपाणिनाम्ब वितर श्रेयांसि भूयांसि मे ॥ १४॥
बद्ध्वा स्वस्तिकमासनं सितरुचिच्छेदावदातच्छवि-
श्रेणिश्रीसुभगं भविष्णुसततव्याजृम्भमाणेऽम्बुजे ।
दीव्यन्तीमधिवामजानु रुचिरन्यस्तेन हस्तेन तां
नित्यं पुस्तकधारणप्रणयिनीं सेवे गिरामीश्वरीम् ॥ १५॥
तन्मे विश्वपथीनपीनविलसन्निःसीमसारस्वत-
स्रोतोवीचिविचित्रभङ्गिसुभगा विभ्राजतां भारती ।
यामाकर्ण्य विघूर्णमानमनसः प्रेङ्खोलितैमीलिभि-
र्मीलद्भिर्नयनाञ्चलैः सुमनसो निन्देयुरिन्दोः कलाम् ॥ १६॥
आदौ वाग्भवमिन्दुबिन्दुमधुरं झान्ते च कामात्मकं
योगान्ते कषयोस्तृतीयमिति ते बीजत्रयं ध्यायताम् ।
सार्धं मातृकया विलोमविषमं सन्धाय बन्धच्छिदा
वाचान्तर्गतया महेश्वरि मया मात्राशतं जप्यते ॥ १७॥
तत्सारस्वतसार्वभौमपदवी सद्यो मम द्योततां
यत्राज्ञाविहितैर्महाकविशतैः स्फीतां गिरं चुम्बताम् ।
चैत्रोन्मीलितकेलिकोकिलकुहूकारावतारञ्चित-
श्लाघासञ्चितपञ्चमश्रुतिसमाहारोऽपि भारोपमः ॥ १८॥
वाग्बीजं भुवनेश्वरीं वद वदेत्युच्चार्य वाग्वादिनि
स्वाहावर्णविशीर्णपातकभरां ध्यायामि नित्यां गिरम् ।
वीणापुस्तकमक्षसूत्रवलयं व्याजृम्भमम्भोरुहं
बिभ्राणामरुणाशुभिः करतलैराविर्भवद्विभ्रमाम् ॥ १९॥
तं मातः कृपया तरङ्गयतरां विद्याधिपत्यं मयि
ज्योत्स्नासौरभचौरकीर्तिकवितासेव्यैकसिंहासनम् ।
कालाज्ञादिशिवावसानभवनप्राग्भारकुक्षिम्भरि
प्रज्ञाम्भःपरिपाकपीवरपरानन्दप्रतिष्ठास्पदम् ॥ २०॥
लेखाभिस्तुहिनद्युतेरिव कृतं वाग्बीजमुच्चैः स्फुर-
त्ताराकारकरालबिन्दु परितो मायात्रिधाऽऽवेष्टितम् ।
पूर्णेन्दोरुदरे तदेतदखिलं पीयूषगौराक्षरं
स्रोतःसम्भ्रमसम्भृतं स्मरति यो जिह्वाञ्चले निश्चलः ॥ २१॥
तस्य त्वत्करुणाकटाक्षकणिकासङ्क्रान्तिमात्रादपि
स्वान्ते शान्तिमुपैति दीर्घजडता जाग्रद्विकाराग्रणीः ।
तस्मादाशु जगत्त्रयाद्भुतरसाद्वैतप्रतीतिप्रदं
सौरभ्यं परमभ्युदेति व वनाम्भोजे गिरां विभ्रमैः ॥ २२॥
आद्यो मौलिरथापरो मुखमिई नेत्रे च कर्णावुऊ
नासावंशपुटे ऋॠ तदनुजौ वर्णौ कपोलद्वयम् ।
दन्ताश्चोर्ध्वमधस्तथोष्ठयुगलं सन्ध्यक्षराणि क्रमा-
ज्जिह्वामूलमुदग्रबिन्दुरपि च ग्रीवा विसर्गी स्वरः ॥ २३॥
कादिर्दक्षिणतो भुजस्तदपरो वर्गश्च वामो भुज-
ष्ठादिस्तादिरनुक्रमेण चरणौ कुक्षिद्वयं ते पफौ ।
वंशः पृष्ठभवोऽथ नाभिहृदये बादित्रयं धातवो
याद्याः सप्त समीरणश्च सपरः क्षः क्रोध इत्यम्बिके ॥ २४॥
एवं वर्णमयं वपुस्तव शिवे लोकत्रयव्यापकं
योऽहम्भावनया भजत्यवयवेऽप्यारोपितैरक्षरैः ।
मूर्तीभूय दिनावसानकमलाकारैः शिरःशायिभिस्तं
विद्याः समुपासते करतलैर्दृष्टिप्रसादोत्सुकाः ॥ २५॥
ये जानन्ति यजन्ति सन्ततमभिध्यायन्ति गायन्ति वा
तेषामास्यमुपास्यते मृदुपदन्यासैर्विलासैर्गिराम् ।
किञ्च क्रीडति भूर्भुवःस्वरभितः श्रीचन्दनस्यन्दिनी
कीर्तिः कार्तिकरात्रिकैरवसमा सौभाग्यशोभाकरी ॥ २६॥
मायाबीजविदर्भितं पुनरिदं श्रीकूर्मचक्रोदितं
दीपाम्नायविदो जपन्ति खलु ये तेषां नरेन्द्राः सदा ।
सेवन्ते चरणौ किरीटवलभीविश्रान्तरत्नाङ्कुर-
ज्योत्स्नामेदुरमेदिनीतलरजोमिश्राङ्गरागश्रियः ॥ २७॥
श्रीबीजं सकलाक्षरादिषु पुनः क्रोधाक्षरान्ते भवेदेवं
यो भजतेऽम्ब ते तनुमिमां तस्याग्रतो जाग्रती ।
लक्ष्मीः सिन्दुरदानगन्धलहरीलोलान्धपुष्पन्धय-
श्रेणीबन्धुरशृङ्खलानियमितेवापैति नैव क्वचित् ॥ २८॥
यस्त्वां विद्रुमपल्लवद्रवमयीं लेखामिवालोहिता-
मात्मानं परितः स्फुरत्त्रिवलयां मायामभिध्यायति ।
तस्मै निन्दितवन्दनेन्दुकदलीकान्तारहारस्रजो
निःश्वासभ्रमबाष्पदाहगहना मूर्छन्ति तास्ताः स्त्रियः ॥ २९॥
मातः श्रीभगमालिनीत्यभिधया दिव्यागमोत्तंसितां
त्वामानन्दमयीमनुस्मरति यस्तं नाम वामभ्रुवः ।
बाहुस्वस्तिकपीडितैः स्तनतटैर्दैन्याञ्चितैश्चाटुभि-
र्नीरन्ध्रैः पुलकाङ्कितैर्मुकुलितैर्ध्यायन्ति नेत्राञ्चलैः ॥ ३०॥
यस्त्वां ध्यायति रागसागरतरत्सिन्दूरनौकान्तर-
स्वैरोज्जागरपद्मरागनलिनीपुष्पासनाध्यासिनीम् ।
बालादित्यसपत्नरत्नरचितप्रत्यङ्गभूषारुचि-
श्रेणीसम्मिलिताङ्गरागवसनास्तस्य स्मरन्त्यङ्गनाः ॥ ३१॥
कर्पूरं कुमुदाकरं कमलिनीपत्रं कलाकौशलं
कूजत्कोकिलकामिनीकुलकुहूकल्लोलकोलाहलम् ।
शङ्कन्ते प्रलयानलं स्मरमहापस्मारवेगातुराः
कम्पन्ते निपतन्ति हन्त न गिरं मुञ्चन्ति शोचन्ति च ॥ ३२॥
श्रीमृत्युञ्जयनामधेयभगवच्चैतन्यचन्द्रात्मिके
ह्रीङ्कारि प्रथमातमांसि दलय त्वं हंससञ्जीविनि ।
जीवं प्राणविजृम्भमाणहृदयग्रन्थिस्थितं मे कुरु
त्वां सेवे निजबोधलाभरभसा स्वाहाभुजामीश्वरीम् ॥ ३३॥
एवं त्वाममृतेश्वरीमनुदिनं राकानिशाकामुकस्यान्तः
सन्ततभासमानवपुषं साक्षाद्यजन्ते तु ये ।
ते मृत्योः कवलीकृतत्रिभुवना भोगस्य मौलौ पदं
दत्वा भोगमहोदधौ निरवधि क्रीडन्ति तैस्तैः सुखैः ॥ ३४॥
जाग्रद्वोधसुधामयूखनिचयैराप्लाव्य सर्वा दिशो
यस्याः कापि कला कलङ्करहिता षट्चक्रमाक्रामति ।
दैन्यध्वान्तविदारणैकचतुरा वाचं परां तन्वती
सा नित्या भुवनेश्वरी विहरतां हंसीव मन्मानसे ॥ ३५॥
त्वं मातापितरौ त्वमेव सुहृदस्त्व भ्रातरस्त्वं सखा
त्वं विद्या त्वमुदारकीर्तिचरितं त्वं भाग्यमत्यद्भुतम् ।
किं भूयः सकलं त्वमीहितमिति ज्ञात्वा कृपाकोमले
श्रीविश्वेश्वरि सम्प्रसीद शरणं मातः परं नास्ति मे ॥ ३६॥
श्रीसिद्धनाथ इति कोऽपि युगे चतुर्थे
प्रादुर्बभूव करुणावरुणालयोऽस्मिन् ।
श्रीशम्भुरित्यभिधया स मयि प्रसन्नं
चेतश्चकार सकलागमचक्रवर्ती ॥ ३७॥
तस्याज्ञया परिणतान्वयसिद्ध्वविद्या-
भेदास्पदैः स्तुतिपदैर्वचसां विलासैः ।
तस्मादनेन भुवनेश्वरि वेदगर्भं
सद्यः प्रसीद वदने मम सन्निधेहि ॥ ३८॥
येषां परं न कुलदैवतमम्बिके त्वं
तेषां गिरा मम गिरो न भवन्तु मिश्राः ।
तैस्तु क्षणं परिचिते विषयेऽपि वासो
मा भूत्कदाचिदिति सन्ततमर्थये त्वाम् ॥ ३९॥
श्रीशम्भुनाथ करुणाकर सिद्धनाथ
श्रीसिद्धनाथ करुणाकर शम्भुनाथ ।
सर्वापराधमलिनेऽपि मयि प्रसन्नं
चेतः कुरुष्व शरणं मम नान्यदस्ति ॥ ४०॥
इत्थं प्रतिक्षणमुदश्रुविलोचनस्य
पृथ्वीधरस्य पुरतः स्फुटमाविरासीत् ।
दत्वा वरं भगवती हृदयं प्रविष्टा
शास्त्रैः स्वयं नवनवैश्च मुखेऽवतीर्णा ॥ ४१॥
वाक्सिद्धिमेवमतुलामवलोक्य नाथः
श्रीशम्भुरस्य महतीमपि तां प्रतिष्ठाम् ।
स्वस्मिन्पदे त्रिभुवनागमवन्द्यविद्या-
सिंहासनैकरुचिरे सुचिरं चकार ॥ ४२॥
भूमौ शय्या वचसि नियमः कामिनीभ्यो निवृत्तिः
प्रातर्जातीविटपसमिधा दन्तजिह्वाविशुद्धिः ।
पत्रावल्यां मधुरमशनं ब्रह्मवृक्षस्य पुष्पैः
पूजाहोमौ कुसुमवसनालेपनान्युज्ज्वलानि ॥ ४३॥
इत्थं मासत्रयमविकलं यो व्रतस्थः प्रभाते
मध्याह्ने वाऽस्तमितसमये कीर्तयेदेकचित्तः ।
तस्योल्लासैः सकलभुवनाश्चर्यभूतैः प्रभूतैर्विद्याः
सर्वाः सपदि वदने शम्भुनाथप्रसादात् ॥ ४४॥
व्रतेन हीनोऽप्यनवाप्तमन्त्रः श्रद्धाविशुद्धोऽनुदिनं जपेद्यः ।
तस्यापि वर्षादनवद्यसद्यः कवित्वहृद्याः प्रभवन्ति विद्याः ॥ ४५॥
कोऽप्यचिन्त्यप्रभावोऽस्य स्तोत्रस्य प्रत्ययावहः ।
श्रीशम्भोराज्ञया सर्वाः सिद्धयोऽस्मिन्प्रतिष्ठिताः ॥ ४६॥
इति श्री सकलागमाचार्यचक्रवर्तिश्रीपृथ्वीधराचार्य विरचितं
वेदगर्भं श्रीभुवनेश्वरीस्तोत्रं अथवा
श्रीभुवनेश्वरीमहास्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran psaeaswaran at gmail.com