भुवनेश्वर्यष्टोत्तरशतनामस्तोत्रम्

भुवनेश्वर्यष्टोत्तरशतनामस्तोत्रम्

(अथ श्रीकालीविलासतन्त्रे दशमः पटलः ।) श्रीदेव्युवाच । देवदेव महादेव योगीन्द्र वृषभध्वज । अस्याः श्रीभुवनेश्वर्याः शतनाम वद प्रभो ॥ १॥ श्रीईशान उवाच । सहस्रेण महेशानि कलिकाले न सिद्ध्यति । शतनाम्नः परं नाम कलौ नास्ति महेश्वरि ॥ २॥ अस्य श्रीभुवनेश्वरी शतनामस्तोत्रस्य शक्तिरृषि विराट्च्छन्दः श्रीभुवनेश्वरी देवता चतुर्वर्गसिद्ध्यर्थे विनियोगः ॥ ॐ आद्या श्रीभुवनाभव्या भवबन्धविमोहिनी । भगरूपा भगवती भेरण्डा भाग्यशालिनी ॥ ३॥ ईश्वरी ईश्वरानन्दा वन्दनीया विलासिनी । उमा ऊमा च (१)उन्मत्ता इन्दिरा इन्द्रपूजिता ॥ ४॥ ऊर्ध्व-तेजस्विनी ऊर्ध्वा ऊर्ध्वगा ऊर्ध्वरूपिणी । नन्दिनी नन्दमथिनी नन्दा नन्दकरूपिणी ॥ ५॥ नित्या च निष्कलङ्का च निर्मला मलनाशिनी । निरीहोल्लासिनी नत्या निर्मला नित्यनूतना(२) ॥ ६॥ निशुम्भनाशिनी चैव तथा शुम्भविनाशिनी । शुक्लरूपा च शुक्लार्हा शाम्भवी शम्भुवल्वभा ॥ ७॥ शिवाख्या शिवरूपा च शिवपूज्या शिवार्चिता । शिववादा (३)च श्यामा च श्यामाङ्गी श्याममूर्त्तिका ॥ ८॥ शोभा च सुभगा चैव शोभना भुवनेश्वरी । रक्ताङ्गी रक्तनयना रक्ताक्षी रक्तलोचना ॥ ९॥ रेवती रुक्मिणी राधा रौद्री रामा रजोगुणा । रम्या च रमणीया च रामक्रीडावती तथा ॥ १०॥ रामार्चिता रामपूज्या रङ्गिनी रामवल्लभा(४) । रक्ताक्षी रक्तहास्या च रुधिरा रुधिरप्रिया ॥ ११॥ रक्तारक्तमयी राज्ञी रसयुक्ता रसप्रिया । रसमाला रसमयी तथा रसवती रतिः ॥ १२॥ रूपमाला रूपवती रूपाङ्गदविभूषणा । रेणुका रेत(५)रूपा च रसरूपा रसाश्रया(६) ॥ १३॥ भागीरथी तथोन्नासां(७)वशिनी वेशरूपिणी । रेवा च शाम्भवी चैव मृदापारण(८)पण्डिता ॥ १४॥ शतनाम इदं देवि कथितं भक्तितस्तव । गुह्याद् गुह्यतरं गुह्यं कलिकालस्य सम्मतम् ॥ १५॥ अष्टोत्तरशतं जप्त्वा दशधा वापि सुन्दरि । पठित्वा फलमाप्नोति अयुतं वरवर्णनि ॥ १६॥ अयुतावर्त्तनाद्देवि चाश्वमेधफलं लभेत् । गोमेधशतयज्ञानां फलमाप्नोति निश्चितम् ॥ १७॥ प्रपठेद् यदि शुद्धात्मा स्वकीयस्त्रीषु संरतः । वामभागे स्त्रियं स्थाप्य धूपामोद सुगन्धितः ॥ १८॥ ताम्बूल-पूरितमुखी यदि स्याज्जपतत्परः । यद्यप्यदीक्षिता नारी दूरतः परिवर्जयेत् ॥ १८॥ दीक्षिता-परनारीषु यदि मैथुनमाचरेत् । न विन्दोः पातनं कार्यं कृते च ब्रह्महा भवेत् ॥ २०॥ मृदापारगां मृत्तिकाविदारणमित्यर्थः । यदि न प्रपतेद्दिन्दुः परनारीषु पार्वति । सर्वसिद्धोश्वरो भूत्वा विहरेत् क्षितिमण्डले ॥ २१॥ इति श्रीकालीविलासतन्त्रे श्रीभुवनेश्वरी शतनामस्तोत्रं समाप्तम् । ॐ तत्सदित्यादि । १. ऊशब्देनाव शिव उच्चते तेन तस्य माता इत्यर्थः । ``उमा ऊमा'' इत्यव ``उमारूपा'' इति क्वचित् पुस्तके पाठः । २. ``नूतना'' इत्यत्र ``मुत्तमा'' इति क्वचित् पुस्तके पाठः । क्वचिञ्च ``निर्लज्जा निर्घृणा निद्रा निश्चला निरूप-द्रवाम् । इत्यधिक लोकाई दृश्यते । ३. ``शिववादा'' इत्यत्र शववादां इति क्वचित पुस्तके पाठः, तस्वार्थस्तु शवेन सह वादः कथोपकथन यस्याः, अथवा शवः शिवरूपः शव इति तात्पर्यम् । ४. रामशब्देनात्र परशुरामः, बलरामः, श्रीरामश्च यथायथं ज्ञेयम् । ५. सर्वेसान्ता अप्यदन्ता इति नियमात् रेतः शब्दस्य रेतरूपता । ६. ``रसाश्रया'' इत्यत्र ``रसप्रिया'' इति क्वचित् पुस्तके पाठः । ७. ``उन्नासा'' इत्यत्र ``उल्लासा'' इति क्वचित् पुस्तके पाठः । ८. ``मृदापा'' इत्यत्र ``वसुधा'' इति क्वचित् पुस्तके पाठः । Proofread by Rajesh Thyagarajan
% Text title            : Bhuvaneshvari Ashtottarashatanama Stotram 2
% File name             : bhuvaneshvaryaShTottarashatanAmastotram2.itx
% itxtitle              : bhuvaneshvaryaShTottarashatanAmastotram 2 (kAlIvilAsatantrAntargatam AdyA shrIbhuvanAbhavyA)
% engtitle              : bhuvaneshvaryaShTottarashatanAmastotram 2
% Category              : aShTottarashatanAma, devii, stotra, devI, dashamahAvidyA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description-comments  : Kalivilasatantra
% Indexextra            : (Scan)
% Latest update         : March 23, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org