श्रीब्रह्मास्त्रमहाविद्याबगलामुखीस्तोत्रम्

श्रीब्रह्मास्त्रमहाविद्याबगलामुखीस्तोत्रम्

श्री गणेशाय नमः । ॐ अस्य श्रीबगलामुखीस्तोत्रस्य भगवान् नारद ऋषिः । त्रिष्टुप्छन्दः । श्रीबगुलामुखी देवता । ह्लीं बीजम् । स्वाहा शक्तिः । मम सन्निहितानामसन्निहितानां विरोधिनां दुष्टानां वाङ्मुखबुद्धीनां स्तम्भनार्थे श्रीमहामायाबगलामुखीवरप्रसादसिद्धयर्थे जपे विनियोगः । (पाठे विनियोगः) करन्यासः । ॐ ह्लीं अङ्गुष्ठाभ्यां नमः । ॐ बगलामुखी तर्जनीभ्यां स्वाहा । ॐ सर्वदुष्टानां मध्यमाभ्यां वषट् । ॐ वाचं मुखं पदं स्तम्भय अनामिकाभ्यां हुम् । ॐ जिह्वां कीलय कीलय कनिष्ठिकाभ्यां वौषट् । ॐ बुद्धिं विनाशय ह्लीं ॐ स्वाहा करतलकरपृष्ठाभ्यां फट् ॥ ऋष्यादिन्यासः । ॐ नारदऋषये नमः शिरसि । ॐ त्रिष्टुप् छन्दसे नमः मुखे । ॐ श्रीबगलामुखीदेवतायै नमः हृदये । ॐ ह्लीं बीजाय नमः गुह्ये । ॐ स्वाहा शक्तये नमः पादयोः । ॐ विनियोगाय नमः सर्वाङ्गे । इति ऋष्यादिन्यासः ॥ हृदयादिषडङ्गन्यासः । ॐ ह्लीं हृदयाय नमः । ॐ बगलामुखी शिरसे स्वाहा । ॐ सर्वदुष्टानां शिखायै वषट् । ॐ वाचं मुखं स्तम्भय कवचाय हुम् । ॐ जिह्वां कीलय कीलय नेत्रत्रयाय वौषट् । ॐ बुद्धिं विनाशय ह्लीं ॐ स्वाहा अस्त्राय फट् । इति हृदयादिषडङ्गन्यासः । ॐ ह्लीं क्लीं ऐं इति दिग्बन्धः ॥ अथ ध्यानं - सौवर्णासनसंस्थितां त्रिनयनां पीतांशुकोल्लासिनीं हेमाभाङ्गरुचिं शशाङ्कमुकुटां सच्चम्पकस्रग्युताम् । हस्तैर्मुद्गरपाशवज्ररसनाः सम्बिभ्रतीं भूषणैः व्याप्ताङ्गीं बगलामुखीं त्रिजगतां संस्तम्भिनीं चिन्तयेत् ॥ जपमन्त्रः - ॐ ह्लीं बगलामुखिं सर्वदुष्टानां वाचं मुखं पदं स्तम्भय जिह्वां कीलय बुद्धिं विनाशय ह्लीं ॐ स्वाहा । अथ स्तोत्रं - मध्येसुधाब्धि मणिमण्डपरत्नवेद्यां सिंहासनोपरिगतां परिपीतवर्णाम् । पीताम्बराभरणमाल्यविभूषिताङ्गीं देवीं नमामि धृतमुद्गरवैरिजिह्वाम् ॥ १॥ जिह्वाग्रमादाय करेण देवीं वामेन शत्रून् परिपीडयन्तीम् । गदाभिधातेन च दक्षिणेन पीताम्बराढ्यां द्विभुजां नमामि ॥ २॥ त्रिशूलधारिणीमम्बां सर्वसौभाग्यदायिनीम् । सर्वश‍ृङ्गारवेशाढ्यां देवीं ध्यात्वा प्रपूजयेत् ॥ ३॥ पीतवस्त्रां त्रिनेत्रां च द्विभुजां हाटकोज्ज्वलाम् । शिलापर्वतहस्तां च स्मरेत् तां बगलामुखीम् ॥ ४॥ रिपुजिह्वाग्रहां देवीं पीतपुष्पविभूषिताम् । वैरिनिर्दलनार्थाय स्मरेत्तां बगलामुखीम् ॥ ५॥ गम्भीरां च मदोन्मत्तां स्वर्णकान्तिसमप्रभाम् । चतुर्भुजां त्रिनेत्रां च कमलासनसंस्थिताम् ॥ ६॥ मुद्गरं दक्षिणे पाशं वामे जिह्वां च वज्रकम् । पीताम्बरधरां सान्द्रहृढ़पीनपयोधराम् ॥ ७॥ हेमकुण्डलभूषां च पीतचन्द्रार्धशेखराम् । पीतभूषणपीताङ्गीं स्वर्णसिंहासने स्थिताम् ॥ ८॥ एवं ध्यात्वा जपेत् स्तोत्रमेकाग्रकृतमानसः । सर्वसिद्धिमवाप्नोति मन्त्रध्यानपुरःसरम् ॥ ९॥ आराध्या जगदम्ब दिव्यकविमिः सामाजिकैः स्तोतृभिः माल्यैश्चन्दनकुङ्कुमैः परिमलैरभ्यचिता सादरात् । सम्यङ्न्यासिसमस्तभूत निवहे सौभाग्यशोभाप्रदे श्रीमुग्धे बगले प्रसीद विमले दुःखापहे पाहि माम् ॥ १०॥ आनन्दकारिणी देवी रिपुस्तम्भनकारिणी । मदनोन्मादिनी चैव प्रीतिस्तम्भनकारिणी ॥ ११॥ महाविद्या महामाया साधकस्य फलप्रदा । यस्याः स्मरणमात्रेण त्रैलोक्यं स्तम्भयेत्क्षणात् ॥ १२॥ वामे पाशाङ्कुशौ शक्ति तस्याधस्ताद्वरं शुभम् । दक्षिणे क्रमतो वज्रं गदाजिह्वाऽभयानि च ॥ १३॥ विभ्रतीं संस्मरेन्नित्यं पीतमाल्यानुलेपनाम् । पीताम्बरधरां देवीं ब्रह्मादिसुरवन्दिताम् ॥ १४॥ केयूराङ्गदकुण्डलभूषां बालार्कद्युतिरञ्जितवेषाम् । तरुणादित्यसमानप्रतिमां कौशेयांशुकबद्धनितम्बाम् ॥ १५॥ कल्पद्रुमतलनिहितशिलायां प्रमुदितचित्तोल्लसदलकान्ताम् । पञ्चप्रेतनिकेतनबद्धां भक्तजनेभ्यो वितरणशीलाम् ॥ १६॥ एवंविधां तां बगलां ध्यात्वा मनसि साधकः । सर्वसम्पत्समृद्ध्यर्थं स्तोत्रमेतदुदीरयेत् ॥ १७॥ चलत्कनककुण्डलोल्लसितचारुगण्डस्थलां लसत्कनकचम्पकद्युतिमदिन्दुविम्बाननाम् । गदाहतविपक्षकां कलितलोलजिह्वां चलां स्मरामि बगलामुखी विमुखवाङ्मुखस्तम्भिनीम् ॥ १८॥ पीयूषोदधिमध्यचारुविलसद्रत्नोज्ज्वले मण्डपे तत्सिंहासनमूलपातितरिपुं प्रेतासनाध्यासिनीम् । स्वर्णाभां करपीडितारिरसनां भ्राम्यद्गदां विभ्रमां यस्त्वां ध्यायति यान्ति तस्य विलयं सद्योऽथ सर्वापदः ॥ १६॥ देवि त्वच्चरणाम्बुजार्चनकृते यः पीतपुष्पाञ्जलिं मुद्रां वामकरे निधाय च पुनर्मन्त्री मनोज्ञाक्षरम् । पीताध्यानपरोऽथ कुम्भकवशाद् बीजं स्मरेत्पार्थिव तस्यामित्रमुखस्य वाचि हृदये जाड्यं भवेत् तत्क्षणात् ॥ २०॥ मन्त्रस्तावदलं विपक्षदलने स्तोत्रं पवित्रं च ते यन्त्रं वादिनियन्त्रणे त्रिजगतां जैत्रं न चित्रं हि तत् । मातः श्रीबगलेति नाम ललितं यस्यास्ति जन्तोर्मुखे तन्नामस्मरणेन संसदि मुखस्तम्भो भवेद्वादिनाम् ॥ २१॥ वादी मूकति रङ्कति क्षितिपतिर्वैश्वानरः शीतति क्रोधी शाम्यति दुर्जनः सुजनति क्षिप्रानुगः खञ्जति । गर्वी खर्बति सर्वविच्च जडति त्वद्यन्त्ररणायन्त्रितः श्रीनित्ये बगलामुखि प्रतिदिनं कल्याणि तुभ्यं नमः ॥ २२॥ दुष्टस्तम्भनमुग्रविघ्नशमनं दारिद्र्यविद्रावणं भूभृत्सन्नमनं च यन्मृगदृशां चेतःसमाकर्षणम् । सौभाग्यैकनिकेतनं समदृशां कारुण्यपूर्णेक्षणे शत्रोर्मारणमाविरस्तु पुरतो मातस्त्वदीयं वपुः ॥ २३॥ मातर्भञ्जय मद्विपक्षवदनं जिह्वां च सङ्कीलय ब्राह्मीं यन्त्रय मुद्रयाशु धिषणामुग्रां गतिं स्तम्भय । शत्रूंश्चूर्णय चूर्णयाशु गदया गौराङ्गि पीताम्बरे विघ्नौघं बगले हर प्रणमतां कारुण्यपूर्णक्षणे ॥ २४॥ मातर्भैरवि भद्रकालि विजये वाराहि विश्वाश्रये श्रीविद्ये समये महेशि बगले कामेशि वामे रमे । मातङ्गि त्रिपुरे परात्परतरे स्वर्गापवर्गप्रदे दासोऽहं शरणागतोऽस्मि कृपया विश्वेश्वरि त्राहि माम् ॥ २५॥ त्वं विद्या परमा त्रिलोकजननी विघ्नौघविध्वंसिनी योषाकर्षणकारिणी त्रिजगतामानन्दसंवर्धिनी । दुष्टोच्चाटनकारिणी पशुमनः सम्मोहसन्दायिनी जिह्वाः कीलय वैरिणां विजयसे ब्रह्मास्त्राविद्या परा ॥ २६॥ मातर्यस्तु मनोरमं स्तवमिमं देव्याः पठेत्सादरं धृत्वा यन्त्रमिदं तथैव समरे बाह्वोः करे वा गले । राजानो वरयोषितोऽथ करिणः सर्पा मृगेन्द्राः खला- स्ते वै यान्ति विमोहिता रिपुगणा लक्ष्मीः स्थिरा सर्वदा ॥ २७॥ अनुदिनमभिरामं साधको यस्त्रिकालं पठति स भुवनेऽसौ पूज्यते देववर्गैः । सकलममलकृत्यं तत्त्वद्रष्टा च लोके भवति परमसिद्धा लोकमाता पराम्बा ॥ २८॥ पीतवस्त्रवसनामरिदेहप्रेतजासननिवेशितदेहाम् । फुल्लपुष्परविलोचनरम्यां दैत्यजालदहनोज्ज्वलभूषाम् ॥ २६॥ पर्यङ्कोपरि लसद्विभुजां कम्बुहेमनतकुण्डललोलाम् । वैरिनिर्दलनकारणरोषां चिन्तयामि बगलां हृदयाब्जे ॥ ३०॥ चिन्तयामि सुभुजां श‍ृणिहस्तां सद्भुजां च सुरवन्दितचरणाम् । षष्ठिसप्ततिशतैर्धृतशस्त्रैर्बाहुभिः परिवृतां बगलाम्बाम् ॥ ३१॥ चौराणां सङ्कटे च प्रहरणसमये बन्धने वारिमध्ये वह्नौ वादे विवादे प्रकुपितनृपतौ दिव्यकाले निशायाम् । वश्ये वा स्तम्भने वा रिपुवधसमये प्राणबाधे रणे वा गच्छंस्तिष्ठंस्त्रिकालं स्तवपठनमिदं कारयेदाशु धीरः ॥ ३२॥ विद्या लक्ष्मीः सर्वसौभाग्यमायुः पुत्राः सम्पद्राज्यमिष्टं च सिद्धिः । मातः श्रेयः सर्ववश्यत्वसिद्धिः प्राप्तं सर्वं भूतले त्वत्परेण ॥ ३३॥ गेहं नाकति गर्वितः प्रणमति स्त्रीसङ्गमो मोक्षति द्वेषी मित्रति पातकं सुकृतति क्ष्मावल्लभो दासति । मृत्युर्वैद्यति दूषणं गुणति वै यत्पादसंसेवनात् तां वन्दे भवभीतिभञ्जनकरीं गौरीं गिरीशप्रियाम् ॥ ३४॥ यत्कृतं जपसन्ध्यानं चिन्तनं परमेश्वरि । शत्रूणां स्तम्भनार्थाय तद्गृहारण नमोऽस्तु ते ॥ ३५॥ ब्रह्मास्त्रमेतद्विख्यातं त्रिषु लोकेषु दुर्लभम् । गुरुभक्ताय दातव्यं न देयं यस्य कस्यचित् ॥ ३६॥ पीताम्बरां च द्विभुजां त्रिनेत्रां गात्रकोज्ज्वलाम् । शिलामुद्गरहस्तां च स्मरेत् तां बगलामुखीम् ॥ ३७॥ सिद्धिं साध्येऽवगन्तुं गुरुवरवचनेष्वार्हविश्वासभाजां स्वान्तः पद्मासनस्थां वररुचिबगलां घ्यायतां तारतारम् । गायत्रीपूतवाचां हरिहरमनने तत्पराणां नराणां प्रातर्मध्याह्नकाले स्तवपठनमिदं कार्यसिद्धिप्रदं स्यात् ॥ ३८॥ इति श्रीरुद्रयामले उत्तरखण्डे श्रीब्रह्मास्त्रमहाविद्याबगलामुखीस्तोत्रं सम्पूर्णम् । The Panchanga Prakaranam has this stora as first: (1) Brahmastramahavidyastotram (2) Hridayam (3) Panjara Stotram (4) Panjara Nyasa Stotram (5) Kavacham (5 kavachams are given) See these stotras in Devi section. Proofread by Ruma Dewan
% Text title            : Brahmastra Mahavidya Bagalamukhi Stotram
% File name             : brahmAstramahAvidyAbagalAmukhIstotram.itx
% itxtitle              : brahmAstramahAvidyAbagalAmukhIstotram
% engtitle              : brahmAstramahAvidyAbagalAmukhIstotram
% Category              : devii, dashamahAvidyA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Indexextra            : (Scans 1, 2, 3, Hindi 1, 2, manuscript)
% Latest update         : March 11, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org