॥ बृहदम्बार्याशतकम् ॥

श्रीगोकर्णनिकेता श्रीविद्यादिव्यशुक्तिकामुक्ता । श्रीकण्ठनित्यमिलिता श्रीचक्रेशी पुरोऽस्तु मे माता ॥ १॥ कल्याणं कलयेन्नः कल्यानस्मान् करोतु शतमब्दान् । कल्यातङ्कमपास्येत् कल्याणी नः सदैव बृहदम्बा ॥ २॥ तरुणारुणप्रकाशं तरुणा वकुलेन भासुरनिवेशम् । गुरुणा स्तनेन नमितं गुरुणा सदयेन वस्तुः न कथितम् ॥ ३॥ वकुलद्रुमूलसदनां वनजसहाध्यायिपरिलसद्वदनाम् । वल्गुस्मितेक्ष्यरदनां वन्दे दृक्तर्जिताम्बुजच्छदनाम् ॥ ४॥ एका द्विलोकसुखदा त्र्यक्षर्याख्यापिता चतुःपीठा । पञ्चाम्नायशिरःस्था बृहदम्ब त्वं षडध्वजनयित्री ॥ ५॥ नासाभासा चम्पकशोभाक्षोभावहास्तु बृहदम्बा । पारावारात्मजया सेव्या देव्या गिरां च भव्याय ॥ ६॥ कम्बुलसत्कंधरया कैश्यविनिर्धूतनीलकंधरया । पाल्ये शोणाधरया पावितवकुलद्रुमूलसद्धरया ॥ ७॥ पीनस्तनावनम्रे पादनताम्भोजवासिनीकम्रे । वाणीजितसरसाम्रे वाचो वल्गन्तु धाम्नि मे ताम्रे ॥ ८॥ वकुलवनीवासिन्या विद्रुमसच्छायचेलवासिन्या । हृद्राजीवासिन्या हृदयं शंभोर्हृतं सुवासिन्या ॥ ९॥ वन्दे श्रीबृहदम्बां वल्गुगतापास्तराजकादम्बाम् । आश्रितजनावलम्बामासेवे कैश्यधूतलोलम्बाम् ॥ १०॥ केसरसरभासुरया केवलदासीभवत्सुरासुरया । कलिता वाणी सुरया कयापि मे भक्तिनम्रभूसुरया ॥ ११॥ शिरसा धृतसोमायाः श्रीगोकर्णैकदिव्यधामायाः । पदनम्राणां मायाः पापविधात्र्यः कदापि नोमायाः ॥ १२॥ आनन्दसारसीमामानङ्गोत्कर्षपोषकापाङ्गाम् । आनन्तुं बृहदम्बामानन्त्यं मूर्ध्नि वाञ्छामि ॥ १३॥ वकुलाटवीनिविष्टां वन्दकसंरक्षणात्यभिनिविष्टाम् । निरवधिकरुणाविष्टां नित्यं सेवेमहीष्टशिपिविष्टाम् ॥ १४॥ अभिधायितहृल्लेखामतीतविद्वत्सुकविजनोल्लेखाम् । पदपद्मनमल्लेखां पश्यामः शाश्वतीं तटिल्लेखाम् ॥ १५॥ करुणामृतवर्षिण्याः सेवकसर्वापराधमर्षिण्याः । वकुलविपिनहर्षिण्या वश्याः स्मः शंभुचित्तकर्षिण्याः ॥ १६॥ करुणाझरसरसाक्षीमरुणाधरशोभिसुन्दरसुहासाम् । तरुनार्धघटितदेहां वरुणालयजेडितां शिवां वृणुमः ॥ १७॥ धन्याः के नु मदन्या वलयेऽवन्या यतो वकुलवन्याः । मूले मोक्षवदान्या मान्या कन्या गिरोर्हितमान्या मे ॥ १८॥ केचित् त्वां कुलमूले साक्षात्कुर्वन्त्यहं वकुलमूले । अर्धेश्वरां कतिपये मातः सर्वेश्वरामहं कलये ॥ १९॥ वाञ्छितसिद्ध्यै भविता लाञ्छितचिकुरा चकोरवृत्तिकृता । काङ्क्षितचरणा सद्भिः कां क्षिप्रं नातनोति संसिद्धिम् ॥ २०॥ अरुणिमसारसमष्टिः संसृतिकूपोत्तरणयष्टिः । कलितामृतौघवृष्टिर्बृहदम्बा भातु मे कृपादृष्टिः ॥ २१॥ सामजसमानगमना सामसमाजोपगानतुष्टमनाः । समजानुपेतचरणा समरसतापन्नपन्नगाभरणा ॥ २२॥ विश्वपतिवश्यहृदया नश्वरविश्वासपश्वनाशास्या । अश्वमुखस्तवशस्या निःश्वसितानुश्रवास्ति बृहदम्बा ॥ २३॥ लघु तव चरणं शरणं तरणं मृत्योर्भजामि बृहदम्ब । यावत् तरसा जरसा परसादङ्गानि न कृतानि ॥ २४॥ प्रभवति यत्र न गौर्वा नोर्मीणां संकथा न वा जडता । कोऽपि वकुलालवाले जयति चिरानन्दसागरोऽपार ॥ २५॥ स्थावरराजतनूजा भावरसस्फीतवैखरी जननी । पीवरवक्षोजनता धीवरदौहित्रसूक्तिपरिचिन्त्या ॥ २६॥ सर्वानन्दनिवासा शक्रशतानन्दमुख्यसुरसेव्या । धृतनन्दसूनुदेहा भूमनिजानन्दमेदुरा जयति ॥ २७॥ अपहृत्य चित्तशल्यं भक्तिमतामातनोषि कैवल्यम् । बृहदम्ब को न्वकल्यं देवान्तरं त्व्या पाल्यम् ॥ २८॥ भवनीकृतगोकर्णं भास्वन्मणिकुण्डलस्फुरत्कर्णम् । ध्यायामि शोणवर्णं धाम परं भक्तमानसाभ्यर्णम् ॥ २९॥ कलिता ललिता कलितापहरा दहरान्तरविचिन्त्या । वकुले मुकुलेड्यकुले सदयाभ्युदया किमन्यदेवैर्मे ॥ ३०॥ वाराणसीनिषेवां वाराश्यवगाहनानि च न तन्याः । वारान् बहूनथाङ्घ्र्योर्वारा पूयस्व वकुलमूलेश्याः ॥ ३१॥ श्रेयश्च या विधत्ते श्रीबृहदम्बापदाम्बुरुहचिन्ता । कलिकलुषणि विभिन्ते मदमपि कार्तान्तमाहन्ता ॥ ३२॥ नीवी नवान्यवचसां सा वीणा वाण्यभिपणार्या । भावी भवार्तिहरणी देवी दयतां सदैव बृहदम्बा ॥ ३३॥ माता सारसनेत्रा मान्या वाराशिकन्यकानेत्रा । मृगचक्रवर्तिपत्रा मनसि मम स्तात् स्तनोल्लसत्पत्रा ॥ ३४॥ वेलतिगानुकम्पा वकुलवनाम्भोदमञ्जुतरशम्पा । भवतप्तामृतझम्पा भवतु हृदिस्था कृतद्विषत्कम्पा ॥ ३५॥ पद्यायामाद् यायामाद्यायामम्ब तावकजनानाम् । विद्यां ते निरवद्यां विद्यां गोकर्णराज्ञि दयया ते ॥ ३६॥ तरणिं तमश्छटानामरणिं ज्ञानानलस्य कलयामि । तरणिं भवाम्बुराशेः सरणिं वेद्यागमस्य बृहदम्बाम् ॥ ३७॥ वक्षोजभारनमिता लक्षोत्तरवेदगीःप्रमिता । इक्षोर्मधुरोक्तिमिता न क्षोभ्या त्वं दयाधुनी स्तिमिता ॥ ३८॥ हृदयं पुराणवचसां सदयं दीनावने परं तेजः । मदयन्नधरं शंभोस्तदयं यातो जनः शरणम् ॥ ३९॥ माङ्कणतीरकुटीरा मेदुरवक्षोजलिप्तपाटीरा । पतिधृतचन्द्राण्डीरा ध्येयाम्बा मुक्तिदानशौण्डीरा ॥ ४०॥ आपन्नरक्षणार्थे चापं पुण्ड्रेक्षुमादधाना सा । रोपं च पौष्पमम्बा पापं प्रोत्सारयेन्ममाशेषम् ॥ ४१॥ दक्षा निरर्गला सा दातुं स्वर्गं त्रिवर्गमपवर्गम् । बृहदम्बा महदन्तर्वासा भासारुणा जयति ॥ ४२॥ वारिदसोदरचिकुरां वदनपराभूतविस्फुरन्मुकुराम् । सुन्दरहासाङ्कूरां सेवेऽम्बां वाग्जितामृतासाराम् ॥ ४३॥ बिन्दुत्रयात्मकतया कलयन्ति त्वामपारकरुणाब्धिम् । ये बृहदम्ब भवाब्धिर्विदुषां तेषां कति पृषन्ति ॥ ४४॥ नीवारशूकशाता नीहारांशुच्छटाशीता । बालादित्यशताभा मूलाधारात् समुद्यता भासि ॥ ४५॥ विश्वप्रथानिदानं वेदशिरःस्फूर्जदपदानम् । बृहदम्बिकाभिधानं बहुशः सेवेय मङ्गलविधानम् ॥ ४६॥ आलोलनीलवेणी फालोत्सङ्गानुषङ्गिदिव्यमणी । कालोन्मिषत्कुवलयच्छायादायादलोचनद्वितया ॥ ४७॥ मणिताटङ्कसमुद्यद्घृणिगणनीराजितकपोलम् । नासाग्रलम्बिमुक्ताभासा संपृक्तमन्दहासरुचिः ॥ ४८॥ अरुणाधरजितबिम्बा वक्त्रपराभूतशीतकरबिम्बा । पीनोन्नतस्तनभरा पाशसृणीष्विक्षुचापकरा ॥ ४९॥ शिञ्जितमञ्जीरलसन्मञ्जुलचरणाब्जनम्रसुरलोका । बृहदम्बा मम हृदये निवसतु वात्सल्यशीतलालोका ॥ ५०॥ भानव्या या नव्या मानव्याघातभीतया दीप्त्या । आतन्वीत सुतन्वी सा तन्वीड्या श्रियं तवाम्ब तनूः ॥ ५१॥ इच्छात्तविश्वशिल्पां पञ्चब्रह्मप्रकल्पितसुतल्पाम् । वन्दीकृतादिजल्पां वन्दे देवीं दयोदयानल्पाम् ॥ ५२॥ केचिन्मदालसाक्षं कालोन्मीलत्कुवालजयदक्षम् । गात्रं तवापरोक्षं कुर्युर्बृहदम्ब दुष्कृतविपक्षम् ॥ ५३॥ शयधृतचारुविपञ्ची श्रोणीबिम्बावलम्बिमणिकाञ्ची । गोकर्णेश्यघवञ्ची दृष्टा चेत् को न भक्तिरोमाञ्ची ॥ ५४॥ कालं प्रयाप्य मेऽलं भारैर्दुःस्थैरचारुकुचभारैः । क्षामैरशुकश्यामैरन्यैर्देवैरधूतनतदैन्यैः ॥ ५५॥ सोमार्धसल्ललामा सा मामव्यात् सुवकुलवनदामा । कामारिदिव्यरामा परमा संविद् घनश्यामा ॥ ५६॥ कोमलवाकुलमूला स्तोमलसत्कुन्तलाधिगोकर्णम् । यामलवर्ण्या कापि श्यामलवर्णा विभाति गुरुमूर्तिः ॥ ५७॥ प्रवहत्करुणापाङ्गं प्रत्यग्राम्भोदमेचकश्यामम् । विश्वाधिकान्तरङ्गं वकुलवने भाति पालितपाङ्गम् ॥ ५८॥ शिखिपिञ्छं तापिञ्छं सभयं धम्मिल्लशोभया स्वभया । आदधती दधतीन्दुं माङ्कणरोधोऽङ्कणे जयत्यम्बा ॥ ५९॥ वामकुचचुम्बिवीणामर्धोन्मीलन्मनोज्ञट्टक्कोणाम् । विश्वावनप्रवीणां वकुलाटव्यां नमामि रममाणाम् ॥ ६०॥ अंसानुषङ्गिचूली संसारापारवारिधेराली । शं सा ददातु काली कंसारीड्या सदात्तवकुलाली ॥ ६१॥ वीणावादिनि शर्मास्वादिनि कर्माद्रिभेदिनि स्यान्मे । विश्वाकारिणि चन्द्रालंकारिणि बोधकारिणि प्रेम ॥ ६२॥ अरुणांशुकामुपासे निगमं शुकरूपिणं दधतीम् । ददतीमाशुकवित्वं स्वांशुकदर्थीकृतातसीं जननीम् ॥ ६३॥ सज्जनकृतवरिवस्यं सारसपरिहाससादरनिजास्यम् । गान्धर्वस्य रहस्यं किंचन कुर्यान्मदाशास्यम् ॥ ६४॥ दूर्वाश्यामलकाये दुर्वासोमुख्यमौनिगणसेव्ये । अर्वास्यवर्णितगुणे कुर्वाशापूर्तिमद्य बृहदम्ब ॥ ६५॥ लीलालोला वकुलाटव्यामव्याच्छुकाभिरामकरा । वीणाक्काणाभिरता माता भूताधिपस्य दयिता नः ॥ ६६॥ दुरितेभ्यो न कृतेभ्यो नापि कृतान्ताद् बिभेमि दुर्दान्तात् । दृष्टा दयासमष्टिर्वकुलवने श्यामलाकृतिर्येन ॥ ६७॥ धन्योऽहं धन्योऽहं वंशद्वितयी मदीक्षिता धन्या । परिपणमाम्नायानां श्यामलमालोकि वकुलमूले यत् ॥ ६८॥ वित्तादिभिर्नराणां मत्तानां दुर्लभा विना भक्तिम् । तत्तादृशानुभावा सत्ता काचिद् विभाति गोकर्णे ॥ ६९॥ परिहृतसर्वविकल्पा परिधृतशीतांशुकोरकाकल्पा । बालदिवाकरकल्पा बृहदम्बा पातु सत्यसंकल्पा ॥ ७०॥ चम्पकनीपरसालाः सन्त्येवान्ये रसास्थले सालाः । वकुले तु मेऽस्ति भक्तिर्यस्मिन् दृष्टे स्मृता भवत्यम्बा ॥ ७१॥ भ्रमरीविभ्रमकबरीं भ्रूभ्रमणेनैव पञ्चकृत्यकरीम् । संवित्सुखामृतझरीं संसेवेऽम्बां भवाम्बुराशितरीम् ॥ ७२॥ कुमुदेशपाकचूडं कलितसुरोद्यानमालिकापीडम् । अञ्चितवकुलाक्रीडं किंचिदुपासे दयानिवहनीडम् ॥ ७३॥ सरले सरले विरले तरले हृन्नेत्रकुचसीम्नि । वस्तुनि मेऽस्तु निवास्तुनि करुणायाश्चित्तवृत्तिरपतन्द्रा ॥ ७४॥ कं गणयेऽन्यमुपास्यं मङ्कणकासारतीरकौतुकिनः । अङ्गणवाकुलसुमनोरिङ्खणसौरभ्यनिर्भराद्धाम्नः ॥ ७५॥ वेशन्ततुल्यनाभी वासन्तस्फारपुष्पशुभवेणी । सीमन्तभासिवुसृणा सा हन्त प्रेक्षिताद्य बृहदम्बा ॥ ७६॥ श्रुतिलासिकालिरङ्गायितस्वमहिमाक्षिनिर्जितकुरङ्गा । प्रोद्यत्कृपातरङ्गा पायादम्बा मृगेश्वरतुरङ्गा ॥ ७७॥ निबिडघनस्तनकुम्भा निजवेणीन्यस्तशीतकरडिम्भा । निवसितवरकौसुम्भा निवसतु चित्ते जगद्धितारम्भा ॥ ७८॥ गम्भीरनाभिकुहरां कुम्भीन्द्रस्पर्धिमुग्धसंचाराम् । तां भीमस्य न भामां कुम्भीपाकेच्छवो भजन्त्यज्ञाः ॥ ७९॥ वाह्यापि नो पुराण्या तत्त्वविपण्या यदुच्चतागण्या । सा वर्ण्यास्तु शरण्या कस्य धरण्यामुमाखिलवरेण्या ॥ ८०॥ गोकर्णेशयसेव्यां गोकर्णेशप्रियां प्रणमन् । गोकर्णे वस तूष्णीं गोकर्णे भ्रामकांस्तु जप मन्त्रान् ॥ ८१॥ क्षुद्रार्थदानशीला न द्रागाराधिताः प्रसीदन्ति । निद्रालसास्त्वदन्ये तद्राज्ञि त्वां भजे वकुलवन्याः ॥ ८२॥ आगमकोटिनिरुक्तामाब्रह्मस्तम्बरक्षणासक्ताम् । आर्यामनादिमुक्तामालोके केसराटवीसक्ताम् ॥ ८३॥ सेवे किंचन दिव्यं भावे तेजः समस्तसंसेव्यम् । धीवेदिमेत्य हृद्यं संवेद्याख्यं दहेन्ममाभव्यम् ॥ ८४॥ वाणी चाम्बुधिकन्या सा वृणुते तं बलादिवानन्या । किंचित् त्वया जनन्या कटाक्षितो यः कियत्यथ स्त्र्यन्या ॥ ८५॥ शक्तः कोऽपि यदीयां लङ्घितुमाज्ञां न लोकेषु । यस्याज्ञां बृहदम्बा साध्यास्ते कस्ततो ह्यधिकः ॥ ८६॥ अष्टापदादि सर्वं लोष्टाभिन्नं सदाभिपश्यन्तः । अष्टात्मनः प्रणयिनीं शिष्टाः पश्यन्त्यनन्यतया ॥ ८७॥ दाहं भवानलोत्थं व्याहन्तुं वाकुलाटवीं देवीम् । सोऽहं भजामि भक्त्या याहंतारूपिनीति गुरुणोक्ता ॥ ८८॥ कुलदैवतं मदीयं कुलकुण्डाभ्यन्तरैकवास्तव्यम् । कुलपर्वतेशभाग्यं कुलायमीक्षेऽनुपाधिकरुणायाः ॥ ८९॥ अग्नाविष्णुमुखेड्या भग्नाशेषार्तिरात्मभक्तानाम् । भुग्नालका मदीये लग्ना चित्ते चकास्तु बृहदम्बा ॥ ९०॥ अव्याजभूतकरुणा भव्यापाङ्गप्रकल्पितत्राणा । अव्याद्विलिप्तघुसृणा स्तव्या श्रुत्या सदाप्तगोकर्णा ॥ ९१॥ अम्भोजतुल्यनयनामङ्कालंकारिणीं त्रिनेत्रस्य । अङ्गीकृतादिमरसाम्बां गोकर्णनायिकां सेवे ॥ ९२॥ भार्यामनादियूनोऽहार्याधीशान्ववायमणिभूषाम् । आर्यामुपाध्वमनिशं कार्याकार्यावमर्शनिष्णाताः ॥ ९३॥ वरदे सुरदेशिकवाङ्निकरासुकरानुवर्णने धाम्नि । करवै मुरवैरिमुखैः शिरसा सुरसार्थकैर्नते चेतः ॥ ९४॥ मङ्कणकासारझरीसमीरधारामनोहरोदारे । मिलदलिलोलन्मुकुले वकुलवने लालसीति सकलेशी ॥ ९५॥ पश्यल्ललाटदारान् परिपूर्णानन्दसंविदाकारान् । कठिनघनस्तनभारान् कलये गोकर्णपावनागारान् ॥ ९६॥ गोकर्णेशमहिष्या व्याकर्तुं को गुणान् भवेदीशः । स्वीकर्तुं हृदि वा तान् श्रीकर्कास्यं तमेकमपहाय ॥ ९७॥ तुष्टा श्रीबृहदम्बा कष्टानुन्मूलयेत् कृपादृष्ट्या । इष्टानि च प्रदद्यान्मृष्टां प्रतिभां परत्र च श्रेयः ॥ ९८॥ वन्दे विश्वविधात्रीं वन्दे विद्याचिमुक्तिफलदात्रीम् । वन्दे वकुलवनेशीं वन्दे गोकर्णवल्लभसुकेशीम् ॥ ९९॥ जयति स्फारदयार्द्रा गोकर्णाधीशवल्लभा जयति । जयति प्रसादसुमुखी श्रीरघुनाथेन्द्रपूजिता जयति ॥ १००॥ आख्यां सकृद् यदीयामाख्यायाशेषवाञ्छितं लभते । तस्याः स्तुतिप्रियायाः यः स्यात् स्तोत्रं पठन् स पूर्णार्थः ॥ १०१॥ ॥ इति श्रीबृहदम्बाशतकं संपूर्णम्॥ <ःऱ्> Encoded and proofread by Sridhar Seshagiri seshagir at engineering.sdsu.edu

% Text title            : bRihadambAryAshatakam
% File name             : brihadamba100.itx
% itxtitle              : bRihadambAryAshatakam
% engtitle              : bRihadambAryAshatakam
% Category              : shataka
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : hinduism/religion  a hymn on the presiding Goddess bRihadambA at the rock-cut   temple of shrI gOkarNEshvarar in tirugOkarNam (pudukkOTTai).
% Transliterated by     : Sridhar Seshagiri seshagir at engineering.sdsu.edu
% Proofread by          : Sridhar Seshagiri seshagir at engineering.sdsu.edu
% Latest update         : September 3, 2002
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP