श्रीचामुण्डेश्वरीमङ्गलम्
श्रीशैलराजतनये चण्डमुण्डनिषूदिनि ।
मृगेन्द्रवाहने तुभ्यं चामुण्डायै सुमङ्गलम् ॥ १॥
पञ्चविंशति सालाढ्य श्रीचक्रपुरनिवासिनि ।
बिन्दुपीठस्थिते तुभ्यं चामुण्डायै सुमङ्गलम् ॥ २॥
राजराजेश्वरि श्रीमद्कामेश्वरकुटुम्बिनि ।
युगनाथ तते तुभ्यं चामुण्डायै सुमङ्गलम् ॥ ३॥
महाकालि महालक्ष्मि महावाणि मनोन्मणि ।
योगनिद्रात्मके तुभ्यं चामुण्डायै सुमङ्गलम् ॥ ४॥
मन्त्रिणि दण्डिनि मुख्ययोगिनि गणसेविते ।
भण्डदैत्यहरे तुभ्यं चामुण्डायै सुमङ्गलम् ॥ ५॥
निशुम्भमहिषाशुम्भेरक्तबीजादिमर्दिनि ।
महामाये शिवे तुभ्यं चामुण्डायै सुमङ्गलम् ॥ ६॥
कालरात्रि महादुर्गे नारायणसहोदरि ।
विन्ध्याद्रिवासिनि तुभ्यं चामुण्डायै सुमङ्गलम् ॥ ७॥
चन्द्रलेखालसत्पाले श्रीमत्सिंहासनेश्वरि ।
कामेश्वरि नमस्तुभ्यं चामुण्डायै सुमङ्गलम् ॥ ८॥
प्रपञ्चसृष्टिरक्षादि पञ्चकार्यधुरन्धरे ।
पञ्चप्रेतासने तुभ्यं चामुण्डायै सुमङ्गलम् ॥ ९॥
मधुकैटभसंहर्त्रि कदम्बवनवासिनि ।
महेन्द्रवरदे तुभ्यं चामुण्डायै सुमङ्गलम् ॥ १०॥
निगमागमसंवेद्ये श्रीदेवि ललिताम्बिके ।
ओढ्याणपीठगदे तुभ्यं चामुण्डायै सुमङ्गलम् ॥ ११॥
पुण्ड्रेक्षुखण्डकोदण्डपुष्पकण्ठलसत्करे ।
सदाशिवकले तुभ्यं चामुण्डायै सुमङ्गलम् ॥ १२॥
कामेशभक्तमाङ्गल्य श्रीमत्त्रिपुरसुन्दरि ।
सूर्याग्नीन्दुत्रिलोचनि (नित्यं) चामुण्डायै सुमङ्गलम् ॥ १३॥
चिदग्निकुण्डसम्भूते मूलप्रकृति(स्व)रूपिणि ।
कन्दर्पदीपके तुभ्यं चामुण्डायै सुमङ्गलम् ॥ १४॥
महापद्माटवीमध्ये सदानन्दविहारिणि ।
पाशाङ्कुशधरे तुभ्यं चामुण्डायै सुमङ्गलम् ॥ १५॥
सर्वदोषप्रशमनि सर्वसौभाग्यदायिनि ।
सर्वसिद्धिप्रदे तुभ्यं चामुण्डायै सुमङ्गलम् ॥ १६॥
सर्वमन्त्रात्मिके प्राज्ञे सर्वयन्त्रस्वरूपिणि ।
सर्वतन्त्रात्मिके तुभ्यं चामुण्डायै सुमङ्गलम् ॥ १७॥
सर्वप्राणिहृदावासे सर्वशक्तिस्वरूपिणि ।
सर्वाभिष्टप्रदे तुभ्यं चामुण्डायै सुमङ्गलम् ॥ १८॥
वेदमातः महाराज्ञि लक्ष्मि वाणि वसुप्रिये ।
त्रैलोक्यवन्दिते तुभ्यं चामुण्डायै सुमङ्गलम् ॥ १९॥
ब्रह्मोपेन्द्रसुरेन्द्रादि सम्पूजितपदाम्बुजे ।
सर्वायुधकरे तुभ्यं चामुण्डायै सुमङ्गलम् ॥ २०॥
महाविद्यासम्प्रदात्रि संवेद्यनिजवैभवे ।
सर्वमुद्राकरे तुभ्यं चामुण्डायै सुमङ्गलम् ॥ २१॥
एकपञ्चाशते पीठे निवासात्मविलासिनि ।
अपारमहिमे तुभ्यं चामुण्डायै सुमङ्गलम् ॥ २२॥
तेजोमयि दयापूर्णे सच्चिदानन्दरूपिणि ।
सर्ववर्णात्मिके तुभ्यं चामुण्डायै सुमङ्गलम् ॥ २३॥
हंसारूढे चतुर्वक्त्रे ब्राह्मीरूपसमन्विते ।
धूम्राक्षसहन्त्रिके तुभ्यं चामुण्डायै सुमङ्गलम् ॥ २४॥
माहेस्वरीस्वरूपे पञ्चास्ये वृषभवाहने ।
सुग्रीवपञ्चिके तुभ्यं चामुण्डायै सुमङ्गलम् ॥ २५॥
मयूरवाहे षट्वक्त्रे कौमारीरूपशोभिते ।
शक्तियुक्तकरे तुभ्यं चामुण्डायै सुमङ्गलम् ॥ २६॥
पक्षिराजसमारूढे शङ्खचक्रलसत्करे ।
वैष्णवीसंज्ञिके तुभ्यं चामुण्डायै सुमङ्गलम् ॥ २७॥
वाराहि महिषारूढे घोररूपसमन्विते ।
दंष्ट्रायुधधरे तुभ्यं चामुण्डायै सुमङ्गलम् ॥ २८॥
गजेन्द्रवाहनारुढे इन्द्राणीरूपवासुरे ।
वज्रायुधकरे तुभ्यं चामुण्डायै सुमङ्गलम् ॥ २९॥
चतुर्भुजे सिंहवाहे जटामण्डिलमण्डिते ।
चण्डिके सुभगे तुभ्यं चामुण्डायै सुमङ्गलम् ॥ ३०॥
दंष्ट्राकरालवदने सिंहवक्त्रे चतुर्भुजे ।
नारसिंहि सदा तुभ्यं चामुण्डायै सुमङ्गलम् ॥ ३१॥
ज्वलज्जिह्वाकरालास्ये चण्डकोपसमन्विते ।
ज्वालामालिनि तुभ्यं चामुण्डायै सुमङ्गलम् ॥ ३२॥
भृङ्गिणे दर्शितात्मीयप्रभावे परमेश्वरि ।
नानारूपधरे तुभ्यं चामुण्डायै सुमङ्गलम् ॥ ३३॥
गणेशस्कन्दजननि मातङ्गि भुवनेश्वरि ।
भद्रकालि सदा तुभ्यं चामुण्डायै सुमङ्गलम् ॥ ३४॥
अगस्त्याय हयग्रीव प्रकटीकृतवैभवे ।
अनन्ताख्यसुते तुभ्यं चामुण्डायै सुमङ्गलम् ॥ ३५॥
॥ इति श्रीचामुण्डेश्वरीमङ्गलं सम्पूर्णम् ॥
Proofread by PSA Easwaran