श्रीचक्रराजवर्णनम्

श्रीचक्रराजवर्णनम्

श्रीगणेशाय नमः ॥ ॐ क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं श्रीं । अङ्काधिरूढया श्रीवल्लभयाऽऽश्लिष्टसुन्दरस्वाङ्गम् । कुङ्कुमपङ्किलदेहं शङ्करतनयं नमामि वाक्सिद्ध्यै ॥ १॥ जय जय चक्राधीश्वरि जय जय लोकैकपरजननि । जय जय निगमातीते जय जय कामेशवामाक्षि ॥ २॥ कदा देवि साङ्गां मुदा पूजयित्वा हृदि ब्रह्ममोदं भजेयं कृतार्थी भवेयं क्षणार्थी सदा लोकतन्त्रे निमग्नस्त्वदर्चां विधानेन कर्तुम् । विहीनः स्वशक्त्या स्तवेनापि राज्ञीं सदा भावयामीति कृत्वा हृदब्जे पदाब्जं त्वदीयं सदा भावयित्वा धिया पूजयामि ॥ प्रकृष्टे त्रिरेखाधराश्रेणिप्रसिद्धाभिरीड्यां च मात्रौघसंसेव्यमानां च सङ्क्षोभिणीमुख्यमुद्राधिदेवीभिराराध्यमानां त्रिलोकैकमोहाख्य- चक्राधिदेवीं त्रिपूर्वां पुरां लोकधात्रीं प्रकटाख्यदेवीभिराराध्यमानां च सङ्क्षोभिणीमुद्रया राजमानां नमामि स्वमूर्ध्ना नमामि स्वमूर्ध्ना ॥ ३॥ एणाङ्कचूडालदेवीं द्वितीये च चक्रे कलाब्जेन युक्तेऽभिवाञ्छाप्रपूरे कलाकामकर्षादिदेवीभिरर्धेन्दुभावास्वच्छिरोभूषणाभिः प्रवालप्रभाभिश्चतुर्बाहुसङ्क्रान्तचापासिचर्मप्रबाणाभिरामाभि- रेताभिरीड्यां च गुप्ताभिधानाभिरारक्तनेत्रां पुरेशीं सदा सर्वविद्राविणीमुद्रिकायुक्तहस्तां नमामि स्वमूर्ध्ना नमामि स्वमूर्ध्ना ॥ ४॥ ईशाधिदेवीं तृतीयेऽष्टपद्मे स्वनाम्ना जगत्क्षोभणेऽस्मिन्मनोज्ञे त्वनङ्गप्रसूनादिदेवीभिरत्युग्रविक्रान्तियुक्ताभिरीक्षुं च कोदण्डमस्त्रं च पौष्पं तथा कन्दुकं चोत्पलं धारयन्तीभिरत्यन्तशोणाभिरत्यन्त- गुप्ताभिरासेव्यमानां च चक्राधिनाथां मुदा सुन्दरीं पाणिपद्मेन चाकर्षिणीमुद्रिकाढ्यां नमामि स्वमूर्धा नमामि स्वमूर्ध्ना ॥ ५॥ लक्ष्यां महायोगिवृन्दैस्तुरीये महाचक्रमध्ये तु सौभाग्यदेऽस्मिन्मनोज्ञे जगत्सङ्ख्यकास्त्रे निषण्णां च सङ्क्षोभिणीमुख्यदेवीभिरत्यन्ततीव्राभिरारक्त- सिन्दूरपङ्केन भास्वल्ललाटाभिरत्युग्रवह्निप्रभाभिस्तथा वह्निचापं शरं चक्रखड्गौ वहन्तीभिराराधितां सम्प्रदायाभिधाभिश्च चक्रेश्वरीं वासिनीं पाणिपद्मेन वश्यङ्करीमुद्रिकां धारयन्तीं नमामि स्वमूर्ध्ना नमामि स्वमूर्ध्ना ॥ ६॥ ह्रीङ्काररूपां महेशीं भवानीं तथा पञ्चमेऽस्मिन्दशारे बहिर्भूत- चक्रे मनोज्ञे सुनाम्ना हि सर्वार्थसाधे निषण्णां च सिद्धिप्रदामुख्य- देवीभिरत्यच्छदेहप्रभाभिः कराब्जैश्चतुर्भिर्गदां पाशघण्टामणिं परशुं धारयन्तीभिरेताभिरुत्तीर्णदेवीभिराराध्यमानां चक्राधिनाथां पुराश्रीसमाख्यां कराब्जेन चोन्मादिनीमुद्रिकां धारयन्तीं सदाहं नमामि स्वमूर्ध्ना नमामि स्वमूर्ध्ना ॥ ७॥ हर्यश्वमुख्यैः सुरैः पूजितां तां सुचक्रेऽपि षष्ठे तथान्तर्दशारेऽत्र नाम्ना च रक्षाकरेऽस्मिन्मनोज्ञे च सर्वज्ञदेवीमुखाभिश्चतुर्बाहु- युक्ताभिरत्यच्छमुक्तातिगौराभिरब्जातहस्तैश्च वज्रं च शक्तिं तथा तोमरं चक्रराजं वहन्तीभिरेताभिरीड्यां निगर्भाभिधाभिश्च चक्रेश्वरीं मालिनीं हस्तपद्मे महामुद्रिकां वहन्तीं नमामि स्वमूर्ध्ना नमामि स्वमूर्ध्ना ॥ ८॥ सर्वस्य लोकत्य चाधारभूतां तां सप्तमेऽस्मिन् गजास्रे मनोज्ञे च रोगप्रणाशे वशिन्यादिवाग्देवताभिश्च संरक्तपुष्पप्रभाभिः कराब्जैः शरं चापवीणां च पुस्तं वहन्तीभिरत्यच्छमुक्ता- सरेणोल्लसन्तीभिरेताभिरीड्यां रहस्याभिधाभिश्च चक्रेश्वरीं सिद्धनाथां कराब्जेन खेचर्यभिख्यां सुमुद्रां वहन्तीं नमामि स्वमूर्ध्ना नमामि स्वमूर्ध्ना ॥ ९॥ कल्याणशीले वशिन्यादिगेहात्परं भ्राजमानानि दिव्यास्त्रवृन्दानि चापद्वयं चौक्षवं पौष्पमस्त्रं च पाशद्वयं चाङ्कुशद्वन्द्वकं लोकपित्रोः सदाहं नमामि स्वमूर्ध्ना नमामि स्वमूर्ध्ना ॥ १०॥ हराङ्के वसन्तीं त्रिकोणेऽष्टमेऽस्मिन् सुसिद्धिप्रदे चक्रराजे मनोज्ञे च कामेश्वरीवज्रनाथाभगेशीभिरब्जातहस्तेषु चापं शरं पानपात्रं कृपाणं तथा मातुलिङ्गं च धण्टामणिं कपालं वहन्तीभिरत्यन्ततुल्याभिरेताभिरीड्यां पुराम्बां च चक्राधिनाथां स्वहस्तेन बीजाख्यमुद्रां वहन्तीं नमामि स्वमूर्ध्ना नमामि स्वमूर्ध्ना ॥ ११॥ लक्ष्मीशवागीशवन्द्ये त्रिकोणे च मित्रेशनाधादिनाथान् गुरूंश्चापि दिव्यौघसिद्धौघमर्त्यौधवृन्दं च सालोक्यसारूप्यसायुज्यसिद्धिं गतं देवि भक्त्या नमामि स्वमूर्ध्ना नमामि स्वमूर्ध्ना ॥ १२॥ ह्रींबीजगम्ये ततो देवि धिष्ण्ये कलासङ्ख्यकास्ताश्च नित्यस्वरूपाश्च कामेश्वरीमुख्यदेवीः समाना नमामि स्वमूर्घ्ना नमामि स्वमूर्ध्ना ॥ १३॥ सत्यस्वरूपस्य बिन्दोः समीपे सदा रक्षणार्थं धृतास्त्राः सुवेषाः सदा जागरूकाः षडङ्गाधिदेवीः सुलावण्यपूर्णा नमामि स्वमूर्ध्ना नमामि स्वमूर्ध्ना ॥ १४॥ कलानाथवक्त्रां जलाधारकेशीं झषद्वन्द्वनेत्रां पिनाकाभचिल्लीं सितार्धेन्दुफालां सुमाकारनासां सुबिम्बोष्ठरम्यां कदम्बद्विजालिं कनत्कम्बुकण्ठीं लताबाहुयुक्तां कुलागस्तनद्वन्द्वसंशोभमानां वलीशोभमानां वलग्ने परोक्षां सुरम्भोरुशोभत्रिकोणस्य मध्ये सदानन्दपीठे शिवाङ्के लसन्तीं त्रिखण्डाख्यमुद्रायुतां चक्रराज्ञीं महाभैरवीं तां नमामि स्वमूर्ध्ना नमामि स्वमूर्ध्ना ॥ १५॥ लसद्रक्तसिन्दूरवर्णां कराब्जैः सुपाशं च कोदण्डमिक्षुप्रकाण्डं सुमास्त्रं तथा चाङ्कुशं धारयन्तीं कृपापूर्णलावण्यनेत्रान्तरम्यां सुधास्यन्दिनिक्वाणवाग्जन्मभूमिं सुमास्त्रस्य शास्त्रार्थसारैकनाडीं नतानां जनानां समस्तप्रदात्रीं नवानां पुराणामधीशां सुगात्रीं जगद्रक्षणे दक्षबाहालताढ्यां नमामि स्वमूर्घ्ना नमामि स्वमूर्घ्ना ॥ १६॥ हीङ्कारयुक्तेन मन्त्रेण नित्यं भवत्पादुकां ये स्मरन्ति स्वबुद्ध्या न तेषां जरामृत्युदारिद्यपीडा च तेषां हि सन्दर्शमात्रेण सर्वाः प्रबाधाः प्रणश्यन्ति सत्यं त्रिसत्यं च सत्यं कृतार्थाश्च ते मुक्तिभाजो हि ये वा महाराज्ञि चित्ताम्बुजे त्वां सदा धारयन्तीह श्रीचक्रसाम्राज्ञि भक्त्या नमामि स्वमूर्ध्ना नमामि स्वमूर्ध्ना ॥ १७॥ श्रीङ्कारमन्त्राब्जश‍ृङ्गारहंसीं नृपोक्तिप्रपञ्चान्तसिद्धान्तवल्लीं लसद्भृङ्गनीलालकश्रेणिरम्यां सदा भक्तिनम्रेण चित्तेन गम्यां हराङ्के हरेर्वक्षसि ब्रह्मवक्त्रे त्रिधारूपसम्पत्तिविभ्राजमानां चिदानन्दवल्लीं तुरीयां परेशीं जगत्सृष्टिसंरक्षणाकर्षकर्त्रीं गुणातीतरूपां गुणैश्चापि युक्तां महामन्त्ररूपां महापीठरूपां महाशक्तिरूपां महानन्दरूपां नमामि स्वमूर्ध्ना नमामि स्वमूर्ध्ना ॥ १८॥ इति श्रीचक्रराजवर्णनं सम्पूर्णम् ॥ Proofread by PSA Easwaran
% Text title            : chakrarAjavarNanam
% File name             : chakrarAjavarNanam.itx
% itxtitle              : chakrarAjavarNanam
% engtitle              : chakrarAjavarNanam
% Category              : devii, devI, panchadashI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description-comments  : Brihatstotraratnakara 2, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 225-425
% Latest update         : December 27, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org