श्रीदक्षिणकालीप्रातःस्मरणस्तोत्रम्
प्रातः स्मरामि मदिरारुणपूर्णनेत्रां
कालीं करालवदनां कमनीयमात्राम् ।
उद्यन्नितानतगतां विगतां स्वसंस्था-
न्धात्रीं समस्तजगताङ्करुणार्द्रचित्ताम् ॥ १॥
प्रातर्भजामि भुजगाभरणामपर्णां
श्रीदक्षिणां ललितवाललतां सपर्णाम् ।
कारुण्यपूर्णनयनां नगराजकन्यां
धन्यां वराभयकरां परमार्तिहन्त्रीम् ॥ २॥
प्रातर्नमामि नगराजकुलोद्भवां तां
कान्तां शिवस्य करवालकपालहस्ताम् ।
त्रैलोक्यपालनपरां प्रणवादिमात्रां
नागेन्द्रहारकलितां ललितां त्रिनेत्राम् ॥ ३॥
श्लोकत्रयमिमं पुण्यं प्रातः प्रातः पठेन्नरः ।
तमोबुद्धिं समुत्तिर्य सपश्येत् कालिकापदम् ॥ ४॥
इति श्रीदक्षिणकालीप्रातःस्मरणस्तोत्रं सम्पूर्णम् ।
Encoded and proofread by Gopal Upadhyay gopal.j.upadhyay at gmail.com