श्रीदशविद्यामयीबालास्तोत्रम्

श्रीदशविद्यामयीबालास्तोत्रम्

श्रीकाली बगलामुखी च ललिता धूम्रावती भैरवी मातङ्गी भुवनेश्वरी च कमला श्रीर्वज्रवैरोचनी । तारापूर्वमहापदेन कथिता विद्या स्वयं शम्भुना लीला रूपमयी च देशदशधा बाला तु मां पातु सा ॥ १॥ श्यामां श्यामघनावभासरुचिरां नीलालकालङ्कृतां बिम्बोष्ठीं बलिशत्रुवन्दितपदां बालार्ककोटिप्रभाम् । त्रासत्रासकृपाणमुण्डदधतीं भक्ताय दानोद्यतां वन्दे सङ्कटनाशिनीं भगवतीं बालां स्वयं कालिकाम् ॥ २॥ ब्रह्मास्त्रां सुमुखीं बकारविभवां बालां बलाकीनिभां हस्तन्यस्तसमस्तवैरिरसनामन्ये दधानां गदाम् । पीतां भूषणगन्धमाल्यरुचिरां पीताम्बराङ्गां वरां वन्दे सङ्कटनाशिनीं भगवतीं बालां च बगलामुखीम् ॥ ३॥ बालार्कद्युतिभास्करां त्रिनयनां मन्दस्मितां सन्मुखीं वामे पाशधनुर्धरां सुविभवां बाणं तथा दक्षिणे । पारावारविहारिणीं परमयीं पद्मासने संस्थितां वन्दे सङ्कटनाशिनीं भगवतीं बालां स्वयं षोडशीम् ॥ ४॥ दीर्घां दीर्घकुचामुदग्रदशनां दुष्टच्छिदां देवतां क्रव्यादां कुटिलेक्षणां च कुटिलां काकध्वजां क्षुत्कृशाम् । देवीं शूर्पकरां मलीनवसनां तां पिप्पलादार्चितां बालां सङ्कटनाशिनीं भगवतीं ध्यायामि धूमावतीम् ॥ ५॥ उद्यत् कोटिदिवाकरप्रतिभटां बालार्कभाकर्पटां मालापुस्तकपाशमङ्कुशवरां दैत्येन्द्रमुण्डस्रजाम् । पीनोत्तुङ्गपयोधरां त्रिनयनां ब्रह्मादिभिः संस्तुतां बालां सङ्कटनाशिनीं भगवतीं श्रीभैरवीं धीमहि ॥ ६॥ वीणावादनत्परां त्रिनयनां मन्दस्मितां सन्मुखीं वामे पाशधनुर्धरां तु निकरे बाणं तथा दक्षिणे । पारावारविहारिणीं परमयीं ब्रह्मासने संस्थितां वन्दे सङ्कटनाशिनीं भगवतीं मातङ्गिनीं बालिकाम् ॥ ७॥ उद्यत्सूर्यनिभां च इन्दुमुकुटामिन्दीवरे संस्थितां हस्ते चारुवराभयं च दधतीं पाशं तथा चाङ्कुशम् । चित्रालङ्कृतमस्तकां त्रिनयनां ब्रह्मादिभिः सेवितां वन्दे सङ्कटनाशिनीं च भुवनेशीमादिबालां भजे ॥ ८॥ देवीं काञ्चनसन्निभां त्रिनयनां फुल्लारविन्दस्थितां बिभ्राणां वरमब्जयुग्ममभयं हस्तैः किरीटोज्ज्वलाम् । प्रालेयाचलसन्निभैश्च करिभिरासिञ्च्यमानां सदा बालां सङ्कटनाशिनीं भगवतीं लक्ष्मीं भजे चेन्दिराम् ॥ ९॥ सञ्छिन्नं स्वशिरो विकीर्णकुटिलं वामे करे बिभ्रतीं तृप्तास्यां स्वशरीरजैश्च रुधिरैः सन्तर्पयन्तीं सखीम् । सद्भक्ताय वरप्रदाननिरतां प्रेतासनाध्यासिनीं बालां सङ्कटनाशिनीं भगवतीं श्रीच्छिन्नमस्तां भजे ॥ १०॥ उग्रामेकजटामनन्तसुखदां दूर्वादलाभामजां कर्त्रीखड्गकपालनीलकमलान् हस्तैर्वहन्तीं शिवाम् । कण्ठे मुण्डस्रजं करालवदनां कञ्जासने संस्थितां वन्दे सङ्कटनाशिनीं भगवतीं बालां स्वयं तारिणीम् ॥ ११॥ मुखे श्रीमातङ्गी तदनु किल तारा च नयने तदन्तङ्गा काली भ्रुकुटिसदने भैरविपरा । कटौ छिन्ना धूमावति जय कुचे श्रीकमलजा पदांशे ब्रह्मास्त्रा जयति किल बाला दशमयी ॥ १२॥ विराजन्मन्दारद्रुमकुसुमहारस्तनतटी परित्रासत्राणस्फटिकगुटिकापुस्तकवरा । गले रेखास्तिस्रो गमकगतिगीतैकनिपुणा सदा पीता हाला जयति किल बाला दशमयी ॥ १३॥ (मेरुतन्त्रे) इति मेरुतन्त्रान्तर्गतं श्रीदशविद्यामयीबालास्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : Shri Dashavidyamayi Bala Stotram
% File name             : dashavidyAmayIbAlAstotram.itx
% itxtitle              : bAlAstotram dashavidyAmayI (merutantrAntargatam)
% engtitle              : dashavidyAmayI bAlAstotram
% Category              : devii, dashamahAvidyA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description/comments  : bAlAsaparyA saparyAkrama-nAmAvalI-stotrAdisaNgrahaH, Merutantra
% Indexextra            : (Scan)
% Latest update         : March 21, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org