देवीनीराजनम्
जय देवि जय देवि जयमातस्त्रिपुरे ।
भक्त्यानुग्रहकारिणि दासानुग्रहकारिणि ईश्वरि सुरवरदे ॥ ध्रु.॥
दुर्गे दुर्गतिनाशिनि भवसागरतारे
मृगेन्द्रवाहनगिरिजे दानवसंहारे ।
अष्टादशभुजमूर्ते कण्ठरूण्डमाले
सप्तशृङ्गनिवासिनि रुद्रात्मकशक्ते ॥ जय देवि ॥ १॥
बालार्कारुणशोभितबन्धक कुसुमाभे
कुङ्कुमशोभितदेहे दाडिमकुसुमाभे ।
पादाहतमहिषासुरदेवासुरसर्गे
नानादानवमर्दिनि अलिकुलरिपुवर्गे ॥ जय देवि ॥ २॥
जय त्रिपुरासुरमर्द्दिनि मर्दय मम दोषान्
तारय तारय मातर्भवजलकूपस्थान् ।
कामक्रोधादीन्मारय देहस्थान्
करुणादृष्ट्या माता रक्षय निजभक्तान् ॥ जय देवि ॥ ३॥
मूले चाधिष्ठाने मणिपूरे चक्रे
हृदयेऽनाहतचक्रे षोडशदलपद्मे ।
आज्ञाचक्रे बालय बालय कृतवलये
ब्रह्मस्थाने विहरसि मातः शिवसहिते ॥ जय देवि ॥ ४॥
विधिहरिशङ्करवन्द्ये पण्डितजनवन्द्ये
सनकादिकमुनिवन्द्ये यक्षासुरवन्द्ये ।
नारदतुम्बुरुकिन्नरगीते सुरवन्द्ये
अघनाशिनि भवशोषिणि मातः सुखसहिते ॥ जय देवि ॥ ५॥
ॐ कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम् ।
सदा रमन्तं हृदयारविन्दे भवं भवानीसहितं नमामि ॥
इति देवीनीराजनं सम्पूर्णम् ।
Proofread by Paresh Panditrao