देवीनवरत्नमालिका
वेलातिशायिललितालापनर्मरतलीलाशुकातिसुभगा
तालाभिरामकुचकूलातिलोलमणिमालाचिरांशुललिता ।
फालातिमुग्धहरिनीला(लका) वृजिनतूलानलात्ममहिमा
कालारिवामदृगवेलां तरङ्गयतु हेलां मदुक्तिसरणेः ॥ १॥
भाषामुखत्रिदशयोषाविशेषकविशेषारुणाङ्घ्रिसुषमा
दोषा(करालि)कविभूषा कवीन्द्रकृततोषा कयापि कलया ।
पूषानलेन्दुदृगशेषाम्बिका शमितदोषा स्मृता झटिति या
सैषा तनोतु सुमनीषां निजस्तुतिविशेषा(वधारण)विधौ ॥ २॥
द्राक्षासुधेक्षुरसशिक्षाकृदुक्तिरलिकाक्षाङ्कखेलनपरा
वीक्षालवार्पणविलक्षाब्जभूसरसिजाक्षादिदेवनिवहा ।
दक्षा जगत्त्रितयरक्षाविधौ त्रिदशवृक्षायि(ता वितर)णे
मत्क्षामतां हरतु दाक्षायणी झटिति साक्षादुपेत्य कृपया ॥ ३॥
वेदाद्यगम्यमृदुपादाब्जरेणुमिलदापद्मभूमुखसुरं
नादात्मकं (---मो)ढावहं हृदयरोधादियोगविदुषाम् ।
वेदान्तबोधितचिदाकारमात्रमपि (यच्छ्री) घीदायि सर्वजगतां
श्रीदाद्युपास्यमतिसौदामिनीद्युति मदा(द् याति) मामकमनः ॥ ४॥
वृन्दारकप्रवरवृन्दातिवृष्टनवमन्दारपुष्पविसरा
वन्दारुमौलितटसन्दानितोरुकुरुविन्दातिदीप्तचरणा ।
मन्दाश्च यत्पद(रविन्दार्च]नेन मकरन्दाभवाग्झरयुताः
स्कन्दाम्बिका श्रियममन्दां तनोतु मम कुन्दाभमन्दहसिता ॥ ५॥
सोमार्धकल्पितललामा कृपाम्बु(धिरसीमा] हिमाद्रितपसां
भूमा प्रतप्तनवहेमातिशायितनुधामावलिप्तभुवना ।
वैमानिकप्रवरदामामरद्रुसुमदामार्चिताङ्घ्रिनलिना
(श्यामाल)का कलितकामाय मे भवतु कामारिवामनयना ॥ ६॥
मुक्तासरप्रकरयुक्ता कुचे किमपि रिक्ता वलग्नविषये
व्यक्तानुरागरससिक्ताशया (श्रुतिनिरु)क्ताङ्घ्रियुग्ममहिमा ।
भक्तार्तिनिर्हरणशक्ता जपाकुसुमरक्ता विविक्तभजना-
सक्तान् करोतु लघु मुक्तान् श्रिया जगति युक्तान् विधाय --- ॥ ७॥
जम्भारिदृप्त करिकुम्भाकृतिप्रचुरडम्भापहस्तनभरां
डिम्भार्कसोदरकुसुम्भांशुकां कनकरम्भासमोरुविभवाम् ।
कुम्भात्मजादिमु(निसम्भा)वितां य इह तां भावयत्यतितरां
सम्भाव्यमानपदगुम्भा वृणोति बत तं भारती सरभसम् ॥ ८॥
क्षीराम्बुराशिमणितीरामरद्रुक्कृत(-रा स]लीलमनिशं
तारा भवाम्बुनिधिपूरादुदञ्चयति वीरान् स्वभक्तिविषये ।
श्रीरामचन्द्रकविगीराविरास यदुदाराङ्घ्रिसंस्तुतिविधौ
स्मेरानना (---)धीरा जगुर्निङ्गमसारार्थमेव खलु याम् ॥ ९॥
इति श्रीरामचन्द्रकविकृता श्रीदेवीनवरत्नमालिका समाप्ता ।
Stotra is similar to ambAnavamaNimAlA (ambA navamaNimAlA).
Proofread by Sivakumar Thyagarajan Iyer