देवीशतकम्

देवीशतकम्

श्रीगणेशाय नमः । अनन्तमहिमव्याप्तविश्वां वेधा न वेद याम् । या च मातेव भजते प्रणते मानवे दयाम् ॥ १॥ नतापनीतक्लेशायाः सुरारिजनतापनी । न तापनी तनुर्यस्यास्तुल्या नादीनतापनी ॥ २॥ वक्त्रपद्मा विधेर्भान्ति यया सर्गलयो दया । या साक्षाद्या च जनितस्थितिसर्गलयोदया ॥ ३॥ याश्रिता पावनतया यातनाच्छिदनीचया । याचनीया धिया मायायामायासं स्तुता श्रिया ॥ ४॥ नमांसि ध्वंसमायान्ति अस्याः स्तुत्यादरेण वः । तस्याः सिद्ध्यै धियां मातुः कल्पन्तां पादरेणवः ॥ ५॥ ऋषीणां सादयामास या तमांसि त्रयीमयी । पायाद्वः सा दयामाधिच्छिदं जगति बिभ्रती ॥ ६॥ स्मरद्विषा या ययाचे यया चेयं विधेः क्रिया । यां चाच्युतोऽपि तुष्टाव तुष्टा वः साऽस्तु पार्वती ॥ ७॥ या दमावनयागेन स्वाराथा नयसारया । हरिकैतवहास्याय सायामा विजिता यया ॥ ८॥ यायताजिविमया सा यस्या हा बत कैरिह । या रसायनधारा स्वा न गेयानवमा दया ॥ ९॥ सा बुद्धिरुत्तमालोकः सतामार्या पुनातु वः । यद्भक्तेरुत्तमा लोकः प्राप्नोत्येष विशुद्धताम् ॥ १०॥ अयुद्ध साधुत्राणाय सामरा या सहारिणा । खड्गेन दीप्रा देवानां सामरायासहारिणा ॥ ११॥ चरणाघातनिहतकासरा च रणाजिरे । रराज या नयजयैरराजसजनानता ॥ १२॥ सावताद्वोऽम्बिकाऽभ्यर्च्यनामा न न यशोभितः । तनोति प्रणतो यस्या ना माननयशोभितः ॥ १३॥ संयतं याचमानेन यस्याः प्रापि द्विषा वधः । संयतं या च मानेन युनक्ति प्रणतं जनम् ॥ १४॥ या दमानवमानन्दपदमाननमानदा । दानमानक्षमानित्यधनमानवमानिता ॥ १५॥ सा रक्षतादपारा ते रसकृद्गौरबाधिका । सारक्षतादपारातेरसकृद्गौरवाधिका ॥ १६॥ अनुत्तमोहराशयो भवन्ति यामनाश्रिताः । अनुत्तमो हराशयो यया चिरं च रञ्जितः ॥ १७॥ अनन्तरागतापायास्तारयित्री भवापदः । अनन्तरागतापायाः सा वो गौरी हियात्क्रियाः ॥ १८॥ यामायासजिदासक्तशोकजालस्य पातिनी । या माता सर्वदा भक्तलोकजालस्य पालनी ॥ १९॥ सामरागमनायासं त्यक्त्वा सार्धं सुरारिभिः । सामरा गमनायासन्नुद्यता युधि यद्गणाः ॥ २०॥ सामोदयाजया शातैः शस्त्रैः शत्रौ हते यया । सामोदया जयाशा तैर्गीर्वाणैर्गर्वतो जहे ॥ २१॥ ययायायाय्यया यूयं यो योऽयं येययैय याम् । ययुयायिययेयाय ययेऽयायाय याययुक् ॥ २२॥ साऽव्याद्गौरी सदा युष्मान्सदायुष्मान्समृद्ध्यति । शरणं यां नरो गच्छन्न रोगच्छन्दमेति च ॥ २३॥ कृतास्पदा यथा सम्पदघानि सुरवैरिषु । हन्ति या वाङ्मयी दूरादघानि सुरवैरिषुः ॥ २४॥ जितानया या नताजितारसाततसारता । न सावना नावसानयातनारिरिना तया ॥ २५॥ मनोभवारातिमनोभिरामया जरामयापाकरणैकदक्षया । मदक्षयान्निर्मलतां ददानया सदा नयास्था क्रियतां तवार्यया ॥ २६॥ समाययाविन्द्रहिताय या रणे समायया या न जितारिसेनया । स मा ययाचे हरमाश्रितः स्फुटं समा यया मुग्धतया मनोज्ञताः ॥ २७॥ सा भावक्षालवर्या नुतविभवितनुर्या वलक्षावभासा जानानस्याशयप्रा नवनलिनवनप्रायशस्याननाजा । सातं वर्माननस्था रहसि रसिहरस्थाननर्मावतंसा पायादक्ता रणत्रा मतनमनतमत्राणरक्ता दयापा ॥ २८॥ उपासते कृष्टिकृतोदयां यां जना सदाराधनमीहमानाः । शम्भोः प्रसिद्धा तनुतां वहन्ती गौरी हितं सा भवतां विधेयात् ॥ २९॥ यां सद्य एव त्रिदशैः पुमांसः समा नमस्यन्ति सदानभोगाः । अघानि यस्य प्रणता विपक्षैः समानमस्यन्ति सदा नभोगाः ॥ ३०॥ यस्याः प्रभावो द्युसदां विपक्षसेना वधानन्दयिताहरस्य । मनोम्बुजस्यावहतु श्रियै वः सेनावधानं दयिता हरस्य ॥ ३१॥ सुरा जिता भावितदेवराजद्विपक्षमा यात रणादभीतम् । स्वापं न वो धाम हितं न नाम सदैवसेना भवतोहितानाम् ॥ ३२॥ सुराजिता भावितदेवराजद्विपक्षमाया तरणादभीतम् । स्वापन्नबोधामहितं ननाम सदैव सेना भवतो हितानाम् ॥ ३३॥ सुरानिति द्वेषिजनैरभिद्रुतानुदाहरद्या स्वयमाहवोद्यता । शिवोऽद्य तापप्रशमस्तया तव प्रशस्तया तत्त्वदृशा विधीयताम् ॥ ३४॥ वक्रं बिभ्रत्युपहितचन्द्रायासं या संमोहप्रशमनसूर्याकारा । कारानीतामरमरिमाचिक्षेप क्षेपत्यक्ता रणभुवि सा वः पायात् ॥ ३५॥ हिते हितेऽस्तु ते स्तुते जिताजितामितामिता । जयाजया जनोऽजनो यया ययावलं बलम् ॥ ३६॥ सक्तिं वः सुकृतार्जने विदधती सत्रां यतां त्रायतां दुर्गा दुर्ग्रहदूषितोद्धतधियामायासदा या सदा । साधूत्साहविधानसक्तमनसां मुख्या ततो ख्याततां संस्मृत्यैव - - - मत्सरभरस्फीतापदां तापदाम् ॥ ३७॥ या मूर्तिं किमपि स्मरारिवपुषा धत्ते समायोजितां यां दृष्ट्वैव विनाशमाप सहसा शुम्भः समायोऽजिताम् । या नम्रैः सुरसिद्धिकिं‍नरनरैः खेदं विना शस्यते सा हेतुर्भवतां त्रिलोचनवधूरश्रीविनाशस्य ते ॥ ३८॥ सायासायास्त्रिलोक्याः शरणमकरुणक्षुण्णदैत्यप्रवीरा स्वैरं स्वैरंशसर्गैर्गहनतममहामोहहार्दं हरन्ती । शस्याशस्यादधाना सकलमभिहितं भक्तिभाजः स्मृतैव स्तादस्तादभ्रदोषा द्विषदुपशमनी सर्वतः पार्वती वः ॥ ३९॥ सुरसुरचितचितनवनवभवभवनानादरादरायेथे । लयलयचरणौ चरणौ न न मामि नतेन नमामि न ते ॥ ४०॥ या विस्मयं स्मरभिदा चक्रेऽङ्कारोपिता नवं नारीणाम् । विदधे यच्चापस्य न च क्रेङ्कारोऽपि तानवं नारीणाम् ॥ ४१॥ या हन्तां च प्रयाता विहाथसा कंसमाह तारातिबलेन । कृष्णस्तव परमाया विहाय साकं समाहतारातिबलेन ॥ ४२॥ तां नमत या च समरेष्वनेकशो भाति भद्रकाली नतया । ख्याति यया जनतोज्ज्वलविवेकशोभातिभद्राकालीनतया ॥ ४३॥ तां स्मरत था स्मृतैव हि मानवतामरसमानता राति बलात् । यत्प्रणतं श्रीः श्रयते मानवतामरसमान ताराति बलात् ॥ ४४॥ अनवरागसमुद्भवदेहतामुपगता ददृशे गिरिशेन या । अनवरागसमुद्भवदेह तामवनतोऽस्मि जगात्प्रियतां सतीम् ॥ ४५॥ मेने नूनमनेन माननमुमानाम्ना नु मेनोन्मना नुन्नेनोनमने निमानममुना नो नाम नानानुमे । मौनेनामममाननिम्नमननान्नानामिनानूनिमे सुन्मिन्नाननमा नमी मुनिमनोमानाननोन्नामिनि ॥ ४६॥ तां वन्देऽहं नवं देहं ज्ञानरूपं विधाय या । सुघीरस्यति धीरस्य महामोहमयीं त्वचम् ॥ ४७॥ यां नुत्वा यान्ति हृद्यार्थसज्जायां गिरि शस्यताम् । नौम्यहं भक्तिमास्थाय सज्जायां गिरिशस्य ताम् ॥ ४८॥ यदानतोऽयदानतो न यात्ययं नयात्ययम् । शिवे हितां शिवेहितां स्मरामितां स्मरामि ताम् ॥ ४९॥ सरस्वतिप्रसादं मे स्थिति चित्तसरस्वति । सरस्वति कुरु क्षेत्रकुरुक्षेत्रसरस्वति ॥ ५०॥ त्वद्भक्तिभावितधियो जगतामत्र ये त्रये । जन्मवत्तामहं मन्ये तेषामेवानृणां नृणाम् ॥ ५१॥ जगतः सातिरेका त्वं गतिरस्य स्थिराधिका । तरस्यत्रासतारारेः सास्यत्रासरसस्थिति ॥ ५२॥ त्वन्नामस्मरणादेव न लक्ष्मीश्चपलायते । सर्वतः पार्वति क्षिप्रमलक्ष्मीश्च पलायते ॥ ५३॥ जयन्ति भक्ता वित्तेशसमरायस्तबाहवे । तुभ्यन्नमस्त्रिलोक्यर्थसमरायस्तबाहवे ॥ ५४॥ सत्त्वं सम्यक्त्वमुन्मील्य हृदि भासि विराजसे । द्विषामरीणा त्वं सेनां वाहिनीमुदकम्पयः ॥ ५५॥ दूरागतरसा धन्यः सेवतेयस्तव स्तुतीः । दूरागत रसाधन्यः कल्पन्ते तस्य सिद्धयः ॥ ५६॥ मोहं हत्वास्पदं यासि सात्त्वमम्बरवासिना । या न संस्तूयसे केन सा त्वम्बरवसिना ॥ ५७॥ प्रकाश्य गृह्यपुंसस्यखेदच्छेदाम्बुदावली । प्रज्ञात्मनेनविमला स्मिता दृश्यसि विद्वताम् ॥ ५८॥ भवानि ये निरन्तरं तव प्रणामलालसाः । मनस्तमोमलालसा भवन्ति नैय तु क्वचित् ॥ ५९॥ विभावनाकुला त्वयि क्रमेण देवि भावना । वपुष्पतिस्थिरेतरे नितान्तमेव पुष्यति ॥ ६०॥ महोऽदयानामवधी रणेन महोदयानामवधीरणेन । महोदयानामव धीरणेजमहोदयानामवधीरणेन ॥ ६१॥ न मज्जनेन तीर्थानां तदिह प्राप्यते शुभम् । नमज्जनेन तीर्थानां सेवया यत्तवाम्बिके ॥ ६२॥ प्रयाति मोहे निःसारभारतीव्रतमेत्ययम् । त्वात्प्रासादाज्जनः सारभारतीव्रतमेत्ययम् ॥ ६३॥ शास्त्रप्रभावहसिताः सतां या निर्मला गिरः । शास्त्रप्रभावहसितास्त्वमम्बतिमिरच्छिदः ॥ ६४॥ शमीह ते समानतो विभावितोऽत्रसन्न यः । विभावितोऽत्र सन्नयः शमीहते स मानतः ॥ ६५॥ मातरं त्वा पदं सद्य आश्रितास्ते कथं जनाः । मा तरन्त्वापदं सद्य आद्यं श्रेयः समाश्रिताः ॥ ६६॥ भाति त्वत्तनुसंश्लेषे सत्यम्ब वपुरनुत्तरम् । संसाराब्धौ सदाहुस्ते सत्यं वपुरनुत्तरम् ॥ ६७॥ यच्छ मे नित्यसंसङ्गि यच्छमे तदिदं मनः । स्वच्छलो भक्तियोगस्ते स्वच्छलोकविवेकसूः ॥ ६८॥ के वलन्ते वितन्वन्तकृतस्त्वत्प्रणता भवे । केवलं ते वितन्वन्त आसते विमलां धियम् ॥ ६९॥ देवि निर्दग्धकामस्य त्वं निरावरणात्मनः । हरस्य शुभसन्तानं तेनासौ भ्राजते तथा ॥ ७०॥ द्विषद्भिया सपदि विमुच्यते यतस्तवानतो जननि जयाशया न कः । स्तवानतो जननिजया शयानकः करोति ते युधि मधुसूदनस्वसः ॥ ७१॥ ज्यायोनिष्ठारिवर्याधिनियमनवरस्वैरदत्तायताज्ञा स्वाराधत्वासमध्यानियजनजननि ज्ञेयसुस्थावभासा । नानापुण्यागमस्था जननमनमयज्ञाननन्द्या वरा धी- र्याता नव्या विभुत्वं नुतसरलमनस्तामसस्यावहास्ये ॥ ७२॥ स्येहाव स्या समस्तानमलरसतनु त्वं भुवि व्यानतार्या धीरा वन्द्या न न ज्ञा यमनमननजस्थामगण्या पुनाना । सा भावस्था सुयज्ञेऽनिनजनजयनि ध्यामसत्त्वाधरास्वा ज्ञातायत्तादरस्वैरवनमनिधिर्या वरिष्ठानियोज्या ॥ ७३॥ अलोलकमले चित्तललामकमलालये । पाहि चण्डि महामोहभङ्गभीमबलामले ॥ ७४॥ दुर्गापि मातः सुलभासि भक्त्या भवानुकूलापि भवं क्षिणोषि । अध्येयतां यासि सदैव देवि ध्येयासि चित्रं चरितं तवैतत् ॥ ७५॥ महदेसुरसन्धम्मे तमवसमासङ्गमागमाहरणे । हरबहुसरणं तं चित्तमोहमवसर उमे सहसा ॥ ७६॥ वन्द्या प्रभातसन्ध्येव सूर्यालोकप्रवर्तिनी । निवर्तयसि देवि त्वं महामोहमयीं निशाम् ॥ ७७॥ संवादिसारसम्पत्तीसदागोरिजयेसुदे । तवसत्तीरदे सन्तु संसारे सुसमानदे ॥ ७८॥ आगममणिसुदमहिमसमसंमदकृदपरजस्सु । किर सविभयवदितो समय उज्जलभावसहस्सु ॥ ७९॥ त्वं वादे शास्त्रसङ्गिन्यां भासि वाचि दिवौकसः । तवादेशास्त्रसंस्काराज्जयन्ति वरदे द्विषः ॥ ८०॥ सदाव्याजवशिध्याताः सदात्तजपशिक्षिताः । ददास्यजस्रं शिवताः सूदात्ताजदिशि स्थिताः ॥ ८१॥ हरेः स्वसारं देवि त्वा जनताश्रित्य तत्त्वतः । वेत्ति स्वसारं देवित्वा योगेन क्षपिताशुभा ॥ ८२॥ सदाप्नोति यतिर्ज्योतिस्तादृशं स्वत्प्रभावतः । प्रभावतः समो येन कल्पते मोहनुत्तितः ॥ ८३॥ त्वं सद्गतिः सितापारा परा विद्योत्तितीर्षतः । संसारादत्र चाम्ब त्वं सत्त्वं पासि विपत्तितः ॥ ८४॥ परमा या तपोवृत्तिरार्यायास्तं स्मृतिं जनाः । परमायात पोषाय धियां शरणमादृताः ॥ ८५॥ प्रवादिमतभेदेषु दृश्यस्ते महिमाश्रयः । भान्ति त्वत्त्रिशिखस्येव शिखानामसमाश्रयः ॥ ८६॥ यच्चेष्टया तव स्फीतमुदारवसु धामतः । यच्चेतो यात्यवहितमुदा रवसुधामतः ॥ ८७॥ सुरदेशस्य ते कीर्तिं मण्डनत्वं नयन्ति यैः । वरदे शस्यते धीरैर्भवती भुवि देवता ॥ ८८॥ तत्त्वं वीतावतततुत्तत्वं ततवती ततः । वित्तं वित्तव वित्तत्वं वीतावीतवतां बत ॥ ८९॥ तारे शरणमुद्यन्ती सुरेशरणमुद्यमैः । त्वं दोषापासिनोदग्रस्वदोषा पासि नोदने ॥ ९०॥ सुमातरक्षयालोक रक्षयात्तमहामनाः । त्वं धैर्यजननी पासि जननीतिगुणस्थितीः ॥ ९१॥ ख्यातिकल्पनदक्षैका त्वं सामर्ग्यजुषामितः । सदा सरक्षसांमुख्यदानवानामसुस्थितिः ॥ ९२॥ सिता संसत्सु सत्तास्ते स्तुतेस्ते सततं सतः । ततास्तितैत्ति तस्तेति सूतिः सूतिस्ततोऽसि सा ॥ ९३॥ त्वदाज्ञया जगत्सर्वं भासितं मलनुद्यतः । सदा त्वया सगन्धर्वं समिद्धमरिनुत्तितः ॥ ९४॥ यतो याति ततोऽत्येति यया तां तायतां यतैः । मातामितोत्तमतमा तमोतीतां मतिं मम ॥ ९५॥ महत्तां त्वं श्रिता दासजनं मोहच्छिदा वस । यच्छद्धत्वं गतः पापमन्यस्य प्रसभं जय ॥ ९६॥ त्वां साज्ञासु जगन्मातः स्पष्टं ज्ञाता सुवर्त्मसु । प्रज्ञा मुख्या समुद्भासि तत्पृथुत्वं प्रदर्शय ॥ ९७॥ आज्ञासु जगन्मातः स्पष्टं ज्ञाता सुवर्त्मसु प्रज्ञा । भासि त्वं सा मुख्या समुत्पृथुत्वं प्रदर्शय तत् ॥ ९८॥ हन्त्र्यो रुषः क्षमा एता सन्दक्षोभास्तमुन्नतः । सतेहितः सेवते ताः सततं यः स ते हितः ॥ ९९॥ करोषि तात्स्त्वमुत्खातमोहस्थाने स्थिरा मतीः । पदं यतिः सुतपसा लभतेऽतः सशुक्लिम ॥ १००॥ देव्या स्वप्नोद्गमादिष्टदेवीशतकसंज्ञया । देशितानुपमामाधादतो नोणसुतो नुतिम् ॥ १०१॥ हार्दध्वान्तनियन्तृभास्वरवपुः स्वर्वासिनां सर्वतो दुर्वारारिपरिक्षयं विदधती ध्यातैव लर्वाणसूः । देहार्धे निहिता भवेन भुवनत्राणैकतानात्मना देवि त्वं त्वमिवापरा जगति का सत्केसरीन्द्रस्थितिः ॥ १०२॥ क्लेशोन्माथकरी सतां भवहरानन्दैकहेतो गुरु- र्माता त्वं जगतां भवन्ति विधवाः सर्वे तवानुग्रहात् । दुर्गे न क्वचिदेव सीदति जनस्त्वद्भक्तिपूताशयः स्तुत्या भर्तुरभिन्नयेति विबुधैस्त्वं स्तूयसे श्रीरिव ॥ १०३॥ येनानन्दकथायां त्रिदशानन्दे च लालिता वाणी । तेन सुदुष्करमेतत्स्तोत्रं देव्याः कृतं भक्त्या ॥ १०४॥ इति श्रीमदानन्दवर्धनाचार्यविरचितं देवीशतकं सम्पूर्णम् ॥ Proofread by Pallasena Narayanaswami ppnswami at gmail.com
% Text title            : devIshatakam
% File name             : devIshatakam.itx
% itxtitle              : devIshatakam (AnandavardhanAchAryavirachitam)
% engtitle              : devIshatakam
% Category              : shataka, devii, devI
% Location              : doc_devii
% Sublocation           : devii
% Author                : AnandavardhanAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Pallasena Narayanaswami ppnswami at gmail.com
% Latest update         : December 27, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org