देवीस्तोत्रम्
(शिखरिणी वृत्तम)
श्री पराविद्यारूपां निगमवनशोभां स्मरहरां
परब्रह्माकारां निजकरुणदृष्ट्याऽवनकराम् ।
कृपापाङगां शान्तां दिविजनगणसंसेव्यचरणां
चिदानन्दां देवीं मुनिजननुतां नौमि सततम् ॥ १॥
रमोमावाणीति त्रिविधमपि रूपं तव शुभे
परब्रह्माकारं प्रकटयति सच्चिसुखपदैः ।
शिवे! स्मारं स्मारं तव विमलरूपं निजसुखं
नये कालं मातः! श्रुतिमथिततत्त्वार्थकलितः ॥ २॥
न रूपं नो लिङ्गं श्रुतिषु गदितं ब्रह्मण इति
परं स्वार्थाय त्वां मम जननि! साम्बोध्य कलये ।
भवे! पुत्रस्नेहादवसिहि ममाशेयमखिला
यथा मातृस्नेहो विदित इति नो ब्रह्म च तथा ॥ ३॥
त्रयाणां लिङगानां श्रुतिषु तव नामानि विमले!
परं मातृस्नेहादचिनवमिद वै स्वहितद्दमी ।
यथा माता स्निह्येत्तदपि मयि ते प्रीतिरधिका
न माता ब्रह्मैक्यं किल वितनुते त्वं न च तथा ॥ ४॥
अपि ब्रह्मकारादपि च निजशक्तेर्विभवतः
न मातस्त्वच्छ्रेष्ठं किमपि किल जाने स्फुटमिदम् ।
यया शक्त्या कोऽपि प्रभवति च सा त्वं भवहरे
त्वमेवैकं ब्रह्मस्वयमभिहिन्तं भेदरहितम् ॥ ५॥
सदेकं ते रूपं बहुविधतया वेदकथितं
स्वभक्त्या सेवन्ते सकलजनसौख्यं वितनुषे ।
त्वमेका विश्वादौ त्वमिह सकलान्तर्बहिरपि
त्मेवैका चान्ते सकलमुपसंहृत्य रमसे ॥ ६॥
त्वमिन्द्रस्त्वं ब्रह्मा रविरपि च चन्द्रो हरिहरौ
नरस्त्वं नारी त्वं सकलदिविजा देव्य इति यः ।
धृतिः प्रज्ञा मेधा मतिरपि गतिस्त्वं श्रुतिनुते!
त्वमेवं यद्भूतं भवदिति भविष्यत्तदपि च ॥ ७॥
यथाब्धौ फेनः स्यात्त्वयि जगदिदं यज्जडमिति
तरङगं कल्लोलस्त्वयि जननि! चेशोऽपर इमौ ।
यथाब्धिः स्यादेकस्त्रिभिरपि च रूपैर्भवनुदे!
त्वमेका चिन्मात्रा सुखजलधिरेभिस्त्रिभिरपि ॥ ८॥
देवीस्तोत्रमिदं पुण्यं पवित्रं भूवि पावनम् ।
पावयत्यखिलाञजीवान् गङ्गेव किल सर्वदा ॥ ९॥
इति श्रीसमर्थरामदासानुगृहीतरामपदपकञजभृङगायमान-
श्रीमत्परमहंसपरिव्राजकाचार्य भगवता श्री श्रीधरस्वामिना
विरचितं श्रीदेवीस्तोत्रं सम्पूर्णम् ॥