देवैः कृता देवीस्तुतिः

देवैः कृता देवीस्तुतिः

(देवीभागवततः) व्यास उवाच - अथ प्रमुदिताः सर्वे देवा इन्द्रपुरोगमाः । महिषं निहतं दृष्ट्वा तुष्टुवुर्जगदम्बिकाम् ॥ १॥ देवा ऊचुः - ब्रह्मा सृजत्यवति विष्णुरिदं महेशः शक्त्या तवैव हरते ननु चान्तकाले ॥ ईशा न तेऽपि च भवन्ति तया विहीना- स्तस्मात्त्वमेव जगतः स्थितिनाशकर्त्री ॥ २॥ कीर्तिर्मतिः स्मृतिगती करुणा दया त्वं श्रद्धा धृतिश्च वसुधा कमलाजपा च । पुष्टिः कलाथ विजया गिरिजा जया त्वं तुष्टिः प्रमा त्वमसि बुद्धिरुमा रमा च ॥ ३॥ विद्या क्षमा जगति कान्तिरपीह मेधा सर्वं त्वमेव विदिता भुवनत्रयेऽस्मिन् । आभिर्विना तव तु शक्तिभिराशु कर्तुं को वा क्षमः सकललोकनिवासभूमे ॥ ४॥ त्वं धारणा ननु न चेदसि कूर्मनागौ धर्तुं क्षमौ कथमिलामपि तौ भवेताम् । पृथ्वी न चेत्त्वमसि वा गगने कथं स्था- स्यत्येतदम्ब निखिलं बहुभारयुक्तम् ॥ ५॥ ये वा स्तुवन्ति मनुजा अमरान्विमूढा मायागुणैस्तव चतुर्मुखविष्णुरुद्रान् । शुभ्रांशुवह्नियमवायुगणेशमुख्यान् किं त्वामृते जननि ते प्रभवन्ति कार्ये ॥ ६॥ ये जुह्वति प्रविततेऽल्पधियोऽम्ब यज्ञे वह्नौ सुरान्समधिकृत्य हविः समृद्धम् । स्वाहा न चेत्त्वमसि ते कथमापुरद्धा त्वामेव किं न हि यजन्ति ततो हि मूढाः ॥ ७॥ भोगप्रदासि भवतीह चराचराणां स्वांशैर्ददासि खलु जीवनमेव नित्यम् । स्वीयान्सुराञ्जननि पोषयसीह यद्व- त्तद्वत्परानपि च पालयसीति हेतोः ॥ ८॥ मातः स्वयंविरचितान्विपिने विनोदा- द्वन्ध्यान्पलाशरहितांश्च कटूंश्च वृक्षान् । नोच्छेदयन्ति पुरुषा निपुणाः कथञ्चि- त्तस्मात्त्वमप्यतितरां परिपासि दैत्यान् ॥ ९॥ यत्त्वं तु हंसि रणमूर्ध्नि शरैरराती- न्देवाङ्गनासुरतकेलिमतीन्विदित्वा । देहान्तरेऽपि करुणारसमाददाना तत्ते चरित्रमिदमीप्सितपूरणाय ॥ १०॥ चित्रं त्वमी यदसुभी रहिता न सन्ति त्वच्चिन्तितेन दनुजाः प्रथितप्रभावाः । येषां कृते जननि देहनिबन्धनं ते क्रीडारसस्तव न चान्यतरोऽत्र हेतुः ॥ ११॥ प्राप्ते कलावहह दुष्टतरे च काले न त्वां भजन्ति मनुजा ननु वञ्चितास्ते । धूर्तैः पुराणचतुरैर्हरिशङ्कराणां सेवापराश्च विहितास्तव निर्मितानाम् ॥ १२॥ ज्ञात्वा सुरांस्तव वशानसुरार्दितांश्च ये वै भजन्ति भुवि भावयुता विभग्नान् । धृत्वा करे सुविमलं खलु दीपकं ते कूपे पतन्ति मनुजा विजलेऽतिघोरे ॥ १३॥ विद्या त्वमेव सुखदासुखदाप्यविद्या मातस्त्वमेव जननार्तिहरा नराणाम् । मोक्षार्थिभिस्तु कलिता किल मन्दधीभि- र्नाराधिता जननि भोगपरैस्तथाज्ञैः ॥ १४॥ ब्रह्मा हरश्च हरिरप्यनिशं शरण्यं पादाम्बुजं तव भजन्ति सुरास्तथान्ये । तद्वै न येऽल्पमतयो मनसा भजन्ति भ्रान्ताः पतन्ति सततं भवसागरे ते ॥ १५॥ चण्डि त्वदङ्घ्रिजलजोत्थरजःप्रसादै- र्ब्रह्मा करोति सकलं भुवनं भवादौ । शौरिश्च पाति खलु संहरते हरस्तु त्वां सेवते न मनुजस्त्विह दुर्भगोऽसौ ॥ १६॥ वाग्देवता त्वमसि देवि सुरासुराणां वक्तुं न तेऽमरवराः प्रभवन्ति शक्ताः । त्वं चेन्मुखे वससि नैव यदैव तेषां यस्माद्भवन्ति मनुजा न हि तद्विहीनाः ॥ १७॥ शप्तो हरिस्तु भृगुणा कुपितेन कामं मीनो बभूव कमठः खलु सूकरस्तु । पश्चान्नृसिंह इति यश्छलकृद्धरायां तान्सेवतां जननि मृत्युभयं न किं स्यात् ॥ १८॥ शम्भोः पपात भुवि लिङ्गमिदं प्रसिद्धं शापेन तेन च भृगोर्विपिने गतस्य । तं ये नरा भुवि भजन्ति कपालिनं तु तेषां सुखं कथमिहापि परत्र मातः ॥ १९॥ योऽभूद्गजाननगणाधिपतिर्महेशा- त्तं ये भजन्ति मनुजा वितथप्रपन्नाः । जानन्ति ते न सकलार्थफलप्रदात्रीं त्वां देवि विश्वजननीं सुखसेवनीयाम् ॥ २०॥ चित्रं त्वयारिजनतापि दयार्द्रभावा- द्धत्वा रणे शितशरैर्गमिता द्युलोकम् । नोचेत्स्वकर्मनिचिते निरये नितान्तं दुःखातिदुःखगतिमापदमापतेत्सा ॥ २१॥ ब्रह्मा हरश्च हरिरप्युत गर्वभावा- ज्जानन्ति तेऽपि विबुधा न तव प्रभावम् । केऽन्ये भवन्ति मनुजा विदितुं समर्थाः सम्मोहितास्तव गुणैरमितप्रभावैः ॥ २२॥ क्लिश्यन्ति तेऽपि मुनयस्तव दुर्विभाव्यं पादाम्बुजं न हि भजन्ति विमूढचित्ताः । सूर्याग्निसेवनपराः परमार्थतत्त्वं ज्ञातं न तैः श्रुतिशतैरपि वेदसारम् ॥ २३॥ मन्ये गुणास्तव भुवि प्रथितप्रभावाः कुर्वन्ति ये हि विमुखान्ननु भक्तिभावात् । लोकान्स्वबुद्धिरचितैर्विविधागमैश्च विष्ण्वीशभास्करगणेशपरान्विधाय ॥ २४॥ कुर्वन्ति ये तव पदाद्विमुखान्नराग्र्या- न्स्वोक्तागमैर्हरिहरार्चनभक्तियोगैः । तेषां न कुप्यसि दयां कुरुषेऽम्बिके त्वं तान्मोहमन्त्रनिपुणान्प्रथयस्यलं च ॥ २५॥ तुर्ये युगे भवति चातिबलं गुणस्य तुर्यस्य तेन मथितान्यसदागमानि । त्वां गोपयन्ति निपुणाः कवयः कलौ वै त्वत्कल्पितान्सुरगणानपि संस्तुवन्ति ॥ २६॥ ध्यायन्तिमुक्तिफलदां भुवियोगसिद्धां विद्यां पराञ्च मुनयोऽतिविशुद्धसत्त्वाः । ते नाप्नुवन्ति जननीजठरे तु दुःखं धन्यास्त एव मनुजास्त्वयि ये विलीनाः ॥ २७॥ चिच्छक्तिरस्ति परमात्मनि येन सोऽपि व्यक्तो जगत्सु विदितो भवकृत्यकर्ता । कोऽन्यस्त्वया विरहितः प्रभवत्यमुष्मिन् कर्तुं विहर्तुमपि सञ्चलितुं स्वशक्त्या ॥ २८॥ तत्त्वानि चिद्विरहितानि जगद्विधातुं किं वा क्षमाणि जगदम्ब यतो जडानि । किं चेन्द्रियाणि गुणकर्मयुतानि सन्ति देवि त्वया विरहितानि फलं प्रदातुम् ॥ २९॥ देवा मखेष्वपि हुतं मुनिभिः स्वभागं गृह्णीयुरम्ब विधिवत्प्रतिपादितं किम् । स्वाहा न चेत्त्वमसि तत्र निमित्तभूता तस्मात्त्वमेव ननु पालयसीव विश्वम् ॥ ३०॥ सर्वं त्वयेदमखिलं विहितं भवादौ त्वं पासि वै हरिहरप्रमुखान्दिगीशान् । कालेऽत्सि विश्वमपि ते चरितं भवाद्यं जानन्ति नैव मनुजाः क्व नु मन्दभाग्याः ॥ ३१॥ हत्वासुरं महिषरूपधरं महोग्रं मातस्त्वया सुरगणः किल रक्षितोऽयम् । कां ते स्तुतिं जननि मन्दधियो विदामो वेदा गतिं तव यथार्थतया न जग्मुः ॥ ३२॥ कार्यं कृतं जगति नो यदसौ दुरात्मा वैरी हतो भुवनकण्टकदुर्विभाव्यः । कीर्तिः कृता ननु जगत्सु कृपा विधेया- प्यस्मांश्च पाहि जननि प्रथितप्रभावे ॥ ३३॥ इति देवीभागवते पञ्चमस्कन्धे एकोनविंशाध्यायान्तर्गता देवैः कृता देवीस्तुतिः समाप्ता । Encoded by Vishwas Bhide Proofread by Vishwas Bhide, PSA Easwaran
% Text title            : devaiHkRRitAdevIstutiH 1
% File name             : devaiHkRRitAdevIstutiH.itx
% itxtitle              : devIstutiH devaiH kRitA 1 (devIbhAgavatAntargatA brahmA sRijatyavati viShNuridaM maheshaH)
% engtitle              : devaiHkRRitAdevIstutiH 1
% Category              : devii
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishwas Bhide
% Proofread by          : Vishwas Bhide, PSA Easwaran
% Indexextra            : (Devi Bhagavatam)
% Acknowledge-Permission: http://satsangdhara.net
% Latest update         : April 30, 2021
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org