देवैः कृतं शक्तिस्तवनम्
(देवीभागवततः)
देवा ऊचुः -
ऊर्णनाभाद्यथा तन्तुर्विस्फुलिङ्गा विभावसोः ।
तथा जगद्यदेतस्या निर्गतं तां नता वयम् ॥ १०॥
यन्मायाशक्तिसङ्कॢप्तं जगत्सर्वं चराचरम् ।
तां चितं भुवनाधीशां स्मरामः करुणार्णवाम् ॥ ११॥
यदज्ञानाद्भवोत्पत्तिर्यज्ज्ञानाद्भवनाशनम् ।
संविद्रूपां च तां देवीं स्मरामः सा प्रचोदयात् ॥ १२॥
महालक्ष्यै च विद्महे सर्वशक्त्यै च धीमहि ।
तन्नो देवी प्रचोदयात् ॥ १३॥
मातर्नताः स्म भुवनार्तिहरे प्रसीद
शन्तो विधेहि कुरु कार्यमिदं दयार्द्रे ।
भारं हरस्व विनिहत्य सुरारिवर्गं
मह्या महेश्वरि सतां कुरु शं भवानि ॥ १४॥
यद्यम्बुजाक्षि दयसे न सुरान्कदाचित्
किं ते क्षमा रणमुखेऽसिशरैः प्रहर्तुम् ।
एतत्त्वयैव गदितं ननु यक्षरूपं
धृत्वा तृणं दह हुताश पदाभिलाषैः ॥ १५॥
कंसः कुजोऽथ यवनेन्द्रसुतश्च केशी
बार्हद्रथो बकबकीखरशाल्वमुख्याः ।
येऽन्ये तथा नृपतयो भुवि सन्ति तांस्त्वं
हत्वा हरस्व जगतो भरमाशु मातः ॥ १६॥
ये विष्णुना न निहताः किल शङ्करेण
ये वा विगृह्य जलजाक्षि पुरन्दरेण ।
ते ते मुखं सुखकरं सुसमीक्षमाणाः
सङ्ख्ये शरैर्विनिहता निजलीलया ते ॥ १७॥
शक्तिं विना हरिहरप्रमुखाः सुराश्च
नैवेश्वरा विचलितुं तव देवदेवि ।
किं धारणाविरहितः प्रभुरप्यनन्तो
धर्तुं धराञ्च रजनीशकलावतंसे ॥ १८॥
इन्द्र उवाच -
वाचा विना विधिरलं भवतीह विश्वं
कर्तुं हरिः किमु रमारहितोऽथ पातुम् ।
संहर्तुमीश उमयोज्झित ईश्वरः किं
ते ताभिरेव सहिताः प्रभवः प्रजेशाः ॥ १९॥
विष्णुरुवाच -
कर्तुं प्रभुर्न द्रुहिणो न कदाचनाहं
नापीश्वरस्तव कलारहितस्त्रिलोक्याः ।
कर्तुं प्रभुत्वमनघेऽत्र तथा विहर्तुं
त्वं वै समस्तविभवेश्वरि भासि नूनम् ॥ २०॥
इति देवीभागवते चतुर्थस्कन्धे एकोनविंशाध्यायान्तर्गतं
देवैः कृतं शक्तिस्तवनं समाप्तम् ।
Encoded by Vishwas Bhide
Proofread by Vishwas Bhide, PSA Easwaran