श्रीधूमावत्युच्चाटन मन्त्रः
ध्यानम् -
काकारूढातिकृष्णाभा भिन्नदन्ता विरागिणी ।
मुक्तकेशी सुधूम्राक्षी क्षुत्तृषार्ता भयातुरा ॥
चञ्चला चाति कामार्ता क्लिष्टा पुष्टालसाङ्गिका ।
मलिना श्रमनी रक्ता व्यक्तगर्भाविरोधिनी ।
धृतसर्पाग्रहस्ता च ध्येया धूमावतीपरा ॥
मनुः--
ॐ धूं धूमावति देवदत्तो धावतीति स्वाहा ।
ऋषिः क्षपणकः गायत्री छन्दः धूमावती देवता धूं
बीजं स्वाहाशक्तिः समुच्चाटे विनियोगः-
लक्षं जपेत्महेशानि जगदुच्चाटनं चरेत् ।
इति श्रीधूमावत्युच्चाटन मन्त्रः ।
Encoded and proofread by Ravi S. Ramphal rramphal at gmail.com