धनदाकवचम्

धनदाकवचम्

देव्युवाच धनदा या महाविद्या कथिता न प्रकाशिता । इदानीं श्रोतुमिच्छामि कवचं पूर्वसूचितम् ॥ शिव उवाच श‍ृणु देवि प्रवक्ष्यामि कवचं मंत्रवग्रहम् । सारात्सारतरं देवि कवचं मन्मुखोदितम् ॥ धनदा कवचस्यास्य कुबेर ऋषिरीरितः । पंक्तिश्छन्दो देवता च धनदा सिद्धिदा सदा ॥ धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः । धं बीजं मे शिरः पातु ह्रीं बीजं मे ललाटकम् ॥ श्री बीजं मे मुख पातु रकारं हृदि मेऽवतु । तिकारं पातु जठरं प्रिकारं पृष्ठतोऽवतु । येकारं जंघयोर्युग्मे स्वाकारं पादयोर्युगे । शीर्षादिपादपर्यन्तं हाकारं सर्वतोऽवतु ॥ इत्येतत्कथितं कान्ते कवचं सर्वसिद्धिदम् । गुरुमभ्यर्च्य विधिवत् कवचं प्रपठेद्यदि ॥ शतवर्षं सहस्राणां सहस्राणां पूजायाः फलमाप्नुयात् । गुरुपूजां विना देवि नहि सिद्धिः प्रजायते ॥ गुरुपूजात्परो भूत्वा कवचं प्रपठेत्ततः । सर्वसिद्धियुतो भूत्वा विचरेद् भैरवो यथा ॥ प्रातःकाले पठेद्यस्तु मंत्रजापपुरः सरम् । सोऽभीष्टफलमाप्नोति सत्यं सत्यं न संशयः ॥ पूजाकाले पठेद्यस्तु देवीं ध्यात्वा हृदम्बुजे । षण्मासाभ्यन्तरे सिद्धिर्नात्र कार्या विचारणा । सायंकाले पठेद्यस्तु स शिवो नात्र संशयः । भूर्जे विलिख्त गुटिकां स्वर्णस्थां धारयेद्यदि ॥ पुरुषो दक्षिणे बाहौ योषिद्वामभुजे तथा । दक्षिणे बाहौ योषिद्वामभुजे तथा । सर्वसिद्धियुती भूत्वा धनवान् पुत्रवान् भवेत् ॥ इदं कवचमज्ञात्वा यो जपेद्धनदां शुभे । शस्त्रघातमवाप्नोति सोऽचिरान्मृत्युमाप्नुयात् ॥ कवचेनावृतो नित्यं हि यत्रैव गच्छति । तत्रैव स महादेवि सम्पूज्यो नात्र संशयः ॥ ॥ इति धनदा कवचं सम्पूर्णम् ॥ It is mentioned in the phalashrutiH that kavacham should be recited before doing any serious mantra or nAma japam to avoid afflictions and get full benefits.
% Text title            : dhanadA kavacham
% File name             : dhanadaakavach.itx
% itxtitle              : dhanadAkavacham
% engtitle              : dhanadA kavacham
% Category              : kavacha, devii, devI
% Location              : doc_devii
% Sublocation           : devii
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sridhar - Seshagiri 
% Latest update         : December 29, 2001, August 3, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org