श्रीदुर्गाकवचम् ४
श्री शिव उवाच -
शृणु देवि ! प्रवक्ष्यामि अप्रकाश्यं महीतले ।
श्रुत्वा पठित्वा कवचं सर्वसिद्धिमवाप्नुयात् ॥ १॥
अथ दुर्गाकवचम् ।
पार्वती मस्तकं पातु कपालं जगदम्बिका ।
कपालञ्चापि गण्डञ्च दुर्गा पातु महेश्वरि ॥ २॥
विश्वेश्वरी सदा पातु नेत्रञ्च शिवसुन्दरी
कर्णौ नारायणी पातु मुखं नील-सरस्वती ॥ ३॥
कण्ठं मे विजया पातु वक्षोमूलं शिव प्रिया ।
नाभिदेशं जगद्धात्री जगदानन्द-वल्लभा ॥ ४॥
हृदयं चण्डिका पातु बाहू परम-देवता ।
केशांश्च पञ्चमी विद्या सभायां पातु भैरवी ॥ ५॥
नित्यानन्दा यशः पातु लिङ्गं लिङ्गेश्वरी सदा ।
भवानी पातु मे पुत्रं पत्नीं मे पातु दक्षजा ॥ ६॥
कामाख्या देह-कमलं पातु नित्यं नभोगतम् ।
महाकुण्डलिनी नित्यं पातु मे जठरं शिवा ॥ ७॥
वह्निजाया सदा यज्ञं पातु कर्म स्वधा पुनः ।
अरण्ये विजने पातु दुर्गा देवी रणे वने ।
जले पातु जगन्माता देवी त्रिभुवनेश्वरी ॥ ८॥
इत्येवं कवचं देवि दुर्ज्ञेयं राजमोहनम् ।
जपेन्मत्रं क्षितितले वश्यं याति महीपतिः ॥ ९॥
पूजया वरया भक्त्या क्रियया च विना शिवे ! ।
केवलं जपमात्रेण सिद्ध्यत्येव न संशयः ॥ १०॥
या पृच्छा ते निगदिता कथिता वरवर्णिनि ! ।
इदानीं देवदेवेशि ! किं भूयः श्रोतुमिच्छसि ॥ ११॥
इति मुण्डमालातन्त्रे पार्वतीश्वर-संवादे
षष्ठं पटलान्तर्गतं द्वितीयं श्रीदुर्गाकवचं सम्पूर्णम् ॥ ६॥
श्लोकानि २०२-२१२
Proofread by Aruna Narayanan