दुर्गाप्रसादाष्टकम्
वन्दे निर्बाधकरूणामरूणां शरणावनीम् ।
कामपूर्णजकाराद्यश्रीपीठान्तर्निवासिनीम् ॥ १॥
प्रसिद्धां परमेशानीं नानातनुषु जाग्रतीम् ।
अद्वयानन्दसन्दोहमालिनीं श्रेयसे श्रये ॥ २॥
जाग्रत्स्वप्नसुषुप्त्यादौ प्रतिव्यक्ति विलक्षणाम् ।
सेवे सैरिभसम्मर्दरक्षणेषु कृतक्षणाम् ॥ ३॥
तत्तत्कालसमुद्भूतरामकृष्णादिसेविताम् ।
एकधा दशधा क्वापि बहुधा शक्तिमाश्रये ॥ ४॥
स्तवीमि परमेशानीं महेश्वरकुटुम्बिनीम् ।
सुदक्षिणामन्नपूर्णां लम्बोदरपयस्विनीम् ॥ ५॥
मेधा-साम्राज्यदीक्षादिवीक्षारोहस्वरूपिकाम् ।
तामालम्बे शिवालम्बां प्रसादरूपिकाम् ॥ ६॥
अवामा वामभागेषु दक्षिणेष्वपि दक्षिणा ।
अद्वयापि द्वयाकारा हृदयाम्भोजगावतात् ॥ ७॥
मन्त्र भावनया दीप्तामवर्णां वर्णरूपिणीम् ।
परां कन्दलिकां ध्यायन् प्रसादमधिगच्छति ॥ ८॥
इति श्रीदुर्गाप्रसादद्विवेदीविरचितं दुर्गाप्रसादाष्टकं सम्पूर्णम् ।
Encoded by Kamini Viswanathan
Proofread by Kamini Viswanathan, Lalitha Mallikarjunan