दुर्गाद्वात्रिंशन्नामावलिः
(देवाः ऊचू ।
अथाऽपि त्वां सुपृच्छामो जगद्रक्षणहेतवे ।
विपन्नं त्वं कथं शीघ्रं प्रसन्ना रक्षसीश्वरी ॥
एतन्नो ब्रूहि देवेशि रहस्यमपि सर्वथा ।
प्रार्थितैवं सुरगणैः प्राह दुर्गा दयाऽन्विता ॥
देवाः शृणुध्वमेतत्तु गोप्यमत्यन्तदुर्लभम् ।
द्वात्रिंशन्नाममाला मे सर्वाऽपत्प्रविनाशनी ॥
नाऽस्ति तत्सदृशी काचित्स्तुतिस्त्रैलोक्यमण्डले ।
रहस्यरूपा सर्वत्र शृणुध्वं तां ब्रवीमि वः ॥)
दुर्गा दुर्गार्तिशमनी दुर्गाऽऽपद्विनिवारिणी ।
दुर्गमच्छेदिनी दुर्गसाधिनी दुर्गनाशिनी ॥ १॥
दुर्गतोद्धारिणी दुर्गनिहन्त्री दुर्गमापहा ।
दुर्गमज्ञानदा दुर्गदैत्यलोकदवानला ॥ २॥
दुर्गमादुर्गमालोका दुर्गमाऽऽत्मस्वरूपिणी ।
दुर्गमार्गप्रदा दुर्गमविद्या दुर्गमाश्रिता ॥ ३॥
दुर्गमज्ञानसंस्थाना दुर्गमध्यानभासिनी ।
दुर्गमोहा दुर्गमगा दुर्गमार्थस्वरूपिणी ॥ ४॥
दुर्गमासुरसंहन्त्री दुर्गमायुधधारिणी ।
दुर्गमाङ्गी दुर्गमता दुर्गम्या दुर्गमेश्वरी ॥ ५॥
दुर्गभीमा दुर्गभामा दुर्गभा दुर्गदारिणी ।
नामावलिमिमां यस्तु दुर्गाया सुधी मानवः ॥ ६॥
(फलश्रुतिः ।)
पठेत् सर्वभयान्मुक्तो भविष्यति न संशयः ।
शत्रुभिः पीड्यमानो वा दुर्गबन्धगतोऽपि वा ॥ ७॥
द्वात्रिंशन्नामपाठेन मुच्यते नात्र संशयः ।
राज्ञा वधाय चाऽऽज्ञ्यप्तः क्रुद्धेन दण्डनाय च ॥ ८॥
युद्धे शत्रुभिराक्रान्तो व्याघ्राद्यैर्वा तथा वने ।
मुच्यते सर्वभीतिभ्यः पठन्नष्टोत्तरं शतम् ॥ ९॥
आपत्सु नैतत्सदृशमन्यदस्ति भयापहम् ।
एतत् तु पठतां देवाः न किञ्चिद्धीयते क्वचित् ॥ १०॥
नैतद्देयमभक्ताय नास्तिकाय शठाय च ।
देयं भक्ताय शान्ताय गुरुदेवरताय च ॥ ११॥
प्राप्तो महाऽऽपदं यस्तु पठेन्नामावलीमिमाम्।
सहस्रवारमयुतवारं वा लक्षमेव वा ॥ १२॥
ब्राह्मणैर्वा स्वयं वाऽपि मुच्यते सकलापदः ।
संसिद्धेऽग्नौ हुनेदेभिर्नामभिर्लक्षसङ्ख्यया ॥ १३॥
तिलैः शुक्लैस्त्रिमध्वक्तैर्मुच्यते चाऽऽपदां गणैः ।
अयुतत्रयमेतस्य पुरश्चरणमुच्यते ॥ १४॥
इति श्रीत्रिपुरारहसे माहात्म्यखण्डे षट्चत्वारिंशोऽध्यायान्तर्गता
दुर्गाद्वात्रिंशन्नामावलिः समाप्ता ।
Proofread by Ravin Bhalekar ravibhalkar@hotmail.com