गङ्गाष्टकम् ९
श्रीगणेशाय नमः ।
चलद्विलोलवीचिविस्खलद्विवृत्तमीनमु-
ल्लसत्सहस्रपत्रविस्फुरत्परागपाटलम् ।
हिमाचलस्खलज्जलप्रवाहपाविताखिल-
प्रपञ्चमिन्दुचूडमौलिमन्दिरं महोऽवतात् ॥ १॥
रसालशालतालसत्तमालजालमालस-
द्विशालभालभस्मभृत्प्रवाहभास्वरं महः ।
सरोजगन्धसम्भ्रमन्मिलिन्दपुञ्जमञ्जुलै-
गुञ्जमानजह्नुन्दिनीतटं भजामहे ॥ २॥
चलत्तरङ्गमालमुच्छलज्झषोर्णजालमुज्वल-
त्प्रभाविशालमालमञ्बुवीरुधां गृहम् ।
परिज्वलद्भवानलप्रभावलोडिताखिल-
प्रपञ्चसिञ्चनामृतं पुनातु जह्नुजापयः ॥ ३॥
करालतिष्यकालकालसर्पसर्पदुल्लसत्
प्रभाविषानलावसेकसत्सुधारसैः (समैः) ।
कुरु त्वमीश्वरप्रियाङ्गने मदङ्गसङ्गता-
खिलाघसङ्गभङ्गमुल्लसत्तरङ्गरिङ्गितैः ॥ ४॥
निमज्जदागलालकालिजालशालिसम्यगु-
ल्लसत्सुरौघसुन्दरीमुखारविन्दसुन्दरम् ।
मिलत्पुरार्भकस्फुरत्कराभिघातविद्रव-
त्रिराकुलोरुमीनमम्बु भाति शम्भुभूषणम् ॥ ५॥
उदञ्चदुद्धताखिलच्छटामिलद्विभावसु-
प्रभाविडम्बितातिचञ्चदभ्रतारकोत्करम् ।
विलोलवीचिविस्खलत्समीरनीतसीकरं
पुरारिपत्तनस्थितं पुनातु पावनं पयः ॥ ६॥
सुराधिराजराजधर्मराजमुख्यनिर्जरा-
तिराजिपुण्यराशिरोशुसिद्धिदा कलौ (पुनः) ।
परामृतप्रदायिनी मुरारिपादचारिणी
पुरारिमौलिमालिनी सुरापगा विराजते ॥ ७॥
महीधरेन्द्रपन्नगेन्द्रकुन्दचन्दनद्रुम-
स्फुरत्करीन्द्रमण्डलामृतद्रवोपनायनम् ।
मिलन्निलिम्पसुन्दरीकपोलपत्रवल्लरी-
गलत्परागपिञ्जरीकृतं पयः पुनातु माम् ॥ ८॥
अनन्तभट्टसूरिसूनुढुण्ढिराजसत्कवि-
प्रकल्पितं विचित्रपद्यचातुरीविभूषितम् ।
सुरापगाष्टकं नरः पठत्रिदं स याति तत्
परं पदं प्रभूतभूमभागवैभवः (सदा)॥ ९॥
इति श्रीमन्महीपण्डितधुरश्चतुस्समुद्रराजमान्यधुलोपनामकानन्तात्मज-
ढुण्ढिराजभट्ट विरचितं श्रीगङ्गाष्टकं सम्पूर्णम् ।
Encoded and proofread by Anil Kumar Pandey anil.kumar17pandey at gmail.com