गङ्गाष्टकम्

गङ्गाष्टकम्

॥ श्रीगणेशाय नमः ॥ गङ्गानङ्गारिसङ्गा सरिदुपरि परिक्रीडमाना विमाना- दव्यादव्याजभाजः कलितकलितमोहारि मोहारिवारि ॥ यत्कूले कोलकोलाहलिनि हलिनिभे केतकस्वच्छकच्छ- च्छायानायासिकायानुपतनपवनः सेवते देवतेन्द्रान् ॥ १॥ मातर्मातङ्गसङ्गास्तिमिततिमितनूर्धारि विस्तारि वारि ताराकारानुकारा तरलतरलकैश्चामरैश्चामरीणाम् । सान्तः स्वान्तः कदान्तःशमितकलितमस्तोमदाहं मुदाहं दक्षाभिक्षामितार्तिस्तव भवदवसंहारिशङ्कारिहारि ॥ २॥ यन्नापन्नाससूरे सुरधुनि विधुनिस्यन्दनिस्पन्दधुर्ये देहं तेऽहंसगेहं वहति वहति सन्मानसं मानसङ्गात् । किं तेन स्तेनभावं भवभविकमिदं बिभ्रतादभ्रतापं व्यायत्तेनाप्तवातप्रसरसरणिनां मद्विधानां बुधानाम् ॥ ३॥ यैनोन्मीलन्मरालीविमलकुलमिलत्सारसी सारशीलं दुःशीलैदेवि ? देवैरकलितमकलि त्वद्वपुवार्विपुष्टैः । तेषां द्वेषाधिदोषाकलितकलितरा श‍ृङ्खला श‍ृङ्खलानाम् । छायामायानिकायादननुगुणगणाः संस्रवन्ति श्रवन्ति ॥ ४॥ वातव्याधूतनूतावलिगलितरजोराजिविभ्राजिताभ्रा भ्राम्यबृङ्गालिकेलीकलितकलकला नदनं दन्मुतीयम् । अम्भस्तम्बेरमालीमिलदमलरदारब्धविस्रब्धरोधो रोधः कर्मादिकर्मप्रसरसरभसं प्रश्रयेनाश्रयन्ते ॥ ५॥ सर्पत्कर्पूरपूरोज्ज्वलजलपटलप्राणिभिः प्राणितार्थेऽ त्यर्थ व्यर्थं कृतार्थ कृतमपि सुकृतैर्मन्यते जन्म तेषाम् । संसारासारकारासरणिपरिणतैर्बन्धभिर्बन्धमुक्तैः धीर्मुक्तैमुक्तिमूर्तिर्भगवति ! भवती यैरदृष्ट्यारदृष्ट्या ॥ ६॥ लोलत्कल्लोलकोलाहलवहलदलोत्तालवालाविलासा । बंहद्वृन्दारबन्दाकरणिकरकरासङ्गरिङ्गद्विहङ्गा । एकादोषाप्यशेषा विकरविकरिणारम्भसंरम्भवर्या कुर्याद्धर्या धुरीणां भविकमविकलं सप्रभावप्रभावः ॥ ७॥ रामारामाभिरामं चतुरगतुरगं । तुङ्गमातङ्गसङ्गं भ्राज्यं प्राज्यं न राज्यं भगवति भवति प्रेयसे श्रेयसे वा । सेवा ते वा क्क देवा सुरशिरसि गिरा नन्दते वन्दते चेत् सिद्धीनां सिद्धिसिन्धो न तवनतरवः सनिधानं निधानम् ॥ ८॥ गर्भावि वि भूयः परिमलपरिमालंवरोलम्बरोलै चालैः पुष्पजालैः पटुविटपितटी बिभ्रती शुभ्रतीरा । ध्वस्ताधिव्याधिवाचाविधुरविधुसुधामेदुरा मे दुरापः । पायानः पातु गौरी गुरुगिरिशिरसि स्वः श्रवन्ती श्रवन्ती ॥ ९॥ वरं त्वदीये पुलिने पुलिन्दा मन्दाकिनीक्षालितपापकन्दा । मन्दारमालामलकण्ठनाला न भूमिपाला न च लोकपालाः ॥ १०॥ इति श्री हनुमद्विरचितं गङ्गाष्टकं सम्पूर्णम् । Encoded and proofread by Shree Devi Kumar shreeshrii at gmail.com
% Text title            : Gangashtakam by Hanuman
% File name             : gangAShTakamhanumAn.itx
% itxtitle              : gaNgAShTakam (hanumAnavirachitam)
% engtitle              : gangAShTakam hanumAn
% Category              : devii, nadI, aShTaka, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shree Devi Kumar shreeshrii at gmail.com
% Proofread by          : Shree Devi Kumar shreeshrii at gmail.com
% Indexextra            : (Scan)
% Latest update         : November 3, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org