गङ्गामृतस्तोत्रम्
श्रीगणेशाय नमः ।
श्रीरामचन्द्रशर्मबालाजीविरचितं
गुञ्जन्ममिलिन्दपुञ्जविलसत्कुम्भद्वयाम्भोरुह
द्वन्द्वस्यन्दिमरन्दबिन्दुनिवहं भाले विशाले मुदा ।
शुक्त्यै वामलयान्तयेन्दुकलया बिभ्रद्भवानीभव
स्तन्वन् भव्यमयं भयं विकलयत्रव्यादभव्यात्स नः ॥ १॥
लोलत्कल्लोलमालाकुलबकुलकुलोल्लासिकूलानुकूलो
न्मीलन्मल्लीमतल्लीविहितविहृतयश्चञ्चरीका जयन्ति ।
स्वच्छायाच्छादिताङ्गानमरपुरमहोमत्तमातङ्गवारा ।
नारादारोहयन्तः किमुत शिवजलैगौरिगङ्गे ! स्तुतिस्ते ॥ २॥
आलोकालोकलोका विषयविषधरासारसंसारगर्त
प्रावर्तप्रोज्झिताशास्त्वदुणनुतिवशादम्ब! सालम्ब्यमीयुः ।
दृष्ट्वैतत्स्पष्टमङ्के दधदपि गिरिजां केवलं कामगञ्जां
मातर्गङ्गे ! वराङ्गे ! वहति पशुपतिस्त्वां परानन्दकन्दाम् ॥ ३॥
भर्गः स्वर्गापवर्गश्रयणचणगुणान्त्वां दधानो विरक्तः
कृत्तिक्ष्वेडाहितुण्डान्यवहदवहितः कामदाहे च देहे ।
गेहे माहेश्वरं हे सुरधुनि ! चरितं वीक्ष्य विष्णुं विलासैः
पैत्रे जैत्रे वसन्ती वशयति कमला म्लानमानेतिजाने ॥ ४॥
प्रातमर्तर्यदान्तर्भवति कतिपयं कालमालोलचेता
भूताधीशादिलेखावलिमिलितकले त्वज्जले जन्तुरेषः ।
कः शेषः को विशेषः सुरवरविभवे का सुधांशोश्च शोभा
रम्भासम्भोगभाजां मुहुरिति वदतां सेव्यतामेति कामम् ॥ ५॥
चित्रं यच्छम्भुशैलायितशिरसि समुद्धर्तुमन्धान् धरायां
धारां वारामपारां धरशिखरनिभामादधौ ब्रह्मलोकात् ।
तत्कालेऽकालकोलाहलबहलमिलन्मोहमालिन्यलीनैः
शालीनैदेवि ! दैवैरनुदितमुदितं ज्ञानमज्ञस्य सद्यः ॥ ६॥
ब्रह्माण्डस्तम्भदण्डः किमु यमनियमे कालदण्डः प्रचण्डः
किम्वा भूमन्थदण्डः किमु पतति दिवः स्वधुनीवारिदण्डः ।
किम्वाऽऽकाशः सुभाण्डः किमिह हिमगिरिः प्रौढपिण्डः किमित्थं
तरुत्प्रेक्ष्यमाणा दिवि भुवि च जनैर्जाह्नवी जन्यमव्यात् ॥ ७॥
कुप्यद्गौरीकटाक्षारुणकिरणगणैर्भाति या शोणशोभा
शम्भूत्क्षिप्तेभकृत्तिप्रतिफलिततलैर्याऽतुला श्यामला च ।
किञ्चोदञ्चच्छरच्चन्द्रितकरनिकराकीर्णमुक्ताच्छगुच्छ
च्छायासच्छायचारुः स्वयमियमपरा रातु वाणीस्त्रिवेणी ॥ ८॥
मातर्मातङ्गसङ्गोच्छलदमलजलस्नातनारीस्तनाग्र
स्रस्तश्रीखण्डसङ्गोद्धृतधरविहरदूरिपाटीरवृक्षे ।
वक्ष्ये किं बिन्दुभक्षे तव फलमखिले क्षेममत्राकुलेक्षोऽ
हीशोऽधीशोऽपि नेशो भवति हि गदितुं पारमम्भोमहिम्नः ॥ ९॥
पादायोदप्रधाराकृतिरमितचितिर्या पुराऽभून्मुरारेः
प्रादुर्भूता पुरारेरपि शिरसि जटाजूटकूटेऽस्ति सैव ।
पादाग्रादाशिखाग्रादपि हरिहरयोरेकरूपैकरूप्यं
जल्पन्ती जहुकन्या जगति विजयते जीवजीवातुरेषा ॥ १०॥
निर्यातां त्वां पदाग्रात् सुरधुनि ! परमां चित्कलां वीक्ष्य जातः
श्यामः शेते रमेशः परमधिजलधि प्राप्तुकामः पुनर्याम् ।
भगों जागर्ति लब्धा विधिरपि विदधे विश्वमाश्वासयन्ती
मायान्तीमत्र जाने जगति जनिजुषामैहिकामुष्मिकाय ॥ ११॥
अपर्णाऽऽकीर्णोमपि प्रबलफणिफूत्कारविकलोऽ
नलोदीर्णज्वालावलिमलिनहालाहलगलः ।
स्थितः शैलप्रस्थे सुरधुनि ! तवैवैष महिमा
यतः सोऽयं स्थाणुः फलति फलमानन्दमतुलम् ॥ १२॥
साधुसङ्गादिदं गङ्गामृतं येन मुखे धृतम् ।
तस्य गङ्गापदे सङ्गात् मनोऽनङ्गारिभृद् भवेत् ॥ १३॥
इति श्रीरजाप्यान्वयोत्पत्रधुरन्धरोपनामकत्रीमदात्मारामसूरिसूनुना
बालाजीत्यपरप्रसिद्धाभिधानेन रामचन्द्रशर्मणा काशान्थेन कृतं
गङ्गामृतस्तोत्रं सम्पूर्णम् ।
Encoded and proofread by Anil Kumar Pandey anil.kumar17pandey at gmail.com