गङ्गारात्रिका
जय मातर्गङ्गे जय जय मातर्गङ्गे ।
सच्चित्सुखस्वरूपिणि जय जय भवभङ्गे ॥ धुर्वपदम् ॥
भगवच्चरणे या सा शक्तिर्मोक्षप्रदा ।
त्वद्रूपेण निःसृता शुभमङ्गलभद्रा ॥ १॥
सन्दर्शनेन नाम्ना मज्जनतोऽपि तथा ।
ज्ञानं ददासि मातस्त्वेवं तव गाथा ॥ २॥
शङ्करशिरोविभूषिणि जाह्रवि भागीरथि ।
ब्रह्मस्वरूपं प्रापय याचे देहरथी ॥ ३॥
इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान्
श्रीधरस्वामीमहाराजविरचिता गङ्गारात्रिका सम्पूर्णा ।
वरदपुरं संवत्सरः - १९७२
Proofread by Manish Gavkar