गङ्गासाम्राज्यकवचम्
॥ श्रीगणेशाय नमः ॥
श्रीदेव्युवाच --
देवेश! परमेशान ! भक्तानुग्रहकारक ! ।
गङ्गायाः कवचं ब्रूहि यद्यहं तव वल्लभा ॥ १॥
श्रीशिव उवाच --
शृणु देवि ! प्रवक्ष्यामि गङ्गायाः कवचं शुभम् ।
यस्य स्मरणमात्रेण भवेत्साक्षान्महेश्वरः ॥ २॥
पुत्रप्रदमपुत्राणां दरिद्राणां धनप्रदम् ।
मोक्षप्रदं मुमुक्षूणां शृणु चैकमना प्रिये ! ॥ ३॥
ॐ ओङ्कारी ब्रह्मरूपा ब्रह्महत्यापहारिणी ।
तारिणी सर्वलोकानां दायिनी सर्वसम्पदाम् ॥ ४॥
सर्वसौख्यकरी सत्यं कवचं तद्वदामि ते ।
ॐ अस्य श्रीगङ्गासाम्राज्यकवचमन्त्रस्य
श्रीभगवान् महादेव ऋषिरनुष्टुप्छन्दः,
श्रीगङ्गापरमेश्वरी देवता,
ॐ ऐं बीजं हिलि हिलि मिलि मिलि शक्तिः,
गङ्गे मां पावय पावय स्वाहा इति कीलकम्,
धर्मार्थकाममोक्षार्थे जपे विनयोगः ।
ॐ शिरो मे प्रणवः पातु सर्वसिद्धिकरीश्वरी ॥ ५॥
ऐँ बीजं में शिखां पातु गङ्गा त्रैलोक्यसुन्दरी ।
ह्रिङ्कारी मस्तके मेऽव्याल्लिकारं मे ललाटके ॥ ६॥
पुनः पातु महामाया हिकारी परदेवता ॥ ७॥
मिकारी मुखमध्ये तु लिकारी श्रोत्रयोर्मम ।
कण्ठमध्ये सदा पातु मिकारी वाग्विलासिनी ॥ ८॥
लिकारी हृदयं रक्षेद्गङ्गे पापापहारिणी ॥
स्तनद्वन्द्वे सदा मेऽव्यान्माङ्कारी परमेश्वरी ॥ ९॥
पाकारी पार्श्वयोः पातु वकारं नाभिदेशके ।
यकारं मे कटिं पातु पाकारी लिङ्गदेशके ॥ १०॥
पुनः पाकारं मे पातु गुह्यदेशे निरन्तरम् ।
वकारं जङ्घयोः पातु पकारं मम जानुनी ॥ ११॥
स्वाकारं गुल्फयोः पातु हाकारं पादयोः सदा ।
सर्वाङ्गं मे सदा पातु गङ्गा सवार्थसिद्धिदा ॥ १२॥
इतीदं कवचं दिव्यं ब्रह्मविद्याकलेवरम् ।
पठनाद्ब्रह्मसायुज्यं प्राप्नुयान्नात्र संशयः ॥ १३॥
सप्तम्यां वा चतुर्दश्यां सङ्क्रान्तौ ग्रहणे तथा ।
यः पठेन्नित्यकृद् भक्त्या सर्वसिद्धीश्वरो भवेत् ॥ १४॥
इदं कवचमज्ञात्वा गङ्गां यो भजतेऽधमः ।
जन्मजन्म भवेन्मूर्खो दरिद्रो व्याधिसंयुतः ॥ १५॥
तस्मादवश्यमेतत्तु यः पठेन्नित्यमेव हि ।
सर्वसम्पद्युतो भूत्वा ब्रह्मसायुज्यमाप्नुयात् ॥ १६॥
इति श्रीशिवशिवानन्दनाथविरचितं श्रीगङ्गासाम्राज्यकवचम् ।
Encoded and proofread by Shree Devi Kumar shreeshrii at gmail.com