जयाविजयाविरचितं गङ्गास्तवनम्

जयाविजयाविरचितं गङ्गास्तवनम्

जया-विजया सख्यावूचतुः । नमः प्रसीदाम्ब महेशि मातर्गङ्गे त्रिलोकाखिलदुःखहन्त्रि । विष्णोः पदं तत्परमन्तु लब्ध्वा त्रैलोक्यमाप्लावसि साधितार्थम् ॥ १॥ त्वां स्तौमि पश्यामि परावरेशे नमामि कायावयवैरपि त्वाम् । अज्ञानमोहान्धतमोनिरस्तचित्तां तु मां बोधय यादृशी त्वम् ॥ २॥ त्वं ब्रह्मणा विष्णुना पूरुषेण शिवेन वै देववरेण भूयः । सिद्धैः परज्ञैरपि धीरवर्गैः स्तुता किमावां मनुवो भवादृशीम् ॥ ३॥ धन्याऽवनीयं खलु भूतधात्री लोकैः सर्वैः पूजितेयं बभूव । त्वं वै यस्यामवगाह्या नवोघैर्विभासि पुण्याधिकपुण्यवत्याम् ॥ ४॥ जानन्ति के त्वां ननु मूढबुद्धयो नराः स्त्रियो वा वन जन्तवो वा । पीतामृता दृष्टसहस्त्रसूर्या जानन्त्यनन्तामृतसारभूताम् ॥ ५॥ प्राणांस्त्यजन्तं त्वयि वा वसन्तं गायन्तमानन्दमयीञ्च वा त्वाम् । कः श्रद्धधीताहितदेहबन्धं विनात्मघातान्नरकाय योग्यान् ॥ ६॥ यः सर्वलोकामरयज्ञदेवः स्वयं शिवः श्रीमति चोत्तमाङ्गे । सर्वोत्तमां त्वां प्रदधाति गङ्गां सार्थं शिवत्वं ह्यधिमन्यमानः ॥ ७॥ सर्वस्य सर्वत्र तु नाधिकारः कस्यापि कुत्रापि च को हि आस्ते । त्वं खण्डितब्रह्मकटाहकोटिः सर्वत्र चाखण्डगतिः किलास्मे ॥ ८॥ ध्याये शिवे त्वां शशिशुल्कवर्णां चतुर्भुजां पद्मवराभयामृतैः । युक्ताञ्च शुक्ले मकरे वसन्तीं त्रिलोचनां देवनुतामलङ्कृताम् ॥ ९॥ नमः शिवायै शान्तयै गङ्गायै ते नमो नमः । नमो मकरवासिन्यै कौटिचन्द्ररुचे नमः ॥ १०॥ चतुर्भुजायै पद्मेन वरेणाप्यभयेन च पीयूषपूर्णकनकघटेन च विराजिनाम् । सर्वालङ्कारभूषाढ्यां त्रिनेत्रां दैवतैर्नुतां स्मितास्यां गौरवसनां स्थिरनूपुरशिञ्चिनीम् । ब्रह्मविष्णुशिवाराध्यां दधानायै तनुं नमः ॥ ११॥ नमः कल्मषहन्त्र्यै च लोकमात्रे नमो नमः । सर्वतीर्थभवायै च सुलभायै नमो नमः ॥ १२॥ ॥ इति बृहद्धर्मपुराणान्तर्गतं जया-विजयाकृतं गङ्गास्तवनं सम्पूर्णम् ॥ ॥ बृहद्धर्मपुराणम् । पूर्वखण्डः । गुणनिर्णय अध्यायः ५। ३६-४७॥ Proofread by Ruma Dewan
% Text title            : Gangastavanam by Jaya and Vijaya
% File name             : gangAstavanamjayAvijayAkRRitam.itx
% itxtitle              : gaNgAstavanam jayAvijayAkRitam (bRihaddharmapurANAntargatam)
% engtitle              : gangAstavanam jayAvijayAkRRitam
% Category              : devii, devI, nadI, bRihaddharmapurANam
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : Brihaddharmapuranam | pUrvakhaNDaH | guNanirNaya adhyAyaH 5| 36\-47||
% Indexextra            : (Scan)
% Latest update         : September 15, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org