गङ्गास्तोत्रम्
विप्रा ऊचुः-
स्तोत्रे शृणु यथाप्रोक्ते खण्डे प्रकृतिसंज्ञके ।
शिवागमे च गङ्गायाः महापापप्रणाशने ॥ १॥
श्रीनारायण उवाच-
शिवसङ्गीतसम्मुग्धश्रीकृष्णाङ्गसमुद्भवाम् ।
राधाङ्ग इव संयुक्तां तां गङ्गां प्रणमाम्यहम् ॥ २॥
यज्जन्म सृष्टेरादौ च गोलोके रासमण्डले ।
सत्रिधाने शङ्करस्य तां गङ्गां प्रणमाम्यहम् ॥ ३॥
गोपैर्गोम्पिभिराकीर्णे शुभे राधामहोत्सवे ।
कार्तिकीपूर्णिमाजातां तां गङ्गां प्रणमाम्यहम् ॥ ४॥
कोटियोजनविस्तीर्णां दैयैर्लक्षगुणा ततः ।
समावृता या गोलोकं तां गङ्गां प्रणमाम्यहम् ॥ ५॥
षष्टिलक्षयोजना या ततो दैध्ये चतुर्गुणा ।
समावृता या वैकुण्ठं तां गङ्गां प्रणमाम्यहम् ॥ ६॥
त्रिंशल्लक्षयोजना या दैध्यें पञ्चगुणा ततः ।
प्रावृता शिवलोकं या तां गङ्गां प्रणमाम्यहम् ॥ ७॥
लक्षयोजनविस्तीर्णा दैध्यें सप्तगुणा ततः ।
आवृता ध्रुवलोकं या तां गङ्गां प्रणमाम्यहम् ॥ ८॥
लक्षयोजनविस्तीर्णा दैध्यें दशगुणा ततः ।
आवृता चन्द्रलोकं या तां गङ्गां प्रणमाम्यहम् ॥ ९॥
षष्टिसहस्रयोजना या दैध्यें दशगुणा ततः ।
आवृता सूर्यलोकं या तां गङ्गां प्रणमाम्यहम् ॥ १०॥
लक्षयोजनविस्तीर्णा दैध्यें पञ्चगुणा ततः ।
आवृता सत्यलोकं या तां गङ्गां प्रणमाम्यहम् ॥ ११॥
दशलक्षयोजना या दैध्यें पञ्चगुणा ततः ।
आवृता तपोलोकं या तां गङ्गां प्रणमाम्यहम् ॥ १२॥
सहस्रयोजना या दैध्यें दशगुणा ततः ।
आवृता जनलोकं या तां गङ्गां प्रणमाम्यहम् ॥ १३॥
सहस्रयोजनायामा दैध्यें सप्तगुणा ततः ।
आवृता या च कैलासं तां गङ्गां प्रणमाम्यहम् ॥ १४॥
शतयोजनविस्तीर्णा दैध्यें दशगुणा ततः ।
मन्दाकिनी येन्द्रलोकं तां गङ्गां प्रणमाम्यहम् ॥ १५॥
पाताले या भोगवती विस्तीर्णा दशयोजना ।
ततो दशगुणा दीघीं तां गङ्गां प्रणमाम्यहम् ॥ १६॥
क्रोशैकमात्रविस्तीर्णा ततः क्षीणा च कुत्रचित् ।
क्षितौ याऽलकनान्दाख्या तां गङ्गां प्रणमाम्यहम् ॥ १७॥
सत्ये या क्षीरवर्णा च त्रेतायां क्षीरसत्रिभा ।
द्वापरे चन्दनाभा च तां गङ्गां प्रणमाम्यहम् ।
जलप्रभा कलौ या च नान्यत्र पृथिवीतले ॥ १८॥
स्वर्गे च नित्यं क्षीराभा तां गङ्गां प्रणमाम्यहम् ।
यस्या प्रभावमतुलं पुराणे च श्रुतौ श्रुतम् ॥ १९॥
या पुण्यदा पापहन्त्री तां गङ्गां प्रणमाम्यहम् ।
यत्तोयकणिकास्पर्श पापिनां च पितामह ।
ब्रह्महत्यादिकं पापं कोटिजन्मार्जितं दहेत् ॥ २०॥
इत्येवं कथितं ब्रह्मन् गङ्गापद्यैकविंशतिः ।
स्तोत्ररूपं च परमं या पुण्यं पुण्यबीजकम् ॥ २१॥
नित्यं यो हि पठेद्भक्त्या सम्पूज्य च सुरेश्वरीम् ।
सोऽश्वमेधफलं नित्यं लभते नात्र संशयः ॥ २२॥
अपुत्रो लभते पुत्रं भार्याहीनो लभेत्प्रियाम् ।
रोगात्प्रमुच्यते रोगी बन्धान्मुक्तो भवेद्धवम् ॥ २३॥
अस्पष्टकीर्तिः सुयशा मूखों भवति पण्डितः ।
यः पठेत्प्रातरुत्थाय नित्यं स्तोत्रमिदं शुभम् ॥ २४॥
शुभं भवेच्च दुःस्वप्नो गङ्गास्नानफलं लभेत् ।
इति श्रीनानापुराणसारोद्धारे गङ्गाभक्तिप्रकाशे ब्रह्मवैवोक्त
गङ्गास्तोत्रं सम्पूर्णम् ।
Encoded and proofread by Anil Kumar Pandey anil.kumar17pandey at gmail.com