गङ्गास्तोत्रम्
%५३
गङ्गे दर्शय ते रूपं मुक्तिदं मुनिचिन्तितम् ।
गायत्तारिणि ते दृष्ट्या च्यवेत्को निजरूपतः ॥ १॥
गङ्गे त्रेधाऽघहन्त्रीति ते कीर्ति र्दिक्षु विस्तृता ।
गेया योगिमुनिध्येया सदा त्वं गङ्ग आधिहे ॥ २॥
तिष्येंऽहस्तरणं मातर्वरिष्ठे बत नान्यतः ।
यो वैरिः कामसंज्ञो मे पाह्यतो रोषहेतुतः ॥ ३॥
ब्रूते कृत्स्न श्रुतं त्रात्री पेयोदाबात्मिकेति यत् ।
या तृष्णया मतिर्भ्रष्टाऽऽ भ्योद्भ्यो बालः पुनातु ताम् ॥ ४॥
द्योत उत्कृष्ट एवास्तु विष्णुजेऽपिहितान्तरे ।
जगन्मतिक्षालके भूष्णुस्सन्स्त्वां शान्तिदेर्थये ॥ ५॥
नास्मत्तारक एवान्यो लोके वाचो मृषा न मे ।
नान्तोऽनन्तेऽत्र मेऽघस्य कं ब्रूयां ज्ञानदेऽत्र तु ॥ ६॥
शत्रून्दमय मे देवि सकलानमृतप्रदे ।
तैर्हि दान्तो विमुक्तः स्यां गतैनाः साध्व्यसंशयः ॥ ७॥
रक्ष यद्यपि पापोऽहं च्छन्दोऽर्च्ये गवि जाह्नवि ।
पिता कः काऽपराम्बा मे तिष्ये तारः परश्च कः ॥ ८॥
मन्त्राद्याक्षरसहित
दत्तात्रेयो हरिः कृष्ण उन्मत्तानन्ददायकः ।
मुनिर्दिगम्बरो बालःपिशाचो ज्ञानसागरः ॥
गं गे द र्शय ते रूपं मु क्तिदं मु निचिन्तितम् ।
गा य त्ता रिणि ते दृष्ट्या च्य वेत्को नि जरूपतः ॥ १॥
गं गे त्रे धाऽघहन्त्रीति ते कीर्ति र्दि क्षु विस्तृता ।
गे या यो गिमुनिध्येया स दा त्वं गं ग आधिहे ॥ २॥
ति ष्येंऽ ह स्तरणं मात र्व रिष्ठे ब त नान्यतः ।
यो वै रिः कामसंज्ञो मे पा ह्यतो रो ष हेतुतः ॥ ३॥
ब्रू ते कृ त्स्नश्रुतं त्रात्री पे योदा बा त्मिकेति यत् ।
या तृ ष्ण या मतिर्भ्रष्टाऽऽ भ्यो द्भ्यो बा लः पुनातु ताम् ॥ ४॥
द्यो त उ त्कृष्ट एवास्तु वि ष्णुजेऽ पि हितान्तरे ।
ज ग न्म ति क्षालके भू ष्णु स्सन्स्त्वां शा न्तिदेर्थये ॥ ५॥
ना स्म त्ता रक एवान्यो लो के वा चो मृषा न मे ।
नां तोऽ न न्तेऽत्र मेऽघस्य कं ब्रूयां ज्ञा नदेऽत्र तु ॥ ६॥
श त्रू न्द मय मे देवि स कला- न मृतप्रदे ।
तै र्हि दा न्तो विमुक्तः स्यां ग तैनाः सा ध्व्यसंशयः ॥ ७॥
र क्ष य द्यपि पापोऽहं च्छ न्दोऽर्च्ये ग वि जाह्नवि ।
पि क्षा कः काऽपराम्बा मे ति ष्ये ता रः परश्च कः ॥ ८॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं गङ्गास्तोत्रं सम्पूर्णम् ।