॥ श्रीगङ्गास्तोत्र ॥

देवि सुरेश्वरि भगवति गङ्गे त्रिभुवनतारिणि तरल तरङ्गे । शङ्कर मौलिविहारिणि विमले मम मति रास्तां तव पद कमले ॥ १॥ भागीरथि सुखदायिनि मातः तव जलमहिमा निगमे ख्यातः । नाहं जाने तव महिमानं पाहि कृपामयि मामज्नानम् ॥ २॥ हरि पद पाद्य तरङ्गिणि गङ्गे हिमविधुमुक्ताधवलतरङ्गे । दूरीकुरु मम दुष्कृति भारं कुरु कृपया भव सागर पारम् ॥ ३॥ तव जलममलं येन निपीतं परमपदं खलु तेन गृहीतम् । मातर्गङ्गे त्वयि यो भक्तः किल तं द्रष्टुं न यमः शक्तः ॥ ४॥ पतितोद्धारिणि जाह्नवि गङ्गे खण्डित गिरिवरमण्डित भङ्गे । भीष्म जननि हे मुनिवरकन्ये पतितनिवारिणि त्रिभुवन धन्ये ॥ ५॥ कल्पलतामिव फलदाम् लोके प्रणमति यस्त्वां न पतति शोके । पारावारविहारिणि गङ्गे विमुखयुवति कृततरलापाङ्गे ॥ ६॥ तव चेन्मातः स्रोतः स्नातः पुनरपि जठरे सोपि न जातः । नरकनिवारिणि जाह्नवि गङ्गे कलुषविनाशिनि महिमोत्तुङ्गे ॥ ७॥ पुनरसदङ्गे पुण्यतरङ्गे जय जय जाह्नवि करुणापाङ्गे । इन्द्रमुकुटमणिराजितचरणे सुखदे शुभदे भृत्यशरण्ये ॥ ८॥ रोगं शोकं तापं पापं हर मे भगवति कुमति कलापम् । त्रिभुवनसारे वसुधाहारे त्वमसि गतिर्मम खलु संसारे ॥ ९॥ अलकानन्दे परमानन्दे कुरु करुणामयि कातरवन्द्ये । तव तट निकटे यस्य निवासः खलु वैकुण्ठे तस्य निवासः ॥ १०॥ वरमिह मीरे कमठो मीनः किं वा तीरे शरटः क्षीणः । अथवा श्वपचो मलिनो दीनः तव न हि दूरे नृपतिकुलीनः ॥ ११॥ भो भुवनेश्वरि पुण्ये धन्ये देवि द्रवमयि मुनिवरकन्ये । गङ्गास्तवमिमममलं नित्यं पठति नरो यः स जयति सत्यम् ॥ १२॥ येषां हृदये गङ्गा भक्तिः तेषां भवति सदा सुखमुक्तिः । मधुराकन्ता पञ्झटिकाभिः परमानन्दकलित ललिताभिः ॥ १३॥ गङ्गास्तोत्रमिदं भवसारं वाञ्छितफलदम् विमलं सारम् । शङ्करसेवक शङ्कर रचितं पठति सुखीः तव इति च समाप्तम् ॥ १४॥ ॥ इति श्रीमच्छङ्कराचार्यविरचितं गङ्गास्तोत्रं सम्पूर्णम् ॥ Encoded and proofread by Siva Pandyaram (siva at toledo.sbi.com).

% Text title            : gaNgAstotra
% File name             : gangastotra.itx
% itxtitle              : gaNgAstotram
% engtitle              : gaNgAstotra
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Siva Pandyaram siva at toledo.sbi.com
% Proofread by          : Siva Pandyaram siva at toledo.sbi.com
% Indexextra            : sha.nkarAchArya
% Latest update         : November 1, 2010, October 15, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP