कुमारविरचितं गौरीस्तवः

कुमारविरचितं गौरीस्तवः

सा गौरी सुखराशिरेव सुकृतश्रेणीसुधासागरः सौन्दर्यद्रववाहिनी च सततं सा वाहिनी सम्पदाम् । आपद्राशिविनाशिनी खलु महापापाशनैः सा शनैः एतन्मे शयनं समेत्य शमुमा मह्यं प्रदास्यत्यपि ॥ १॥ गौरी शारदपूर्णचन्द्रवदना दृष्टाऽप्यटैर्मुहुः कष्टं दुष्टमपाकरिष्यति मुहुः स्पृष्टा मुखाम्भोनिधिम् । (दुःखं) सृष्ट्वा सृष्टिविचक्षणा खलु मुहुर्दृष्टिप्रवृष्टिं परां स्रष्टुर्दृष्टिविशेष योषित तनुं कुर्याददृष्टान्वितम् ॥ २॥ (पोषित) भाग्यैर्भूरितपःप्रभावभवनैः सम्भावनीयान् मुहुः भक्ताभीष्टफलप्रदाननिपुणा साऽतिप्रवीणा क्षणम् । ध्याताऽपि क्षणदा प्रतिक्षणमतिश्लक्ष्णं भवानी कदा द्रष्टव्या नयनश्रमापहरणं कर्तव्यमत्यादरैः ॥ ३॥ धन्यानां भवनेषु सा गिरिसुता विन्यस्य पादाम्बुजं स्थित्वा सा क्षणमात्रमादरयुता तद्द्वारपालाङ्गणे । इच्छन्ती कमलाविलासमसकृत् तद्द्वारपालाङ्गणे- प्यालस्थेन विना रमाविहरणं सा कर्तुमन्विच्छति ॥ ४॥ देवानामपि वन्द्य एव सततं यत्पादुकाराधकः तत्पादाम्बुरुहं स्मरन्ति सुकृतैः कान्तैरनन्तैरपि । तन्मात्रस्मरणेन सुन्दरतरे सापीन्दिरामन्दिरे तत्सेवानिरता कदापि विरता श्रान्ता न सञ्जायते ॥ ५॥ जातश्चेज्जननीमनोज्ञजठरे गौरीपदाम्भोरुहं स्मृत्वा भूपतितामुपेत्य बहुधा भुक्त्वाऽपि भोगान् बहून् । कुर्वन् शाम्भवपालनं बहुधनैः कुर्वन् शिवाराधनं काशीं प्राप्य विमुच्यते मुनिवराराध्यामसाध्यामपि ॥ ६॥ दृष्टा चेद्गिरिराजराजतनया नेत्रोत्सवो जायते सर्वाङ्गं पुलकाञ्चितं च न मनः किं तत् प्रसन्नं मम । नित्यानन्दसुधाप्रसारलहरीकल्लोलमालाकुलः कालं किं न नयामि कालकलना सा कालकालस्य मे ॥ ७॥ ॥ इति शिवरहस्यान्तर्गते कुमारविरचितं गौरीस्तवः सम्पूर्णः ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः १३। ६०-६६॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 13. 60-66.. Proofread by Ruma Dewan
% Text title            : Kumaravirachitam Gauri Stava
% File name             : gaurIstavaHkumAravirachitam.itx
% itxtitle              : gaurIstavaH kumAravirachitam (shivarahasyAntargataH)
% engtitle              : gaurIstavaH kumAravirachitam
% Category              : devii, devI, shivarahasya, pArvatI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : pArvatI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 13| 60-66||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org